कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 857 of 1079
Read in context८८ कथासरित्सागर केचिन्मूर्खाः समाहूय न्ययोज्यन्ताधिकारिभिः । ग्राम्या राजकुलाविष्ट खर्जूरानयनं प्रति ॥३२॥ ते दृष्ट्वर्का सुखग्राह्यां खर्जूरपतितां स्वतः । खर्जूरीं तत्र खर्जूरीः सर्वा ग्रामे स्वकेऽच्छिदन् ॥३३॥ पतितास्ताश्च कलितास्तेषखर्जूरसञ्चयाः । उत्पाप्यारोपयामासुर्न चैषां सिद्ध्यति स्म तत् ॥३४॥ ततश्चानीतखर्जूरा बादृतारोपणेन ते । खर्जूरीच्छेदनं बुद्ध्वा राज्ञा प्रत्युत दण्डिताः ॥३५॥ मूर्खमन्त्रि कथा उक्तं खर्जूरघासोऽथ निष्फालोकनमुच्यते । निधानदर्शी केनापि कोष्याज्ञाहे महीभुजा ॥३६॥ मा गात्क्वापि पलाय्यापि राजकुर्मत्रिणा । नेत्रे तस्योदपाट्येतां निधानस्थानदर्शिनः ॥३७॥ भूरूक्ष्णाम्धपदस्मस्त गतावप्यगतौ समम् । अन्ध दृष्ट्वा च तं मन्त्री स जडो जहसे जनैः ॥३८॥ लवणभक्षकस्य मूर्खस्य कथा निधानालोकनं श्रुत्वा श्रूयतां लवणाशनम् । बभूव गह्वरो ग्रामवासी कोऽपि जडः पुमान् ॥३९॥ स मित्रेण गृहं जातु नीतो नगरवासिना । भोजिता लवणस्वादूत्यन्नानि व्यञ्जनानि च ॥४०॥ केनेय स्वादुतान्नानेरित्यपृच्छत्स गह्वरः । प्राधान्याल्लवणेनेति तेनोचे सुहृदा तदा ॥४१॥ तदेव सहि भोक्तव्यमित्युक्त्वा लवणस्य सः । पिष्टस्य मुष्टिमादाय प्रक्षिप्यामक्षयन्मुखे ॥४२॥ तच्छूनं तस्य दुर्बुद्धेरोष्ठौ द्मश्रूणि घालिपत् । हसतस्तु जनस्यात्र मुखं धवरतां ययौ ॥४३॥ मूर्खगोदोहककथा लवणाशी ध्रुतो येव त्वया मोदोहकः शृणु । ग्राम्यः कश्चिदभून्मुग्धो गोरेका तस्य चाभवत् ॥४४॥