महाभारत (खंड ६) - अनुशासन, आश्वमेधिक, आश्रमवासिक, मौसल, महाप्रस्थानिक, स्वर्गारोहण व हरिवंश पर्व
Mahabharata (Vol 6) - Anushasana to Harivamsa Parva
by महर्षि कृष्णद्वैपायन वेदव्यास
Page 1543 of 2566
Read in contextसरयूर्गण्डकी चैव लोहितश्च महानदः । ताम्रारुणा वेत्रवती पर्णाशा गौतमी तथा ॥ २१ ॥ गोदावरी च वेण्या च कृष्णवेणा तथाद्रिजा । दृषद्वती च कावेरी चक्षुर्मन्दाकिनी तथा ॥ २२ ॥ प्रयागं च प्रभासं च पुण्यं नैमिषमेव च । तच्च विश्वेश्वरस्थानं यत्र तद्विमलं सरः ॥ २३ ॥ पुण्यतीर्थं सुसलिलं कुरुक्षेत्रं प्रकीर्तितम् । सिंधूत्तमं तपोदानं जम्बूमार्गमथापि च ॥ २४ ॥ हिरण्वती वितस्ता च तथा प्लक्षवती नदी । वेदस्मृतिर्वेदवती मालवाथाश्ववत्यपि ॥ २५ ॥ भूमिभागास्तथा पुण्या गङ्गाद्वारमथापि च । ऋषिकुल्यास्तथा मेध्या नद्यः सिंधुवहास्तथा ॥ २६ ॥ चर्मण्वती नदी पुण्या कौशिकी यमुना तथा । नदी भीमरथी चैव बाहुदा च महानदी ॥ २७ ॥ माहेन्द्रवाणी त्रिविदा नीलिका च सरस्वती । नन्दा चापरनन्दा च तथा तीर्थमहाह्रदः ॥ २८ ॥ गयाथ फल्गुतीर्थं च धर्मारण्यं सुरैर्वृतम् । तथा देवनदी पुण्या सरश्च ब्रह्मनिर्मितम् ॥ २९ ॥ पुण्यं त्रिलोकविख्यातं सर्वपापहरं शिवम् । हिमवान् पर्वतश्चैव दिव्यौषधिसमन्वितः ॥ ३० ॥ विन्ध्यो धातुविचित्राङ्गस्तीर्थवानौषधान्वितः । मेरुर्महेन्द्रो मलयः श्वेतश्च रजतावृतः ॥ ३१ ॥ शृङ्गवान् मन्दरो नीलो निषधो दर्दुरस्तथा । चित्रकूटोऽजनाभश्च पर्वतो गन्धमादनः ॥ ३२ ॥ पुण्यः सोमगिरिश्चैव तथैवान्ये महीधराः । दिशश्च विदिशश्चैव क्षितिः सर्वे महीरुहाः ॥ ३३ ॥ विश्वेदेवा नभश्चैव नक्षत्राणि ग्रहास्तथा । पान्तु नः सततं देवाः कीर्तिताऽकीर्तिता मया ॥ ३४ ॥ (देवता और ऋषि आदिके वंशकी नामावली इस प्रकार है—) सर्वभूतनमस्कृत, देवासुरगुरु, अचिन्त्य, अनिर्देश्य सबके प्राणस्वरूप और अयोनिज (स्वयम्भू) जगदीश्वर पितामह भगवान् ब्रह्माजी, उनकी पत्नी सती सावित्री देवी, वेदोंके उत्पत्तिस्थान जगत्कर्ता भगवान् नारायण, तीन नेत्रोंवाले उमापति महादेव, देवसेनापति स्कन्द, विशाख, अग्नि, वायु, प्रकाश फैलानेवाले चन्द्रमा और सूर्य, शचीपति इन्द्र, यमराज, उनकी पत्नी धूमोर्णा,