BharatKosha
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

by महाकवि भारवि

Source: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (origin)

DevanagariHindipublished707 pages

Page 301 of 707

Read in context
Page 301

पञ्चमः सर्गः४३

हिन्दी— इस हिमालय पर अप्सराओं का निवास है, इसका मध्य भाग नितम्ब के समान रुचिर है, यहाँ कल-कल निनादिनी नदियाँ बहती हैं। पाताल लोक के रक्षक नागराज वासुकी को प्रिय, समस्त स्वादों को फीका बनानेवाली भूलोक को त्याग की हुई सुधा भी यहीं प्राप्त होती है, अन्यत्र नहीं ॥ २७ ॥

श्रीमल्लताभवनमोषधयः प्रदीपाः
शय्या नवानि हरिचन्दनपल्लवानि ।
अस्मिन्नरतिश्रमनुदश्च सरोजवाताः
स्मर्तुं दिशन्ति न दिवः सुरसुन्दरीभ्यः ॥ २८ ॥

अन्वयः— अस्मिन् श्रीमल्लताभवनम् ओषधयः प्रदीपाः नवानि हरिचन्दनपल्लवानि शय्याः रतिश्रमनुदः सरोजवाताः च सुरसुन्दरीभ्यः दिवः स्मर्तुं न दिशन्ति ।

विग्रहः— श्रीमल्लता एव भवनम् = श्रीमल्लताभवनम् । हरिचन्दनानां पल्लवानि = हरिचन्दनपल्लवानि । रतिजातः श्रमः = रतिश्रमः = तं नुदन्तीति रतिश्रमनुदः । सरोजानां वाताः = सरोजवाताः । सुराणां सुन्दर्यस्ताभ्यः = सुरसुन्दरीभ्यः ।

अर्थः— अस्मिन् = हिमाद्रौ । श्रीमल्लताभवनम् = समृद्धिमल्लतागृहम् । ओषधयः = तृणज्योतींषि एव । प्रदीपाः = दीपाः । नवानि = नूतनानि । हरिचन्दनपल्लवानि = चन्दनदलानि । एव शय्याः = तल्पानि । रतिश्रमनुदः = सुरतश्रमच्छेदकाः । सरोजवाताः = कमलगन्धपवनाः सुरसुन्दरीभ्यः = देवाङ्गनाभ्यः । दिवः = स्वर्गम् । स्मर्त्तुम् = स्मरणं कर्त्तुम् । न दिशन्ति । अर्थात् न विस्मारयन्ति ।

कोषः— 'हरिचन्दनमाख्यातं गोशीर्षे सुरपादपे' इति विश्वः ।

हिन्दी— इस हिमालय पर सुन्दर लताकुंज ही भवन हैं, ओषधियाँ ही दीपक हैं, चन्दन वृक्ष के नूतन पल्लव ही शय्याएं हैं, रतिश्रम को दूर करनेवाला कमलगन्धयुक्त वायु प्रवाहित होता रहता है। इस प्रकार सौन्दर्य युक्त हिमालय सुराङ्गनाओं को स्वर्ग तक भुला देता है ॥ २८ ॥

ईशार्थमम्भसि चिराय तपश्चरन्त्या यादोविलंघनविलोलोचनायाः ।
आलम्बनाग्रकरमत्र भवो भवान्याः श्च्योतन्निदाघसलिलाञ्जलिना करेण ॥