कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 801 of 1079
Read in contextयहाँ पृष्ठ का पंक्ति-दर-पंक्ति पाठ प्रस्तुत है:
७५४ कथासरित्सागर रश्मिमानिति नाम्ना च कृत्वा सवयसं च क्रमात्। उपनीय समं सर्वा विद्या स्नेहादशिक्षयत् ॥९८॥ तं रश्मिमन्तं जानीतमेतं मुनिकुमारकम्। मित्रं भूतं मया सार्धं विहरन्तमिहागतम् ॥९९॥ इत्युक्त्वोतद्वयस्येन पृष्टा तेनापि मत्सखी। सा समानान्वयं सब्र मद्युक्तं तं त्वदब्रवीत् ॥१००॥ ततोऽन्योऽन्यव्यञ्जिताभिनितरामितरानुरागीणौ । मुनिपुत्रः स चाहं च यावत्तत्र स्थितावुभौ ॥१०१॥ तावदस्य द्वितीया मां स्वगृहावदत्सखी। उत्तिष्ठाहारभूमौ त्वां पिता मुग्धे प्रतीक्षते ॥१०२॥ तच्छ्रुत्वा शीघ्रमेष्यामीत्युक्त्वावस्थाप्य चात्र तम्। मुनिपुत्रं गताभूवं भीर्याहं पितुरन्तिकम् ॥१०३॥ तत्र किञ्चित्कृताहारा यावच्चाहं विनिर्गता। तावदाद्या सखी सा मामागत्य स्वैरमब्रवीत् ॥१०४॥ आगतो मुनिपुत्रस्य तस्येह स सखा सखि। स्थितश्च प्राङ्गणद्वारि सत्वरञ्च ममावदत् ॥१०५॥ मनोरथप्रभापार्श्वमहं रश्मिमताधुना। प्रेषितो व्योमगमनीं विद्यां दत्त्वैव पैतृकीम् ॥१०६॥ प्राणेश्वरीं विना तां हि मदनेन स दारुणाम्। दशां नीतो न शक्नोति प्राणान् धारयितुं क्षणम् ॥१०७॥ तच्छ्रुत्वास्यि निर्गत्य तेन युक्ताप्रयायिना। मुनिपुत्रकमित्रेण सख्या चाहमिहागता ॥१०८॥ प्राप्ता च समिहाद्राक्षं मुनिपुत्रं विना मम। चन्द्रोदयमनेनैव समं वृत्तप्राणोद्गमनं मतम् ॥१०९॥ ततोऽहं तद्वियोगात्तां निन्दन्ती तनुमात्मनः। प्रवेष्टुमच्छमनलं गृहीत्वा तत्कलेबरम् ॥११०॥ तावद्दिबोऽवतीर्यैव तेजपुञ्जाकृतिः पुमान्। आदाय तच्छरीरं स घोलयन् गगनं ययौ ॥१११॥ अथाहं केवलैवाग्नौ पतितुं यावदुद्यता। तावदुच्चरति स्मैव गगनादिह भारती ॥११२॥