कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 605 of 1079
Read in context५५८ कथासरित्सागर एक एवास्त्युपायोऽत्र स्वाधीनः स तवैव च। तच्छ्रुत्वैव च सोऽवादीत्तुष्टो वीरवरो द्विजः ॥१३०॥ तर्हि ब्रूहि द्रुतं देवि यदि श्रेयो भवत्प्रभोः। प्राणैर्मे पुत्रदारैर्वा राज्यं सफलं मम ॥१३१॥ इत्युक्तवन्तमब्रूत् सा स वीरवर क्षितिः। अस्त्यत्र चण्डिकादेवी सैषा राजकुलान्तिके ॥१३२॥ तस्यै सत्त्ववरं पुत्रमुपहारीकरोषि चेत्। ततो जीवति राजासौ नास्त्युपायोऽपरः पुनः ॥१३३॥ श्रुत्वैतद्वसुधावाक्यं धीरो वीरवरस्तदा। यामि देवि करोम्येतदधुनैवेत्युवाच सः ॥१३४॥ कोऽन्यः स्वामिहितस्त्वाङ्गभद्रं तेऽस्तु व्रजेति भूः ॥ उक्त्वा तिरोऽभूत्सर्वं च राजा सोऽन्वागतोऽशृणोत् ॥१३५॥ ततो विक्रमतुङ्गोऽस्मिन् राज्ञि च्छन्नोऽनुगच्छति। द्रुतं वीरवरस्तस्यां रात्रौ स स्वगृहं ययौ ॥१३६॥ तत्र प्रबोध्य भार्यायै धर्मवत्यै शशंस सः। स्वपुत्रमुपहर्तव्यं राजार्थे वचनाद् भुवः ॥१३७॥ सा तच्छ्रुत्वाब्रवीत्कार्यमवश्यं स्वामिनो हितम्। तत्पुत्रश्चाथ भवता प्रतिबोध्योच्यतामिति ॥१३८॥ ततः प्रबोध्य बालाय तस्मै वीरवरेण तत्। ऊचे तदुपहारान्तं राजार्थे यद् भुवोदितम् ॥१३९॥ तच्छ्रुत्वा स यथार्थाख्यो बालः सत्त्ववरोऽभ्यधात्। प्रभुकार्योपयुक्तासुः पुण्यवांस्तात नास्ति किम् ॥१४०॥ भुक्तं मया तदन्नं यच्छोधनीयं ममापि तत्। तन्नीत्वा तत्कृते देव्या उपहारीकुरुष्व माम् ॥१४१॥ इत्यूचिवांसं तं सत्त्ववरं वीरवरः शिशुम्। 'सत्यं भवसि मज्जातः' इत्यवोचदविक्लवम् ॥१४२॥ एतद्विक्रमतुङ्गः स राजा श्रुत्वा बहिः स्थितः। अचिन्तयदहो सर्वे समसत्त्वा अमी इति ॥१४३॥ ततो वीरवरः स्कन्धे सुतं सत्त्ववरं स तम्। भार्या धर्मवती चान्ये पृष्ठे वीरवतीं सुताम् ॥१४४॥ गृहीत्वा जग्मतुस्तौ द्वौ रात्रौ तच्चण्डिकागृहम्। राजा विक्रमतुङ्गश्च पश्चाच्छन्नो ययौ तयोः ॥१४५॥