BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 87 of 1079

Read in context
Page 87

एवमेतां हनिष्यावस्तत्प्रातस्तस्य गृहे मम। आगच्छेरित्युदित्वा सा गृहं मे स्वमदर्शयत् ॥१६४॥ तत्र तस्यां प्रविष्टायामहं निजगृहानगाम्। अनुभूताद्भुतानेकश्च मामुत्रैव जननि ॥१६५॥ प्रात कृपाणपाणिश्च गतवानस्मि तद्गृहम्। अथामात् सोमदा सात्र कृष्णाश्वापषधारिणी ॥१६६॥ सापि शोनहयारूपमकराद् बन्धमोचिनी। खुरदन्तप्रहारैश्च ततो युद्धमभूत्तयो ॥१६७॥ मया प्रवृत्तनिस्त्रिंशप्रहारा क्षुद्रशाकिनी। निहता बन्धमोचिन्या सया, मा सोमदा तत ॥१६८॥ मञ्चाहं निर्भयीभूतस्तीर्णतिर्मन्त्वधुर्गतिः। न कुस्त्रीसङ्गमं भूयो मनसा समचिन्तयम् ॥१६९॥ चापलं साहसिकता शाकिनीछम्बरादय । दोषाः स्त्रीणां भय प्रायो लोकत्रयमयावहाः ॥१७०॥ तच्छाकिनीसमीं बन्धदत्तां किमनुधावसि । स्नेहो यस्या म पत्यौ स्वे तस्यास्तु खम्पसो कुत ॥१७१॥ एवमुक्तोऽप्यहं तेन मित्रेण भवशर्मणा। नाकार्षं वचनं तस्य प्राप्तोऽस्मीमां गति तत ॥१७२॥ अतस्त्वां वच्मि मा कार्षीरनुरागपरां प्रति। क्लेशं सा हि स्वजातीये प्राप्ते त्वां त्यक्ष्यति ध्रुवम् ॥१७३॥ मुञ्चीष पुष्पं पुष्यं स्त्री वाञ्छति नव नवम्। अतोऽनुतापो भविता ममेव भवत सखे ॥१७४॥ इत्येतत्कपिरूपस्यसोमस्वामिवचो हृदि। तस्य निश्चयदत्तस्य नाविशद्रागनिर्मरे ॥१७५॥ उवाच स कपिं स हि न सा व्यभिचरेन्मयि। विद्याधराधिपकुले शुद्धे जाता ह्यसाविति ॥१७६॥ एव तयोराल्पतो सम्ध्यारक्तोऽस्तमूधरम्। ययौ निश्चयवत्तस्य प्रियेप्सुरिव भास्करः ॥१७७॥ अथागतायां रजनाबप्रवृत्यामियाययो । सा शृङ्गोत्पादिनी तस्य निकट तत्र यक्षिणी ॥१७८॥