कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 976 of 1079
Read in context१२२ कथासरित्सागर तेन रक्षिषु धत्तूरमोहितेष्वेषु सोऽग्निसात् । निधिं चक्रे घटो गेहे कर्परस्याहृतेन्धनः ॥७७॥ गते तस्मिंस्ततः प्रातर्बुद्ध्वा राजा निवार्य तान् । विमूढांस्थापयामास रक्षिणोऽन्यानुवाच च ॥७८॥ रक्ष्यास्थ्यस्थी यपीदानीं यस्तान्यादातुमभ्येति । स युष्माभिर्ग्रहीतव्यो भक्ष्यं किञ्चिन्न चान्यतः ॥७९॥ इति राज्ञोदितास्ते च सावधाना दिवानिशम् । तत्रासन् रक्षिणस्तं च वृत्तान्तं बुबुधे घटः ॥८०॥ ततः स चण्डिकादत्तमन्त्रप्रभाववित् । मित्रं प्रव्राजकं किञ्चिच्चकाराश्वासकेतनम् ॥८१॥ तत्र गत्वा समं तेन प्रव्राजा मन्त्रजापिना । रक्षिणो मोहयित्वा तान् कर्परास्थीनि सोऽग्रहीत् ॥८२॥ क्षिप्त्वा च तानि गङ्गायामेत्याख्याय यथाकृतम् । राजपुत्र्या समं तस्थौ सुप्तं प्रव्राजकान्वितः ॥८३॥ राजाऽपि सोऽस्थिहरणं बुद्ध्वा तद्रक्षिमोधनम् । आ सुताहरणात् सर्वं मेने तद्योगिचेष्टितम् ॥८४॥ येनैव योगिनाकारि तनयाहरणादि मे । ददामि तस्मै राज्यार्धमभिव्यक्तिं स याति चेत् ॥८५॥ इति राजा स्वनगरे दापयामास घोषणाम् । तां श्रुत्वा चैच्छदात्मानं घटो दर्शयितुं तया ॥८६॥ मैवं कृथा न कार्योऽस्मिन् विश्वासश्छद्मघातिनि । राज्ञीत्यवार्यत तया राजपुत्र्या ततश्च सः ॥८७॥ अथोद्वेगभयात्तेन साकं प्रव्राजकेन च । घटो देशान्तरं यायाद्राजपुत्र्या तया युतः ॥८८॥ मार्गे च राजपुत्री सा प्रव्राजं तं रहोऽब्रवीत् । एकेन श्वसितान्येन अश्वास्यमुमा पदात् ॥८९॥ तच्चोरः स मृतो नाम घटो मे त्वं बहुप्रियः । इत्युक्त्वा तेन सङ्गम्य सा विषेणावधीद् घटम् ॥९०॥ ततस्तेन समं यान्ती पापा प्रव्राजकेन सा । धनदत्ताभिधानेन सञ्जग्मे वणिजा पथि ॥९१॥ कोऽप्य क्याक्षी त्वं प्रेयान् ममेत्युक्त्वा ययौ समम् । वणिजा तेन ससुप्तं सा प्रव्राजं विहाय तम् ॥९२॥