BharatKosha
Back to the archive

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

by महाकवि कालिदास / पं. रामचन्द्र मिश्र

DevanagariSanskritpublished111 pages
Page 64Permalink

गदा एसा । ता वअं सिग्धं अवक्कमाम । जाव अङ्गारओ रासिं वि- अ अणुवक्कं परिगमणं ण करेदि । राजा—अहो मदनस्य वैषम्यम् । मन्ये प्रियाहृतमनास्तस्याः प्रणिपातलङ्घनं सेवाम् । एवं हि प्रणयवती सा शक्यमुपेक्षितुं कुपिता ॥ २३ ॥ (इति निष्क्रान्तः सह वयस्येन ।) इति तृतीयोऽङ्कः ।


प्रसन्ना गतैषा । तस्माद्वयं शीघ्रमपक्रमामः । यावदङ्गारको राशिमिवानुवक्रं प्रति- गमनं न करोति ॥ मन्य इत्यादि । प्रियाहृतमना मालविकाहतमनाः प्रणि- पातलङ्घनं प्रणामातिक्रमं तस्या इरावत्याः सेवामनुकूलाचरणं मन्ये । सेवायाः फलमाह—कुपिता क्रुद्धा प्रणयवती प्रेमवती सा इरावती एवमनेन क्रमेण प्रणि- पातलङ्घनरूपेणोपेक्षितुमौदासीन्येन वर्तितुं शक्यं हि शक्या खलु । शक्यमिति निपातः। अत्र बीजानुसंधानादाक्षेपो नाम संध्यङ्गमुक्तं भवति । इदमनुसंधानमेवो- त्तराङ्ककथोपयोगित्वाद्बिन्दुरित्यनुसंधेयम् ॥ इति श्रीकाटयवेमभूपविरचिते कुमारगिरिराजीये मालविकाग्निमित्रव्याख्याने तृतीयोऽङ्कः ॥


माल० ६

Page 65Permalink

६२ मालविकाग्निमित्रे चतुर्थोऽङ्कः । (ततः प्रविशति पर्युत्सुको राजा प्रतीहारी च ।) राजा—(आत्मगतम् ।) तामाश्रित्य श्रुतिपथगतामास्थया बद्धमूलः संप्राप्तायां नयनविषयं रूढरागः प्रवालः । हस्तस्पर्शैर्मुकुलित इव व्यक्तरोमोद्गमत्वा- त्कुर्यात्कान्तं मनसिजतरुर्मा रसज्ञं फलस्य ॥ (प्रकाशम् ।) सखे गौतम । प्रतीहारी—जेदुं जेदु भट्ठा । असंणिहिदो गोदमो राजा—(आत्मगतम् ।) आः, मालविकावृत्तान्तज्ञान- प्रेषितः । (प्रविश्य ।) विदूषकः—२वड्ढदु भवं ! राजा—जयसेने, जानीहि तावत्क्व देवी धारिणी त्वाद्विनोद्यत इति । प्रतीहारी—३जं देवो आणवेदि । (इति निष्क्रान्ता ।) राजा—गौतम, को वृत्तान्तस्तत्रभवत्यास्ते सख्याः । विदूषकः—४जो बिडालगहीदाए परहुदिआए । राजा—(सविषादम् ।) कथमिव । १. जयतु जयतु भर्ता । असंनिहितो गौतमः । २. वर्धतां भवान् । ३. यद्देव आज्ञापयति । ४. यो बिडालगृहीतायाः परभृतिकायाः । कविरिदानीमङ्कान्तरमारभते—ततः प्रविशतीत्यादिना । त कुलित इव संजातमुकुल इव कान्तं कामनायुक्तं कुर्यादिति प्रार्थनायां प्रसङ्गितं बीजं प्रकरीस्थाने कृतमिति मन्तव्यम् ॥ जयतु जयतु भर्त हितो गौतम वर्धतां भवान् ॥ यद्देव आज्ञापयति ॥ यो बिडालगृही

