BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 709 of 1079

Read in context
Page 709

१६२ कथासरित्सागर कञ्चित्काल महीपालस्तस्थौ बान्धवसत्कृतः । तत्र मातृयुतं पित्रा वृत्तान्ताख्यायिना सह ॥१९७॥ यावत्तारापुरे तत्र तद्भार्या तु नृपात्मजा। निशाक्षये बन्धुमती श्रान्त सुप्ता व्यबुध्यत ॥१९८॥ बुद्ध्वा च स पतिं क्वापि गत विरहविह्वला। न लेभे सा रतिं क्वापि प्रासादोपवनादिषु ॥१९९॥ द्विगुणीकृतहारेण बाष्पेण रुदती परम्। आसीत् प्रलापैकभयी वाञ्छन्ती मृत्युमा सुखम् ॥२००॥ यामि कार्येण केनापि शीघ्रमेष्यामि चेति मे। स्वैरमुक्त्वैव स गतस्तन्मा पुत्रि शुचः कृथाः ॥२०१॥ इत्याश्वासविधिर्भूरिरनन्तस्वामिना ततः। मन्त्रिणाश्वासिताप्येत्य कृच्छ्रात्सा धृतिमादधे ॥२०२॥ तत प्रवृत्तिज्ञानार्थं भर्तुर्देशान्तरागतानू। पूजयन्ती सर्वदासीद्दाने सा द्विजपुङ्गवान् ॥२०३॥ तेन सङ्क्रमदत्ताख्य दीन वामागतं द्विजम्। भर्तुः पप्रच्छ सा वार्त्तामुक्त्वाभिज्ञाननामनी ॥२०४॥ ततस्तां स द्विजोऽवादीद्दृष्टो नैवविधो मया। कश्चित्तथापि देव्यत्र कार्या नैवाधृतिस्त्वया ॥२०५॥ चिरादवाप्यतेऽभीष्टसंयोगः शुभकर्मभिः। सदा च यन्मया दृष्टमाश्चर्यं वच्मि तच्छृणु ॥२०६॥ तीर्थपर्यटनह प्राप हिमाद्रौ मानस सरः। तत्रादर्शमिवापश्यमन्तर्मणिमयं गृहम् ॥२०७॥ ततोऽकस्माच्च निर्गत्य खड्गपाणिः पुमान् गुहात्। अध्यारोहत्सरस्तीरे दिव्यनारीगजान्वितः ॥२०८॥ तत्रोद्याने सह स्त्रीभि सोऽक्रीडत् पानलीलया। दूरात् सकौतुकश्चाह पश्यन्नासमलक्षितः ॥२०९॥ तावत्कुतोऽपि तत्रागात् सुभगः पुरुषोऽपरः। मिलिताय च सतस्मै यथादृष्टं मयोदितम् ॥२१०॥ दर्शितश्च स सस्त्रीक पुमान् दूरात्कुतूहलात्। तद्दृष्ट्वैव स्ववृत्तान्तमेवमाख्यातवान् मम ॥२११॥