कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 903 of 1079
Read in context८५४ कथासरित्सागर तस्य यूथेन शशका गाहमानेन तत्र ते । शिलीमुखस्य बहवः शशराजस्य चूर्णिताः ॥३१॥ ततो गजपतौ तस्मिन् गते सोऽत्र शिलीमुखः । दुःखितो विजयं नाम शशं प्राह्याससन्निधौ ॥३२॥ लब्धास्वादो गजेन्द्रोऽयं पुनः पुनरिहैष्यति । निःशेषयिष्यत्यस्मांश्च तदुपायोऽत्र चिन्त्यताम् ॥३३॥ गच्छ तस्यान्तिकं पश्य युक्तिः काप्यस्ति चेन्न वा । त्वं हि कार्यमुपायं च वेत्सि वक्तुं च युक्तिमान् ॥३४॥ यत्र यत्र गतस्त्वं हि तत्र तत्राभवच्छुभम् । इति स प्रेषितस्तेन प्रीतस्तत्र ययौ शनैः ॥३५॥ मार्गानुसारात् प्राप्तं च वारेन्द्रं ददर्श तम् । यथा तथा च युक्तं स्यात् सङ्गो बलिनेति सः ॥३६॥ शशोऽद्रिशिखरासङ्गो धीमांस्तमवदद् गजम् । अहं देवस्य चन्द्रस्य दूतस्त्वां चवमाह सः ॥३७॥ शीतं चन्द्रसरो नाम निवासोऽस्ति सरो मम । तत्रासते शशास्तेषां राजाऽहं ते च मे प्रियाः ॥३८॥ अत एवास्मि शीतांशू शशी चेति गतः प्रभाम् । तत्सरो नाशितं ते च शशका मे हतास्त्वया ॥३९॥ भूयः कर्तासि चेदेवं मत् प्राप्स्यसि तत्फलम् । एतद्दूताच्छशाच्छ्रुत्वा गजेन्द्रः सोऽब्रवीद् भयात् ॥४०॥ नैवं करिष्ये भूयोऽहं मान्यो मे भगवान्छशी । तदेहि दर्शयामस्ते यावत् प्रार्थये सखे ॥४१॥ इत्यूचिबान् स नागेन्द्रमानीय सरसोऽन्तरे । तत्र तस्मै धणश्चन्द्रप्रतिबिम्बमदर्शयत् ॥४२॥ तद्दृष्ट्वा दूरतो मत्वा भयात् कम्पसमाकुलः । नतं द्विपैन्द्रं स ययौ भूयस्तत्र न चाययौ ॥४३॥ प्रत्यक्षं तच्च दृष्ट्वा स शशराजः शिलीमुखः । सम्मान्य तं शशं दूतमवसत्तत्र निर्भयः ॥४४॥ इत्युक्त्वा वायसो भूयः पक्षिणस्तानभाषत । एवं प्रभुः स्वनाम्नैव मस्य कश्चिन्न बाधते ॥४५॥