कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 815 of 1079
Read in contextस सिंहो जातु तोयार्थमागच्छन् यमुनातटम् । तस्याराक्षादमशृणोत् सञ्जीवनकहुङ्कृतम् ॥२०॥ श्रुत्वा चाश्रुतपूर्वं स तन्नादं दिक्षु मूर्च्छितम् । स सिंहोऽचिन्तयत् कस्य बत नादोऽयमईदृशः ॥२१॥ नूनमत्र महत्सत्त्वं किञ्चित्तिष्ठत्यवेमि सत् । तन्मे दृष्ट्वैव मां हन्यादनाद्वापि प्रवासयेत् ॥२२॥ इति सोऽपीतपानीय एव गत्वा वनं द्रुतम् । भीतः सिंहो निगूढासीदाकारमनुयायिषु ॥२३॥ अथ प्राज्ञो दमनकः स मन्त्री तस्य जम्बुकः । तमवोचत् करटकं द्वितीयं मन्त्रिणं रहः ॥२४॥ अस्मत्स्वामी पयः पातुं गतो पीत्वैव सत्त्वरम् । आगतस्त्वरितं भद्र प्रच्छन्नोऽधैव कारणम् ॥२५॥ ततः करटकोऽवादीद् व्यापारोऽस्माकमेष कः । श्रुतस्त्वया न वृत्तान्तः किं कीलोत्पाटिनः कपेः ॥२६॥
कीलोत्पादिनो वानरस्य कथा
नगरे क्वापि केनापि वणिजा देवतागृहम् । कर्तुमारब्धमभवन् भूरिसम्भूृतदायकम् ॥२७॥ तत्र कर्मकराः काष्ठं क्रकचोर्ध्वार्धपाटितम् । दत्त्वान्तःकीलकमत्रं ते स्थापयित्वा गृहं ययुः ॥२८॥ तावदागत्य तत्रैको वानरश्चापलोत्प्लुतैः । कीलकन्यस्तविभागेऽपि काष्ठे तस्मिन्नुपाविशत् ॥२९॥ नाड्यन्तरे मुखे भूत्योरिव तत्रोपविश्य च । कीलमुत्पाटयामास हस्ताभ्यां निष्प्रयोजनम् ॥३०॥ मिथोश्लिष्टात्कीलेन सह काष्ठेन तेन च । सषूमागढमसङ्घट्टपीडिताङ्गो ममार सः ॥३१॥ एवं न यस्य यत्कर्म स तत्कुर्वन् विनश्यति । तस्मात् किं मृगराजस्य विज्ञातेनाद्यचेन नः ॥३२॥ एतत्करटकाच्छ्रुत्वा धीरो दमनकोऽब्रवीत् । अन्तर्भूमं प्रभोः प्राप्यो विशेषः सर्वदा बुधैः ॥३३॥