Page 66Permalink

चतुर्थोऽङ्कः । ६३ विदूषकः—१सा खु तवस्सिणी ताए पिङ्गलच्छीए सारभण्डभू- घरए गुहाए विअ णिक्खित्ता । राजा—ननु मत्संपर्कमुपलभ्य । विदूषकः—२अह इं । राजा—क एवं विमुखोऽस्माकम् । येन चण्डीकृता देवी । विदूषकः—३सुणादु भवं । परिव्वाजिआए मे कहिदं । हिओ किल तत्तहोदी इरावती रुअक्कन्तचलणं देविं सुहपुच्छिआ आगदा । राजा—ततस्ततः । विदूषकः—४तदो सा देवीए पुच्छिदा । किणु ओवलोइदो वल्ल- हजणो त्ति । ताए उत्तं । मन्दो वो उवआरो । जं परिजणे संकन्तं वल्लहत्तणं ण जाणीअदि । राजा—निर्भेदाहतेऽपि मालविकायामयमुपन्यासः शङ्कयति । विदूषकः—५तदो ताए अणुखिज्जमाणा सा भवदो अविणअं अन्तरेण परिगदत्था किदा । १. सा खलु तपस्विनी तया पिङ्गलाक्ष्या सारभाण्डभूगृहे गुहायामिव निक्षिप्ता । २. अथ किम् । ३. शृणोतु भवान् । परिव्राजिकया मे कथितम् । ह्यः किल तत्रभवती- रावती रुजाक्रान्तचरणां देवीं सुखपृच्छिकागता । ४. ततः सा देव्या पृष्टा । किं न्ववलोकितो वल्लभजन इति । तयोक्तम् । मन्दो व उपचारः । यत्परिजने संक्रान्तं वल्लभत्वं न ज्ञायते । ५. ततस्तयानुखिद्यमाना सा भवतोऽविनयमन्तरेण परिगतार्था कृता । तिकायाः सा खलु तपस्विनी तया पिङ्गलाक्ष्या सारभाण्डभूगृहे गुहायामिव नि- क्षिप्ता ॥ अथ किम् ॥ शृणोतु भवान् । परिव्राजिकया मे कथितम् । ह्यः पूर्वद्युः किल तत्रभवतीरावती रुजाक्रान्तचरणां देवीं सुखपृच्छिकया गता।। ततः सा देव्या पृष्टा।किं न्ववलोकितो वल्लभजन इति । तयोक्तम् ! मन्दो व उपचारः । यत्परिजने संक्रान्तं वल्लभत्वं न ज्ञायते ॥ निर्भेदादृतेऽपि स्फुटीकरणं विनापि ॥ ततस्तयानुखिद्यमाना सा भवतोऽविनयमन्तरेण परिगतार्था कृता । धारिणी राजाविनयमिरावत्याः सकाशा-

Page 67Permalink

६४ मालविकाग्निमित्रे राजा—अहो दीर्घरोषता तत्रभवत्याः । अतः परं कथय । विदूषकः—किं¹ अदो वरं । मालविआ बउलावलिआ अणि- अलपदीओ अदिट्ठसुज्जपादं पादालवासं णाअकण्णआओ विअ अणुहोन्ति । राजा—कष्टं कष्टम् । मधुरस्वरा परभृता भ्रमरी च विबुद्धचूतसङ्गिन्यौ । कोटरमकालवृष्ट्या प्रबलपुरोवातया गमिते ॥ २ ॥ अप्यत्र कस्यचिदुपक्रमस्य गतिः स्यात् । विदूषकः—कंहं² भविस्सदि । जं सारभाण्डघरए बाउदा माह- विआ देवीए संदिट्ठा । मह अङ्गुलीअअमुद्दं अदेखिअ ण मोत्तव्वा, मालविआ बउलावलिआ अ त्ति । राजा—(निःश्वस्य । सपरामर्शम् ।) सखे, किमत्र कर्तव्यम् । विदूषकः—(विचिन्त्य ।) अत्थि³ एत्थ उवाओ । राजा—क इव । विदूषकः—(सदृष्टिक्षेपम् । ) को⁴ वि अदिट्ठो सुणोदि । कण्णे दे कहेमि । (इत्युपश्लिष्य कर्णे ।) एवं विअ । (इत्यावेदयति ।) १. किमतः परम् । मालविका बकुलावलिका च निगलपद्यावदृष्टसू- र्यपादं पातालवासं नागकन्यके इवानुभवतः । २. कथं भविष्यति । यत्सारभाण्डगृहे व्यापृता माधविका देव्या सं- दिष्टा । ममाङ्गुलीयकमुद्रामदृष्ट्वा न मोक्तव्या मालविका बकुलावलिका चेति- ३. अस्त्यत्रोपायः । ४. कोऽप्यदृष्टः शृणोति । कर्णे ते कथयामि । एवमिव । ज्ञातवतीत्यर्थः ॥ किमतः परम् । मालविका बकुलावलिका च निगलपद्यावदृष्टसू- र्यपादं पातालवासं नागकन्यके इवानुभवतः ॥ मधुरस्वरेत्यादि । स्पष्टोऽर्थः । कथं भविष्यति । यत्सारभाण्डगृहे व्यापृता माधविका देव्या संदिष्टा । ममाङ्गुलीय- कमुद्रामदृष्ट्वा न मोक्तव्या मालविका बकुलावलिका चेति ॥ अस्त्यत्रोपायः ॥ को- ऽप्यदृष्टः शृणोति । कर्णे ते कथयामि । एवमिव । अत्र राज्ञः कर्णे विदूषकोक्त उपायो

