कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 950 of 1079
Read in context८१८ कथासरित्सागर यद्यपि त्वं न ब्रूषे नेच्छन्त्यपा तथाप्यहम्। ब्रवीमि विबुधं हृदं जनानां निहूते कथम्॥१०५॥ स तादृगस्या भार्यायास्तवोत्पन्नो महागदः। विना वानरहृत्पद्मयूषं न शममेति यः॥१०६॥ इत्युक्तः स प्रियासख्या शिशुमारो व्यचिन्तयत्। कष्टं वानरहृत्पद्मं कुतः सम्प्राप्नुयामद्दम्॥१०७॥ सख्यं करोमि यद्ग्राहं कपेस्तत्किं ममाहितम्। सख्या किमथवा भार्या प्राणेभ्योऽप्यधिकप्रिया॥१०८॥ इत्यालोच्य स्वभार्यां तां शिशुमारो जगाद सः। तदहंनेष्याम्यखण्डं ते कपिं किं दूयसे प्रिये॥१०९॥ इत्युक्त्वा स ययौ तस्य मित्रस्य निकटं कपेः। कथाप्रसङ्गमूत्पाद्य तमवमबदत् कपिम्॥११०॥ अद्यापि न सखे दृष्टं गृहं भार्या च मे त्वया। तदहि तत्र गच्छावो विध्यमायकमप्यहः॥१११॥ भुज्यते यन्न नान्योन्यं गृहमभ्येत्य निर्गलम्। प्रहृष्यन्तं न दाराश्च कतव तन्न सौहृदम्॥११२॥ इति प्रतार्य जलधाववतार्याविस्रम्भ्य च। वानरं शिशुमारस्तं गन्तुं प्रवृवृत्तश्च सः॥११३॥ गच्छन्तं तं स दृष्ट्वा च वानरश्चकिताकुलम्। सखेऽन्यादृगमद्य त्वां पश्यामीति स पृष्टवान्॥११४॥ निबन्धेनापि पृच्छन्तं मत्वा हस्तस्थितं च तम्। प्लवङ्गमं जगादेव शिशुमारो जडाशयः॥११५॥ अस्वस्था मे स्थिता भार्या सा च पश्याद्ययापि माम्। यावत् कपिहृत्पद्मं तनाद्य विमनाः स्थिता॥११६॥ श्रुत्वैतस्य वचस्तस्य कपिः प्राज्ञा व्यचिन्तयत्। हन्तेतदवमानानां पापनाहमहामुना॥११७॥ अहो स्त्रीशब्धगात्राणां मित्रद्रोहस्यमुद्यतः। किं वा स्त्रीणां स्वमांसानां नूनमन्ता न गर्हति॥११८॥ इति सञ्चिन्त्य च प्राह शिशुमारं स वानरः। यद्येवं तत्स्वयत्नश्च किं नास्त प्रथमं मगे॥११९॥