कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 693 of 1079
Read in context६४४ कथासरित्सागर चिरयस्यथ किं देव इति तत्र च मातरः । नारायणीमथापृच्छन् सा जहासा शु नाब्रवीत् ॥७८॥ अतिनिर्बन्धपृष्टा च ताभिस्सा प्रत्युवाच सा । लज्जावहं यदप्येतत् सख्यस्तदपि वच्म्यहम् ॥७९॥ अस्ताह सुरसेनाख्यो राजा सुरपुरे पुरे । तस्य विद्याधरी नाम ख्यातरूपास्ति चात्मजा ॥८०॥ प्रदमायाश्च तेनास्या राज्ञा रूपसमं श्रुतं । विमलाख्यस्य तनयो राज्ञो नाम्ना प्रभाकरः ॥८१॥ तस्मै दित्सति तां तस्मिन् राज्ञि तेनापि सा श्रुता । विमलेन सुता तस्य निजपुत्रानुरूपिका ॥८२॥ ततः स विमलस्तस्मात् सुरसेनादयाचत । विद्याधरीं दूतमुखात् पुत्रार्थे तां तदात्मजाम् ॥८३॥ सोऽप्यपेक्षितसम्पत्त्या तत्सुताय सुतामदात् । प्रभाकराय तस्मै तां सुरसेनो यथाविधि ॥८४॥ तत सा प्राप्य विमलपुराख्यं श्वशुरं पुरम् । विद्याधरी समं भर्त्रा शयनीयमगात्निशि ॥८५॥ तत्रासम्भोगसुप्तं सा पतिं सोल्का प्रभाकरम् । यावन्निरीक्षते तावत्तमपश्यन्नपुंसकम् ॥८६॥ हा हताऽस्मि कथं षण्डः पतिः प्राप्तो मयेति सा । शोचन्ती छतसा रात्रिं राजपुत्री निनाय ताम् ॥८७॥ नपुंसकाय दत्ताहमन्विष्य कथं त्वया । इति लेखं लिखित्वा च पित्रे सा प्रहिणोत् ततः ॥८८॥ स दूत वाचायित्वैव विमलेनास्मि वञ्चितः । छद्मनाप्यगमत् क्रोधं तत्पिता विमलं प्रति ॥८९॥ सुतां नपुंसकायाहं यद्ब्याजाद्ग्राहितस्त्वया । पुत्राय तत्फलं मूढश्वः पश्य त्वामद्य हन्म्यहम् ॥९०॥ इति तस्मै स्वलङ्घनं सन्दिश्य स भूपतिः । शूरमना बलोद्रिक्तो विमलाय महीक्षित् ॥९१॥ विमलस्तदधिक्षिप्यत तस्येत्यार्यं गताश्रवः । विमृशन् दुजयं तन्निग्रहाय कञ्चिदन्बछत ॥९२॥