BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 934 of 1079

Read in context
Page 934

८८४ कथासरित्सागर तद्विवाहावधौ शेषं मासस्य युगसन्निभम्। मन्वानो न रतिं लेभे नवोढोत्केन चेतसा ॥२॥ तद्बुद्ध्वा गोमुखमुखात् स्नेहात्तस्य पितान्तिकम्। वत्सराजः स्वसचिवान् प्राहिणोत्सवसन्तकान् ॥३॥ तद्गौरवात्तद्धैर्ये च तस्मिन् वत्सेश्वरात्मजे। विवग्धा गोमुखो मन्त्री बसन्तकमुवाच तम् ॥४॥ युवराजमनस्तुष्टिकरीमार्यवसन्तक । विचित्रां काञ्चिदाख्याहि कथामभिनवामिति ॥५॥ यशोधरलक्ष्मीधरब्राह्मणभ्रात्रोः कथा ततो वसन्तको धीमान्कथां वक्तुं प्रचक्रमे। मालवे धीधरो नाम प्रख्यातोऽभूद्विजोत्तमः ॥६॥ उत्पद्येते स्म तस्य द्वौ सदृशौ यमजौ सुतौ। ज्येष्ठो यशोधरो नाम तस्य लक्ष्मीधराऽनुजः ॥७॥ यौवनस्थं च तौ विद्याप्राप्तये भ्रातरावुभौ। देशान्तरं प्रतस्थाते सहितौ पितुराज्ञया ॥८॥ क्रमात् पथि व्रजन्तौ च प्रापतुस्तौ महाटवीम्। अजलामतारुच्छायां सन्तप्तसिकतास्थिताम् ॥९॥ तत्र यान्तौ परिक्लान्तावातपेन तृषा च तौ। एकं सफल्सच्छाद्यं साय सम्प्रापतुस्तरुम् ॥१०॥ मूले तस्य तरोश्चैकां वापीं पृथुमवस्थिताम्। शीतस्वच्छद्रुतसलिलीं कमलामोदवासिताम् ॥११॥ तस्यां स्नात्वा कृताहारौ पीतशीताम्बुनिर्वृतौ। पिनागङ्गारविष्टौ च क्षणं विश्राम्यत स्म तौ ॥१२॥ अस्नं गते रवौ सन्ध्यामुपास्य प्राणिनां भयात्। नतुं निशां भ्रातरो तौ समारुहदतुस्तरुम् ॥१३॥ निशाक्षणे च तत्रायात् पाश्यास्तस्मान्नभान्तरम्। उद्गच्छन्ति स्म पुरुषा बहवः पल्लवासनाः ॥१४॥ यथा वाचालयन् बुद्धिवद्भूमिगतो दक्षिणानिलम्। सचिन्त्य तत्र पुण्यानि पञ्चबाणोव्यवारयन् ॥१५॥