BharatKosha
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

by महाकवि भारवि

Source: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (origin)

DevanagariHindipublished707 pages

Page 309 of 707

Read in context
Page 309

पञ्चमः सर्गः ५१

के वन से उड़ाया हुआ, आकाश में चारों ओर छाया हुआ कमल-पराग सुनहली छतरी के समान सुन्दर लगता है ॥ ३९ ॥

इह सनियमयोः सुरापगायामुषसि सयावकसव्यपादरेखा ।
कथयति शिवयोः शरीरयोगं विषमपदा पदवी विवर्तनेषु ॥ ४० ॥

अन्वयः—इह उपसि सुरापगायां मयावकसव्यपादरेखा विषमपदा विवर्तनेषु पदवी सनियमयोः शिवयोः शरीरयोगं कथयति ।

विग्रहः—सुराणामापगा=सुरापगा, तस्यां=सुरापगायाम् । सव्यपादस्य रेखा=सव्यपादरेखा, सयावका सव्यपादरेखा यस्यां सा=सयावकसव्यपादरेखा । विषमपदानि यस्यां सा=विषमपदा । शिवा च शिवश्च तयोः=शिवयोः । शरीरस्य योगस्त=शरीरयोगम् ।

अर्थः—इह=अस्मिन् कैलासे । उषसि=प्रभाते । सुरापगायां=सुरनद्याम् । सयावकसव्यपादरेखा = सालक्तकवामचरणमुद्रा । विषमपदा = अत्यल्पपदा । विवर्तनेषु = प्रदक्षिणाक्रियासु । पदवी=पद्धतिः । सनियमयोः = नियमवतोः । शिवयोः = पार्वती शङ्करयोः । शरीरयोगम् = अर्द्धाङ्गसंघटनारूपम् । कथयति = वर्णयति । अत्र काव्यलिङ्गालङ्कारः ।

कोषः—'यावोऽलक्तो द्रुमामयः' इत्यमरः ।

हिन्दी—इस कैलास पर प्रातःकाल गङ्गा के तट पर संध्या-वन्दनादि से सम्बन्धित प्रदक्षिणा करने से उमा और शिव के पदचिह्न दिखलाई पड़ते हैं। इनमें महावर लगे हुए बायें पैर की रेखा दाहिने पैर से छोटी है । इससे शिव और पार्वती का अर्द्धाङ्गो स्वरूप होना प्रकटित होता है ॥ ४० ॥

सम्मूर्च्छतां रजतभित्तिमयूखजालै-
रालोलपादपलतान्तरनिर्गतानाम् ।
घर्मद्युतेरिह मुहुः पटलानि धाम्ना-
मादर्शमण्डलनिभानि समुल्लसन्ति ॥ ४१ ॥

अन्वयः—इह रजतभित्तिमयूखजालैः सम्मूर्च्छताम् आलोलपादपलतान्तर-निर्गतानाम् घर्मद्युतेः धाम्नाम् आदर्शमण्डलनिभानि पटलानि मुहुः समुल्लसन्ति ।

विग्रहः—रजतभितीनां मयूखजालानि = रजतभित्तिमयूखजालानि, तैः=