Page 68Permalink

चतुर्थोऽङ्कः । ६५ राजा—(सहर्षम् ।) सुष्ठु । प्रयुज्यतां सिद्धये । (प्रविश्य ।) प्रतीहारी—देवं, पवादसयणम्मि देवी णिसण्णा रत्तचन्दण- धारिणा परिअणहत्थगदेण चलणेण भअवदीए कहाहिं विणोदि- ज्जमाणा चिट्ठदि । राजा—तेन ह्यसत्प्रदेशयोग्योऽयमवसरः । विदूषकः—तो गच्छदु भवं । अहं वि देवीं पेक्खिदुं अरि- त्तपाणी भविस्सं । राजा—जयसेनायास्तावदस्मद्रहस्यं विदितं कुरु । विदूषकः—तँह । (इति कर्णे ।) एवं विअ होदि । (इत्यावेद्य नि- ष्क्रान्तः ।) राजा—जयसेने, प्रवातशयनमार्गमादेशय । प्रतीहारी—इँदो इदो देवो । (ततः प्रविशति शयनस्था देवी परिव्राजिका विभवतश्च परिवारः ।) देवी—भैअवदि, रमणिज्जं कहावत्थु । तदो तदो । परिव्राजिका—देवि, अतःपरं पुनःकथयिष्यामि । अत्र भगवान्विदिशेश्वरः संप्राप्तः । १. देव, प्रवातशयने देवी निषण्णा रक्तचन्दनधारिणा परिजनहस्त- गतेन चरणेन भगवत्या कथाभिर्विनोद्यमाना तिष्ठति । २. तद्गच्छतु भवान् । अहमपि देवीं द्रष्टुमरिक्तपाणिर्भविष्यामि । ३. तथा । एवमिव भवति । ४. इत इतो देवः । ५. भगवति, रमणीयं कथावस्तु । ततस्ततः । नियमेन मालविकाप्राप्तिहेतुत्वान्नियताप्तिर्नाम चतुर्थावस्था सूचिता॥अत्रपूर्वं प्रकरी- स्थानोक्तबीजस्यानया नियताप्त्या समन्वयाद्वमशों नाम चतुर्थसंधिः प्रतिपादित इति मन्तव्यम्॥देव,प्रवातशयने देवी निषण्णा रक्तचन्दनधारिणा परिजनहस्तगतेन चरणेन भगवत्या कथाभिर्विनोद्यमाना तिष्ठति ॥ तस्माद्गच्छतु भवान्।अहमपि देवीं द्रष्टुमरिक्तपाणिर्भविष्यामि ॥ तथा । एवमिव भवति ॥ इत इतो देवः ॥ भगवति,

Page 69Permalink

६६ मालविकाग्निमित्रे देवी—¹अह्नो, भट्ठा । (इत्युत्थातुमिच्छति ।) राजा—अलमलमुपचारयन्त्रणया । अनुचितनूपुरविरहं नार्हसि तपनीयपीठिकालम्बि । चरणं रुजा परीतं कलभाषिणि मां च पीडयितुम् ॥ ३ ॥ धारिणी—²जेदु अज्जउत्तो । परिव्राजिका—विजयतां देवः । राजा—(परिव्राजिकां प्रणम्योपविश्य ।) देवि, अपि सह्या वेदना । धारिणी—³अज्ज अत्थि मे विसेसो । (ततः प्रविशति यज्ञोपवीतबद्धाङ्गुष्ठः संभ्रान्तो विदूषकः ।) विदूषकः—⁴परित्ताअदु परित्ताअदु भवं । सप्पेणह्मि दट्ठो । (सर्वे विषण्णाः ।) राजा—कष्टं कष्टम् । क्व भवान्परिभ्रान्तः । विदूषकः—देविं⁵ देखिस्सं ति आआरपुप्फग्ग्रहणकारणादो पमदवणं गदोह्मि । देवी—⁶हद्धि हद्धि । अहं एव बह्मणस्य जीविदसंसअनिमित्तं जादह्मि । १. अहो, भर्ता । २. जयत्वार्यपुत्रः । ३. अद्यास्ति मे विशेषः । ४. परित्रायतां परित्रायतां भवान् । सर्पेणास्मि दष्टः । ५. देवीं द्रक्ष्यामीत्याचारपुष्पग्रहणकारणात्प्रमदवनं गतोऽस्मि । ६. हा धिक् हा धिक् । अहमेव ब्राह्मणस्य जीवितसंशयनिमित्तं जातास्मि । रमणीयं कथावस्तु । ततस्ततः ॥ अहो, भर्ता ॥ अनुचितेनेति । स्पष्टोऽर्थः॥ जयत्वा- र्यपुत्रः॥अद्यास्ति मे विशेषः ॥ तत इति । यज्ञोपवीतेन बद्धोऽङ्गुष्ठो यस्य स तथोक्तः। अत्र कल्पनाया गम्यमानत्वाच्चलनं नाम संध्यङ्गमुक्तं भवति ॥ परित्रायतां परित्रा- यतां भवान् । सर्पेणास्मि दष्टः ॥ देवीं द्रक्ष्यामीत्याचारपुष्पग्रहणकारणात्प्रमदवनं गतोऽस्मि ॥ हा धिक् हा धिक् । अहमेव ब्राह्मणस्य जीवितसंशयनिमित्तं जातास्मि ॥

