कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 657 of 1079
Read in context[page-header ६१ | कथासरित्सागर]
तत्रापश्यमहं तां च चन्दनाद्र्रविलेपनाम्। मृणालहारां बिसिनीपत्रशय्याविवर्त्तिनीम् ॥६२॥ कदलीपत्रपवनैर्वीज्यमानां सखीजनैः। पाण्डक्षामामभिव्यक्तस्मरज्वरलक्षणाम् ॥६३॥ हे सख्यश्चन्दनालेपकदलीदलमारुतैः । कृतमभिः किमेतेन विफलेन श्रमेण वः॥६४॥ एते हि मन्दपुण्यां मां दहन्ति शिशिरा अपि। एवं निवारयन्तीं च सखीराश्वासनाकुलाः॥६५॥ विलोक्य तदवस्थां तां तद्वितर्कसमाकुलः। कृतप्रणामस्तस्याश्च पुरतोऽहमुपाविशम् ॥६६॥ उपाध्यायेतृगास्मिंश्च चित्रे मे देहि रूपकम्। इत्युक्त्वा वेपमानेन पाणिना धृतवर्त्तिका॥६७॥ शनैरालिख्य सा भूमौ दर्शयन्ती नृपात्मजा। अलेखयन् मया कश्चिद्युवानं रूपवत्तरम्॥६८॥ आलिख्य सुन्दरं तं च देवं चिन्तितवानहम्। काम एवानया साक्षादयमालिखितो मया॥६९॥ किन्तु पुष्पमयश्चापो हस्त यन्नास्य लेखितः। तेन जाने न कामोऽयं तद्रूपः कोऽप्यसौ युवा ॥७०॥ अय च नूनमनया दृष्टः क्वापि श्रुतोऽपि वा। एतन्निबन्धनं चेवमस्याः स्मरविजृम्भितम् ॥७१॥ तदितो मेऽप्रमातव्यमुग्रदण्डो ह्ययं नृपः। एतत्पिता देवशक्तिर्युयुच्छेदं न क्षमेत मे ॥७२॥ इत्यालोच्यैव नत्वा तामहं मदनसुन्दरीम्। राजकन्यां निरगमं तया सम्मानितस्ततः ॥७३॥ श्रुतं चात्र महाराज मया परिजनामिषः। स्वैरं कथयतो यत्सा सानुरागा श्रुते त्वयि॥७४॥ ततश्चित्रपटे गुप्तं लिखितां तां नृपात्मजाम्। आदायाहं भवत्पादमूलं त्वरितमागतः॥७५॥
१ मूर्च्छन्तीं स्मरसन्तापेन।