कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 509 of 1079
Read in context४७२ कथासरित्सागर ।
स हि कान्तिसुधास्यन्दमयीं तां वर्णयन्नृपः। नातृप्यदधिकोत्कण्ठश्चकोरश्चन्द्रिकामिव ॥१५४॥ प्राह चित्रकर स च वन्द्यो वश्याः कराश्च ते। येनेदं निर्मितं रूपं येन चालिखितं सखे ॥१५५॥ तद्रूपधरभूपस्य प्रतिपन्नं वचो मया। यामि मुक्तिपुरीमुपयच्छे च तत्सुताम् ॥१५६॥ इत्युक्त्वा चित्रकृद्वृत्तभिक्षून्सम्मान्य तान्धनैः। आसीच्चित्रपटं पश्यन्पृथ्वीरूपनृपोऽत्र सः ॥१५७॥ उद्यानादिषु नीत्वा च तद्दिनं विरहातुरः। लग्नं निश्चित्य सोऽन्येद्युश्चक्रे राजा प्रयाणकम् ॥१५८॥ युक्तो विविधहस्त्यश्वैः सामन्तै राजसूनुभिः। सरूपधरदूतैस्तैश्चित्रकृच्छ्रमणैश्च सः ॥१५९॥ गजेन्द्रं मङ्गलभटं राजारुह्य व्रजन्दिने। प्राप्य विन्ध्याटवीद्वारं सायं तत्र स्थितोऽभवत् ॥१६०॥ द्वितीयेऽह्नि समारुह्य शत्रुमर्दैनसंज्ञकम्। गजं तामटवीं राजा पृथ्वीरूपो विवेश सः ॥१६१॥ यावद्याति पुरस्तावदप्रयायि निजं बलम्। पलायमानमावृत्तमकस्मात्स व्यलोकयत् ॥१६२॥ किमेतदिति सम्भ्रान्तं स चाभ्येत्यैव तत्क्षणम्। राजपुत्रो गजारूढो निर्भयाख्यो व्यजिज्ञपत् ॥१६३॥ देवाग्रतोऽतिमहती भिल्लसेनाभिधाविता। तैर्वारणा नः पञ्चाशन्मात्रा भिल्लैः रणे हताः ॥१६४॥ सहस्रं च पदातीनामश्वानां च शतत्रयम्। अस्मदीयैश्च भिल्लानां द्वे सहस्रे निपातिते ॥१६५॥ एकोऽस्त्यस्मद्दले दुष्टः कञ्चभो द्वौ च तद्बले। ततोऽस्मत्सैनिका भग्नास्तद्बाणौघनिपीडिताः ॥१६६॥ तच्छ्रुत्वा कुपितो राजा पृथ्वीरूपः प्रमाथ्य सः। जघान सेनां भिल्लानां कौरवाणामिवार्जुनः ॥१६७॥ निर्भयादिभिरन्यैश्च निहतेष्वथ दस्युषु। प्रविष्टो देवकूलेन भिल्लः सेनापतिर्गिरौ ॥१६८॥