BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 97 of 1079

Read in context
Page 97

७६ कथासरित्सागर तदलं परितापेन तवदानीं शमं कुरु । भवितव्यं हि धात्रापि न शक्यमतिवर्तितुम् ॥२३६॥ इति तस्मात्कपेः श्रुत्वा शाकमोहं विहाय तम् । ययौ निश्चयवसोऽत्र विरक्तः शरणं शिवम् ॥२३७॥ अथ तत्र वने सुहृवा कपिना सह तिष्ठतस्ततो निकटम् । तस्याजगाम दैवात्तपस्विनी मोक्षदा नाम ॥२३८॥ सा तं क्रमेण दृष्ट्वा प्रणतं पप्रच्छ मानुषस्य सतः । चित्रं कथमिह जातो मित्रं ते मर्कटोऽयमिति ॥२३९॥ यतः स्वं वृत्तान्तं तदनु च स मित्रस्य चरितं समाचख्यो तस्यै कृपणमथ तामेवमवदत् । प्रयागं मग्नं वा यदि भगवती वेत्ति तदिमं परिभ्रंशात् सन्मित्रं सुहृदमधुना मोचयतु मे ॥२४०॥ श्रुत्वा सा तस्य वाचं कपेस्तत् सूत्रं कण्ठामन्त्रयुक्त्या मुमोच । सोऽथ त्यक्त्वा मर्कटीमाकृतिं तां सामस्वामी पूर्ववन्मानुषोऽभूत् ॥२४१॥ तस्यां ततश्च तद्विद्यां तिरोहितायां दिव्यप्रभावभूमिं भूरि तपो विधाय । प्राप्य तत्र शिवं निश्चयसमोम- स्यामसिद्धा प्रययतुः परमां गतिं तौ ॥२४२॥ एवं निजगुणगण्या रमना विचर- पद्यते विषयदोषपरिग्रहवशा । साध्वी तु रागिणी तासु कुरु विरक्तिं यासां फलं न तनुतापमवाप्नुवन्ति ॥२४३॥ इत्येतां नरवाहनदत्तो रुचिरास्य गोमुखस्य मुखात् । चिन्तामपश्य कथां श्रुत्वैव गताधमार्गेण ॥ २४४ ॥ इति कथासरित्सागरे मदनमञ्चुकालम्बके षष्ठस्तरङ्गः समाप्तः । शुभं भूयात् ।