BharatKosha
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

by महाकवि भारवि

Source: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (origin)

DevanagariHindipublished707 pages

Page 311 of 707

Read in context
Page 311

पञ्चमः सर्गः ५३

गणभर्तुः = प्रमथनाथस्य। उक्षा = वृषभः। वधूजनमनःसु = युवतिमनःसु। शशाङ्कशङ्काम् = चन्द्रभ्रान्तिम्। कुर्वन् = सम्पादयन्। अमुष्य = अस्य कैलासस्य। शृङ्गाणि = शिखराणि। भजते = सेवते। अत्र भ्रान्तिमदलंकारः। कोषः—'उक्षाऽनड्वान् बलीवर्द ऋषभो वृषभो वृषः' इत्यमरः। हिन्दी—शुभ्र किरणों से धवलित, वप्रक्रीडाप्रसक्ति से वर्तुलाकार (झुका हुआ) शरीरवाला शिवजी का नादिया (बैल) युवतियों के मन में चन्द्रमा होने का भ्रम उत्पन्न करता हुआ इसी हिमालय (कैलास) के शिखरों पर निवास करता है ॥ ४२ ॥

सम्प्रति लब्धजन्म शनकैः कथमपि लघुनि क्षीणपयस्युपेयुषि भिदां जलधरपटले। खण्डितविग्रहं बलभिदो धनुरिह विविधाः, पूरयितुं भवन्ति विभवः शिखरमणिरुचः॥ ४३ ॥

अन्वयः—इह विविधाः शिखरमणिरुचः सम्प्रति लघुनि क्षीणपयसि भिदाम् उपेयुषि जलधरपटले कथमपि शनकैः लब्धजन्म खण्डितविग्रहं बलभिदः धनुः पूरयितुं विभवः भवन्ति।

विग्रहः—शिखरेषु मणिरुचः = शिखरमणिरुचः। क्षीणं पयः = क्षीणपयस्त- स्मिन् = क्षीणपयसि। जलधराणां पटले = जलधरपटले। लब्धं जन्म येन तत् = लब्धजन्म। खण्डितो विग्रहो यस्य तत् खण्डितविग्रहम्।

अर्थः—इह = अस्मिन् पर्वते। विविधाः = नानावर्णाः। शिखरमणिरुचः = सानुमणिकान्तयः। सम्प्रति = शरदि। लघुनि = अगुरुणि। क्षीणपयसि = शुष्कजले। भिदां = भेदम्। उपेयुषि = गते। जलधरपटले = मेघमण्डले। कथमपि = केनापि प्रकारेण। लब्धजन्म = उत्पन्नं। खण्डितविग्रहम् = छिन्नस्वरूपम्। बलभिदः = शक्रस्य। धनुः = चापं। पूरयितुम् = पूर्णं कर्तुम्। विभवः = समर्थाः भवन्ति। अत्रातिशयोक्तिरलङ्कारो वंशपत्रपतितं वृत्तञ्च।

कोषः—'धाराधरो जलधरस्तडित्वान्वारिदोऽम्बुभृत्' इत्यमरः। हिन्दी—इस कैलास पर विविध शिखर-मणियोँ की कान्ति, शरद्ऋतु में छोटे- छोटे तथा जलरहित बादल बन जाने पर मेघमण्डल में जैसे-तैसे धीरे-धीरे सूक्ष्म या खण्डित रूप में निकले हुए इन्द्रधनुष को पूर्ण कर देती है ॥ ४३ ॥

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित) · Page 311 of 707 · BharatKosha