कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 703 of 1079
Read in context१५६ कथासरित्सागर
तच्छ्रुत्वाहं शुचा भीत्या तद्दिनं शयनाशितः । निशि स्वप्न इवाद्राक्षं भीमं पुरपमागतम् ॥१५३॥ सेनादाय बलेनाहमस्मिंल्लोहमये गृहे । क्षिप्तो यस्तं च मे मूर्ध्नि ज्वलच्चक्रमिदं भ्रमतु ॥१५४॥ इति मे पितृशापोऽयं तेन प्राणा न यान्ति मे । स च मासोऽद्य सम्पूर्णो न च मुच्य सभाप्यहम् ॥१५५॥ इत्युक्तवन्तं तं खड्गं स चक्रः सङ्घपोऽब्रवीत् । पित्रोः प्रवसतामार्थे मयापि न कृतं वचः ॥१५६॥ प्राप्तं नङ्क्ष्यति तं वित्तमिति मां शपत स्म तौ । तन्नाम्न मे धनं नष्टं कृत्स्नं द्वीपान्तरार्जितम् ॥१५७॥ एषव वार्तां श्रायत्र तत्सोऽयं जीवितन मे । दह्यतन्मूर्ध्नि मे चक्रं खड्ग शापोऽपयातु ते ॥१५८॥ इति चक्रे वदत्यय वाणी दिव्यात्र शुश्रुवे । खड्ग मुक्तोऽसि चक्रस्य मूर्द्धयेतन्चक्रमपर्यं ॥१५९॥ सञ्छ्रुत्वा चक्रशिरसि न्यस्तचक्रस्तदव सः । खड्गः केनाप्यवृश्यन निन्ये पितृगृहं ततः ॥१६०॥ तत्रासीत् स पुनः पित्रोरनुलङ्घितशासनः । चक्रस्त्वादाम तन्मूर्ध्नि चक्रं तत्रैवमभ्यधात् ॥१६१॥ पापिमोज्येऽपि मुच्यन्तां पृथ्व्यां तत्पातरपि । व्या पापक्षयमेतन्मे चक्रं भ्राम्यतु मूर्धनि ॥१६२॥ इत्युक्तवन्तं तं चक्रं धीरसत्त्वं नभःस्थिताः । पुष्पवृष्टिमुजो देवाः परितुष्ट्येवमब्रुवन् ॥१६३॥ साधु साधु महासत्त्व क्षान्तं कक्षणयानया । पापं ते व्रज वित्तं च तवाक्षम्यं भविष्यति ॥१६४॥ इत्युक्तवत्सु देवेषु चक्रस्य शिरसः क्षणात् । श्वायसं तस्य सचक्र जगाम क्वाप्यदर्शनम् ॥१६५॥ त्क्षमोपेत्याम्बरावेको विद्याधरकुमारकः । तुष्टेनेन्द्रप्रेषितं दत्त्वा महार्हं रत्नसञ्चयम् ॥१६६॥ मङ्के कृर्व्वथ स चक्रं नगरं धवलाभिधम् । निजं तत्प्रापयामास जगाम च यथागतम् ॥१६७॥