कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 547 of 1079
Read in context५१२ कथासरित्सागर स्वनामख्याञ्जने तस्मिन् सोऽनङ्गप्रभया तया। सह दिव्यसुखस्तस्थौ ततो हरिवरो नृपः ॥२१५॥ साप्यनङ्गप्रभा तमेवासीत्तदनुरागिणी। विस्मृत्य स्वं प्रभावं स सर्वं शापविमोहिता ॥२१६॥ अत्रान्तरे स सप्ताद्रौ जीवदत्तो न केवलम्। प्रबुद्धो नैक्षतानङ्गप्रभां यावत् स्वमप्यसिम् ॥२१७॥ क्व साऽनङ्गप्रभा कष्टं क्व स खड्गोऽपि किं नु तम्। हृत्वा गता सा किं वा तौ नीतौ द्वावपि केनचित् ॥२१८॥ इत्युद्भ्रान्तो बहून् कुर्वन् वितर्कान् स दिनत्रयम्। गिरिं तं विचिनोति स्म दह्यमानः स्मराग्निना ॥२१९॥ ततोऽवतीर्य चिन्वानो वनानि दिवसान् दश। स बभ्राम न चापश्यत् तस्याः पदमपि क्वचित् ॥२२०॥ हा दुर्जनविधे कृच्छ्रात् सा दत्तापि कथं त्वया। खड्गसिद्ध्या सह हृता प्रियानङ्गप्रभा मम ॥२२१॥ इत्याक्रन्दन्निराहारो भ्रमन्नेकमवाप्तवान्। ग्रामं तत्र विवेशैकमार्तं द्विजगृहं च सः ॥२२२॥ गृहिणी तत्र सुभगा सुवस्त्रा चोपवेश्य तम्। आसने प्रियदत्ताख्यां स्वचेटीं शीघ्रमार्दिशत् ॥२२३॥ त्वरितं जीवदत्तस्य पादौ क्षाल्यतामस्य हि। निराहारस्य विरहाद्दिनमद्य त्रयोदशम् ॥२२४॥ तच्छ्रुत्वा विस्मितो जीवदत्तोऽन्तर्विममर्श सः। इहानङ्गप्रभा प्राप्ता किं किमेषाथ योगिनी ॥२२५॥ इति ध्यायन् धौतपादो भुक्तसद्दत्तभोजनः। प्रणतां प्रियदत्तां तामत्याश्चर्यात् पृच्छति स्म सः ॥२२६॥ एकं ब्रूहि कथं वेत्सि मद्वृत्तान्तमनिन्दिते। द्वितीयं चापि कथय प्रियाखड्गौ क्व मे गतौ ॥२२७॥ तच्छ्रुत्वा तमवोचत् सा प्रियदत्ता पतिव्रता। भर्तुरन्यो न मे चित्ते स्वप्नेऽपि कुरुते पदम् ॥२२८॥ पुत्रभ्रातृसमानन्यान् पश्यामि पुरुषानहम्। न च मेऽनर्चितो याति कदाचिदतिथिर्गृहात् ॥२२९॥