कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 940 of 1079
Read in context८९ कथासरित्सागर विद्युतं कः स्थिरीकुर्यात्को रक्षेच्चपलां स्त्रियम्। साध्वी यदि परं स्वेन शीलेनैकेन रक्ष्यते ॥४६॥ तद्रक्षिता सा भर्त्तारं रक्षत्युभयलोकयोः । यथानया धापवरक्षमयाद्यास्मि रक्षितः ॥४७॥ एतत्प्रसादात् कुलटासङ्गमोऽप्यगतो मम। न चोपनतमप्युग्रं सद्भिप्रवषपातकम् ॥४८॥ इत्युक्त्वा स तमप्राक्षीदुपवेश्य यशोधरम्। आगतोऽसि कुतः कुत्र भ्रमषः कथ्यतामिति ॥४९॥ ततो यशोधरस्तस्मै स्ववृत्तान्तं निवेद्य सः। विश्वासं प्राप्य पप्रच्छ तमप्यथ कुतूहलात् ॥५०॥ न रहस्यं महाभाग यदि तत्प्रब्रूहि मज्जुना। कस्त्वमीदृशि भोगेऽपि किं च ते जलवासिता ॥५१॥ तच्छ्रुत्वा शृणुतां वच्मीत्युक्त्वा स पुरुषस्तदा। जलवासी स्ववृत्तान्तमथ वक्तुं प्रचक्रमे ॥५२॥ हिमवद्दक्षिणो देशः काश्मीराख्योऽस्ति यं विधिः। स्वर्गकौतूहलं कत्तुं मर्त्यानामिव निर्ममे ॥५३॥ यत्र विस्मृत्य कैलासश्वेतद्वीपसुखस्थितिम्। स्वयम्भुवौ स्थानशतान्यभ्यासाते हराच्युतौ ॥५४॥ वितस्ताजलपूतो यः शूरविद्वज्जनाकुलः। अजेयश्छत्रदोषाणां द्विषतां हस्तिनामपि ॥५५॥ तत्राहं भवशर्माख्यो ग्रामवासी किलाभवम्। द्विजातिपुत्रः सामान्यो द्विभार्यः पूर्वजन्मनि ॥५६॥ सोऽहं कदाचित् सञ्जातसन्तप्तो मिथुभिः सह। उपोषणस्य नियमं तच्छास्त्रोक्तं गृहीतवान् ॥५७॥ तस्मिन् समाप्तप्राये च नियमे शयने मम। पापा हठादुपैत्यैका भार्या सुप्तवती किल ॥५८॥ तुर्ये तु यामे विस्मृत्य तद्व्रतं सन्निषेवणम्। निद्रामोहातया साकं रतं सेपितवानहम् ॥५९॥ तन्मात्रखण्डिते तस्मिन्व्रतेऽहं जलपूरुषः। इहाय जातस्ते द्वे च भार्ये जाते इहापि मे ॥६०॥