BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 589 of 1079

Read in context
Page 589

५४२ कथासरित्सागर

कृतादरः स नगरं स्वसुखायानिशम्भूपः। स च कार्पटिकस्तस्थौ सिंहद्वारे च पूर्ववत् ॥११९॥ कदाचिदेकसीमन्तगोत्रजायतयाय सः। लक्षदत्तो ययौ राजा युद्धं चास्याभवन्महत् ॥१२०॥ तत्र युद्धे स तस्याग्रे राज्ञः कार्पटिको बहून्। युद्धत्वादिरदण्डाग्रप्रहारैरवधीत्परान् ॥१२१॥ जितशत्रुः स राजा च निजं प्रत्याययौ पुरम्। न च तस्मै ददौ किञ्चित्तदपि दृष्टपराक्रमः ॥१२२॥ एवं कार्पटिकस्याथ लक्षदत्तस्य तिष्ठतः। व्यतीयुः पञ्च वर्षाणि तस्य कष्टेन जीवतः ॥१२३॥ षष्ठे प्रवृत्ते दृष्ट्वा तमेकदा दैवयोगतः। स राजा जातकरुणो लक्षदत्तो व्यचिन्तयत् ॥१२४॥ नाद्याप्यस्य मया दत्तं चिरक्लिष्टस्य किञ्चन। तद्यन्मया किञ्चिदेतस्मै दत्त्वा पश्याम्यहं न किम् ॥१२५॥ किं नामास्य वराकस्य वृत्तं पापक्षयो न वा। किं ददाति न वाद्यापि लक्ष्मीरस्य च दर्शनम् ॥१२६॥ इत्यालोच्य भूपः स्वैरं भाण्डागारं प्रविश्य सः। रत्नगर्भ मातुलुङ्गं समुद्गकमिव व्यधात् ॥१२७॥ चकार सर्वस्थानं च स विधाय बहिः सभाम्। तत्र च प्राविशन्सर्वे पौरसामन्तमन्त्रिणः ॥१२८॥ तन्मध्ये च प्रविष्टं तं राजा कार्पटिकं स्वयम्। इतो निकम्मेहीति जगाद स्निग्धया गिरा ॥१२९॥ ततः कार्पटिकः श्रुत्वा सम्मदस्तं प्रहर्षवान्। अग्रे सविधमागत्य राज्ञस्तस्योपविष्टवान् ॥१३०॥ ततस्तमब्रवीद्राजा ब्रूहि किञ्चित्सभाषितम्। तदाकर्ण्य पपाठैवामार्या कार्पटिकोऽथ सः ॥१३१॥ 'पूरयति पूणमेषा तरङ्गिणीसंहतिः समुद्रमिव। मदभीरधमस्य पुनर्मोधनमार्गेऽपि नायाति' ॥१३२॥ श्रुत्वतत्पाठयित्वा च भूयस्तुष्टः स भूपतिः। सद्रत्नपूर्णं तस्मै तन्मातुलुङ्गफलं ददौ ॥१३३॥