कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 511 of 1079
Read in context४७४ कथासरित्सागर बाणव्रणगलद्रक्तस्तस्तस्येभं शुशुभेर्दन्। सधातुनिर्झरोद्गारमञ्जनाद्रि म्व्यडम्बयत् ॥१६९॥ ततो लब्धजयावृत्ते तत्सैन्ये मिलितेऽखिले। पराभ्य हतशेषास्ते भित्वा दक्ष दिशो ययुः ॥१७०॥ ततो निवृत्तसंग्रामः पृथ्वीरूपो महीपतिः। स रूपभरदूतेन स्तूयमानपराक्रमः ॥१७१॥ व्रणितानीकविश्राम्य तस्यामेवाटवीभुवि। विजयी सरसीतीरे दिवसं वसति स्म सम् ॥१७२॥ प्रातस्तत प्रयातम्च स राजा क्रमशो व्रजन्। तत्राप नगरं वज्रपुरं तीरस्थमम्बुधेः ॥१७३॥ तत्रैकाहं विशश्राम तम्रत्येन महीभुता। उदारचरिताख्येन रचितोचितसत्क्रियः ॥१७४॥ तेनैवोपहृतैर्यानपात्रैस्तीर्त्वा च सागरम्। अष्टभिर्दिवसैः प्राप द्वीप मुत्तिपुर स तत् ॥१७५॥ बुद्ध्वा रूपभरस्तच्च राजा हृष्टस्तमभ्यगात्। मिलन्त स्म च तौ भूपौ कृतकण्ठग्रहौ मिथः ॥१७६॥ ततस्तेन समं पृथ्वीरूपो राजा स तत्पुरम्। विवेश पौरनारीणां पीयमान इवेक्षणैः ॥१७७॥ तत्र हेमलता राज्ञी स च रूपधरो नृपः। दृष्ट्वानुहपं दुहितुर्भर्तारं सं ननन्दतुः ॥१७८॥ अथ स्वसम्पदुचितं राज्ञा रूपधरेण सः। आचाररचितस्वस्तौ पृथ्वीरूपोऽत्र पार्थिवः ॥१७९॥ अम्युद्यतशिरोकाया वेदीमारुह्य शोभनः। लग्ने रूपलतायाः स सोत्सवः पाणिमग्रहीत् ॥१८०॥ सत्यं श्रुतं त्वया पूर्वमिति वक्तुमिव श्रुतिम्। प्रापोत्फुल्ला तयोर्दृष्टिरन्योन्यरूपवर्धिनोः ॥१८१॥ रत्नानि छात्रमोशेषु द्वयो रूपधरस्तयोः। ददौ तथा यथा सैष मन रत्नाकरो जनैः ॥१८२॥ निर्वृत्ते च सुतोद्वाह् पित्रङ्गच्छमणाना तान्। सम्पूज्य वस्त्राभरणैः सर्वानन्यानपूजयत् ॥१८३॥