BharatKosha
मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

by महाकवि कालिदास / पं. रामचन्द्र मिश्र

DevanagariSanskritpublished111 pages

Page 9 of 111

Read in context
Page 9

६ मालविकाग्निमित्रे प्रथमा - अपुव्वा इअं दारिआ, आसण्णा अ देवीए आलिहिदा, किंनामहेएत्ति। द्वितीया - आकिदिविसेसेंसु आअरो पदं करेदि। तदो तदो। प्रथमा - तदो अवहीरिअवअणो भट्टा देवीं पुणो अणुबन्धिदुं सङ्किदो। तदो कुमारीए वसुलच्छीए आचक्खिदम्। अज्ज, एसा मालविअत्ति। द्वितीया - (सस्मितम्) सैरिसं खु बालभावस्स। अदो वरं कहेहि। प्रथमा - किं अण्णं। संवदं मालविआ सविसेसं भत्तुणो दंसण- पहादो रक्खीअदि। द्वितीया - हँला, अत्तणो णिओअं अणुचिट्ठ। अहं वि एदं अङ्गुलीअअं देवीए उवणेइस्सम्। (इति निष्क्रान्ता।) प्रथमा - (परिक्रम्यावलोक्य ।) ऎसो णट्टाअरिओ संगीदसालादो णिग्गच्छदि। जाव से अत्ताणं दंसेमि। (इति परिक्रामति।) १. अपूर्वैयं दारिका, आसन्ना च देव्या आलिखिता किंनामधेयेति। २. आकृतिविशेषेष्वादरः पदं करोति। ततस्ततः। ३. ततोऽवधीरितवचनो भर्ता देवीं पुनरनुबन्धुं शङ्कितः। ततः कुमार्या वसुलक्ष्म्याख्यातम्। आर्य, एषा मालविकेति। ४. सदृशं खलु बालभावस्य। अतः परं कथय। ५. किमन्यत्। सांप्रतं मालविका सविशेषं भर्तुर्दर्शनपथाद्रक्ष्यते। ६. सखि, आत्मनो नियोगमनुतिष्ठ। अहमप्येतदङ्गुलीयकं देव्यै उपनेष्यामि। ७. एष नाट्याचार्यः संगीतशालातो निर्गच्छति। यावदस्यात्मानं दर्शयामि। आसन्ना च देव्या आलिखिता, किंनामधेयेति ॥ आकृतिविशेषेष्वादरः पदं करोति। ततस्ततः ॥ ततोऽवधीरितवचनो भर्ता देवीं पुनरनुबन्धुं शङ्कितः। ततः कुमार्या वसुलक्ष्म्याख्यातम्। आर्य, एषा मालविकेति। सदृशं खलु बालभावस्य। अतः परं कथय॥ किमन्यत्। सांप्रतं मालविका सविशेषं भर्तुर्दर्शनपथाद्रक्ष्यते।'अपुव्वा इअं दारिआ' इत्यारभ्य 'दंसणपहादो रक्खिअदि' इत्यन्तेन वाक्यकदम्बकेन गम्यमानो मालविकागोचरो राज्ञोऽभिलाषोऽत्र नाटके बीजमित्यनुपश्येयम्॥ सखि, आत्मनो नियोगमनुतिष्ठ। अहमप्येतदङ्गुलीयकं देव्यै उपनेष्यामि॥ एष नाट्याचार्यः