कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 843 of 1079
Read in context७९९ कथासरित्सागर क्षिप्तया शिलया तं च सूचीमुखमचूर्णयत्। तस्मान्न तस्य वक्तव्यं यः कुर्यान्न हितं वचः॥२०९॥ अतः किं वच्मि दोषाय भवेस्तावत् कृतस्त्वया। दुष्ट्या क्रियते यच्च बुद्ध्या तन्न शुभं भवेत्॥२१०॥ धर्मबुद्धिदुष्टबुद्धिवणिजोः कथा तथा चाभवतां पूर्वं भ्रातरौ द्वौ वणिक्सुतौ। धर्मबुद्धिस्तथा दुष्टबुद्धिः क्वचन पत्तने॥२११॥ तावथार्थं पितुर्गेहाद् गत्वा देशान्तरं सह। कथञ्चित् स्वर्णदीनारसहस्रद्वयमापतुः॥२१२॥ तद्गृहीत्वा स्वनगरं पुनराजग्मतुश्च तौ। वृक्षमूले च दीनारान् भूतले तान् न्यखनतुः॥२१३॥ शतमेकं गृहीत्वा च दीनाराणां विभज्य च। परस्परं समांशेन तस्थतुः पितृवेश्मनि॥२१४॥ एकदा दुष्टबुद्धिः स गत्वा स्रस्तराक्षसतः। एक एवाग्रहीत् सर्वान् दीनारांस्तानसद्धयधीः॥२१५॥ मासमात्रे गते स च धर्मबुद्धिमुवाच सः। एह्यार्य विभजावांस्तान् दीनारानस्ति मे व्ययः॥२१६॥ तच्छ्रुत्वा धर्मबुद्धिस्तां गत्वा भूमिं तथेति सः। चखान तेनैव समं दीनारा यत्र तान्न्यधात्॥२१७॥ सम्प्राप्ता न यदा स च दीनारा ज्ञातखाततः। तदा स दुष्टबुद्धिस्तं धर्मबुद्धिं शठोऽब्रवीत् ॥२१८॥ नीतास्तं भवता तन्मे स्वमर्धं दीयतामिति । न ते नीता मया नीतास्त्वयेत्याह स्म तं च सः॥२१९॥ एवं प्रवृत्ते कलहे साक्रन्दमा ताडयञ्छिरः। दुष्टबुद्धी राजकुलं धर्मबुद्धिं निनाय च॥२२० ॥ तत्रोक्तस्वस्वपक्षौ तावनासादितनिश्चयैः। स्थापितावा निश्छेदुभौ राजाधिकारिभिः॥२२१॥ यस्य मूले न्यधीयन्त दीनारास्तं वनस्पतेः। स साक्षी वक्ति यन्नीतास्त्वमुना धर्मबुद्धिना॥२२२॥