BharatKosha
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

by महाकवि भारवि

Source: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (origin)

DevanagariHindipublished707 pages

Page 305 of 707

Read in context
Page 305

पञ्चमः सर्गः ४७

चकितदृष्टेः । ईश्वरायाः = पार्वत्याः । आवद्धवेपथुः = प्राप्तकम्पः । विन्यस्तमङ्गल- महौषधिः = धृतशुभयवाङ्कुराद्योषधिः । पाणिः = करः । स्रस्तोरगप्रतिसरेण = गलितोरगहस्तसूत्रेण । करेण = हस्तेन । सलीलम् = सकौतुकम् । अगृह्णत = गृहीतः । कोषः—'आहुः प्रतिसरो हस्तसूत्रे माल्ये च मण्डने' इति विश्वः । हिन्दी—इसी पर्वत पर पिनाकपाणि भगवान् शिव ने अधीर नेत्रोंवाली पार्वतीजी का कांपता हुआ यवाङ्कुरादि शुभ लक्षणोंवाला हाथ अपने उरग के समान खिसकते हुए हस्तसूत्रवाले हाथ से सकौतुक पकड़ा था अर्थात् शिवजी ने यहाँ पार्वतीजी के साथ विवाह किया था ॥ ३३ ॥

क्रामद्भिर्घनपदवोमनेकसंख्यैस्तेजोभिः शुचिमणिजन्मभिर्विभिन्नः । उस्राणां व्यभिचरतीव सप्तसप्तेः पर्यस्यन्निह निचयः सहस्रसंख्याम् । ३४ । अन्वयः—घनपदवीं क्रामद्भिः अनेकसंख्यैः शुचिमणिजन्मभिः तेजोभिः विभिन्नः पर्यस्यन् इह सप्तसप्तेः उस्राणां निचयः सहस्रसंख्याम् व्यभिचरति इव । विग्रहः—घनानां पद्वी, तां घनपदवीम् । शुचिमणिभ्यः जन्म येषां तैः शुचिमणिजन्मभिः । सहस्रमिति संख्या = सहस्रसंख्या तां = सहस्रसंख्याम् । अर्थः—घनपदवीम् = आकाशम् । क्रामद्भिः = व्यश्नुवानैः । अनेकसंख्यैः = बहुसंख्यैः । शुचिमणिजन्मभिः = पूतस्फटिकजातैः । तेजोभिः = प्रकाशैः । विभिन्नः = मिश्रः । ( अत एव ) पर्यस्यन् = प्रसर्पन् । इह = पर्वते । सप्तसप्तेः = सूर्यस्य । उस्राणां = किरणानाम् । निचयः = निकरः । सहस्रसंख्याम् = दशशतसंख्याम् । व्यभिचरति इव = अतिक्रामतीव । अत्रोत्प्रेक्षालङ्कारः । कोषः—'घनजीमूतमुदिरजलमुग्धूमयोनयः' इत्यमरः । हिन्दी—आकाशमार्ग को पार करनेवाले बहुसंख्यक पवित्र मणियों द्वारा उत्पन्न तेजों से मिला हुआ सूर्य की किरणों का समूह इस पर्वत पर अपनी 'सहस्रसंख्या' को भी पार सा कर रहा है ॥ ३४ ॥

व्यधत्त यस्मिन् पुरमुच्चगोपुरं पुरां विजेतुर्धृतये धनाधिपः । स एष कैलास उपान्तसर्पिणः करोत्यकालास्तमयं विवस्वतः ॥ ३५ ॥ अन्वयः--यस्मिन् धनाधिपः पुरां विजेतुः धृतये उच्चगोपुरं पुरं व्यधत्त । स एष कैलासः उपान्तसर्पिणः विवस्वतः अकालास्तमयं करोति ।