किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
by महाकवि भारवि
Source: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (origin)
Page 410 of 707
Read in context१५२ किरातार्जुनीयम्
कोषः—'तरलो भासुरो हीरे चञ्चलेऽपि' इति वैजयन्ती ।
हिन्दी—जलक्रीड़ा में अप्सराओं ने चकई-चकवाओं को दूसरे तटों पर भगा दिया । कापती हुई वे अप्सरायें हिलते हुए कमल जैसी सुन्दर लग रही थीं। गङ्गाजल में उनके धवल हार घुल गये थे । इस प्रकार वे अप्सराएं नक्षत्रों से चमकने वाली रात्रि जैसी सुन्दर लग रही थीं ॥ ५६ ॥
संक्रान्तचन्दनरसाहितवर्णभेदं विच्छिन्नभूषणमणिप्रकरांशुचित्रम् ।
बद्धोर्मिनाकवनितापरिभुक्तमुक्तं सिन्धोर्बभार सलिलं शयनीयलक्ष्मीम् ॥
अन्वयः—संक्रान्तचन्दनरसाहितवर्णभेदं विच्छिन्नभूषणमणिप्रकरांशुचित्रम् बद्धोर्मिनाकवनितापरिभुक्तमुक्तं सिन्धोः सलिलं शयनीयलक्ष्मीं बभार ।
विग्रहः—संक्रान्तैः चन्दनरसैः आहितः वर्णभेदो यस्य तत् = संक्रान्तचन्दनरसाहितवर्णभेदम् । विच्छिन्नानि भूषणानि = विच्छिन्नभूषणानि । तेषां ये मणिप्रकराः तेषामंशुभिः चित्रम् इति = विच्छिन्नभूषणमणिप्रकरांशुचित्रम् । बद्धा ऊर्मयः यस्मिंस्तत् = बद्धोर्मि । नाकवनिताभिः पूर्वं परिभुक्तं पश्चात् मुक्तम् तत् = नाकवनितापरिभुक्तमुक्तम् शेतेऽनेति शयनीयम्, तस्य या लक्ष्मीः ताम् = शयनीयलक्ष्मीम् ।
अर्थः—संक्रान्तचन्दनरसाहितवर्णभेदम् = संक्रान्तमलयजद्रवरहितरूपान्तरम् । विच्छिन्नभूषणमणिप्रकरांशुचित्रम् = त्रुटिताभूषणमणिगणकिरणनानावर्णम् । बद्धोर्मि = तरंगितम् । नाकवनितापरिभुक्तमुक्तं = सुराङ्गनाभिः पूर्वं परिभुक्तम् पश्चात् मुक्तम् । सिन्धोः = गङ्गानद्याः । सलिलम् = जलम् । शयनीयलक्ष्मीम् = तल्पशोभाम् । बभार = दधार । अत्र निदर्शनालङ्कारः ।
कोषः—'प्रतीपदर्शिनी वामा वनिता महिला तथा' इत्यमरः ।
हिन्दी—अप्सराओं की जलक्रीडा से उनके अंगों में लगे हुए चन्दन अंगरागादि से गङ्गाजल का रंग बदल गया तथा उनकी टूटी हुई मणियों के किरणजाल से वह अनेक वर्ण का दिखाई पड़ने लगा । इस भाँति तरंगित और देवांगनाओं के परिभोग से छूटा हुआ गङ्गाजल सुन्दर पलंग के समान लग रहा था ॥ ५७ ॥
इति भारविकृतौ सुधाटीकासंवलिते किरातार्जुनीये अष्टमः सर्गः ।