Page 70Permalink

चतुर्थोऽङ्कः । ६७ विदूषकः—तहिं असोअथवअकारणादो पसारिदे दक्खि- णहत्थे कोडरणिग्गदेण सप्परूवेण कालेण दट्टोम्हि । णं एदे दुवे दंसणपदानि । (इति दंशं दर्शयति ।) परिव्राजिका—तेन हि दंशच्छेदः पूर्वकर्मेति श्रूयते । स ता- वदस्य क्रियताम् । छेदो दंशस्य दाहो वा क्षतेर्वा रक्तमोचनम् । एतानि दष्टमात्राणामायुष्याः प्रतिपत्तयः ॥ ४ ॥ राजा—संप्रति विषवैद्यानां कर्म । जयसेने, ध्रुवसिद्धिः क्षि- प्रमानीयताम् । प्रतीहारी—²जं देवो आणवेदि । (इति निष्क्रान्ता ।) विदूषकः—³अहो, पावेण मिच्छुणा गहीदोम्हि । राजा—मा कातरो भूः । अविषोऽपि कदाचिद्दंशो भवेत् । विदूषकः—⁴कँहं ण भाइस्सं । सिमसिमाअन्ति मे अङ्गाईं । (इति विषवेगं रूपयति ।) देवी—⁵हाँ दंसिदं असुहं विआरेण । अवलम्बध बह्मणं । १. तस्मिन्नशोकस्तंबककारणात्प्रसारिते दक्षिणहस्ते कोटरनिर्गतेन स- र्परूपेण कालेन दष्टोऽस्मि । नन्वेते द्वे दंशपदे । २. यद्देव आज्ञापयति । ३. अहो, पापेन मृत्युना गृहीतोऽस्मि । ४. कथं न भेष्यामि । सिमसिमायन्ति मेऽङ्गानि । ५. हा, दर्शितमशुभं विकारेण । अवलम्बध्वं ब्राह्मणम् । तस्मिन्नशोकस्तबककारणात्प्रसारिते दक्षिणहस्ते कोटरनिर्गतेन सर्परूपेण कालेन दष्टोऽस्मि । नन्वेते द्वे दंशपदे ॥ छेदो दंशस्येत्यादि । स्पष्टोऽर्थः ॥ ध्रुवसिद्धि- रिति तस्य वैद्यस्य नाम ॥ यद्देव आज्ञापयति ॥ अहो, पापेन मृत्युना गृहीतोऽस्मि ॥ कथं न भेष्यामि । सिमसिमायन्ति मेऽङ्गानि । अनेन संतापः सूच्यते । विषवेगं विष- प्राप्तिं रूपयति प्रकाशयति विषवेगास्तु कथिता 'वैवर्ण्यं वेपथुर्दाह-

Page 71Permalink

६८ मालविकाग्निमित्रे (परिव्राजिका ससंभ्रममवलम्बते ।) विदूषकः—(राजानं विलोक्य ।) १भोः, भवदो बाह्लादोवि पिय- वअस्सोह्नि । तं विआरिअ अवुत्ताए मे जणणीए जोगक्खेमं वहेसु । राजा—मा भैषीर्गौतम । स्थिरो भव । अचिरात्त्वां वैद्यश्चिकि- त्सिष्यति । (प्रविश्य ।) जयसेना—देवे, आणाविदो धुवसिद्धी विण्णावेदि । इह एव आणीअदु सो गोदमोत्ति । राजा—तेन हि प्रतिगृहीतमेनं तत्रभवतः सकाशं प्रापय । जयसेना—३तहा । विदूषकः—(देवीं विलोक्य ।) ४भोदि, जीवेअं वा ण वा । जं मए अत्तभवन्तं सेवमाणेण ते अवरद्धं तं मरिसेहि । देवी—दीहाऊ होहि । (निष्क्रान्तौ विदूषकः प्रतीहारी च ।) राजा—प्रकृतिभीरूस्तपस्वी ध्रुवसिद्धिमपि यथार्थनामानं सि- द्धिमन्तं न मन्यते । १. भोः, भवतो बाल्यादपि प्रियवयस्योऽस्मि । तं विचार्यापुत्राया मे जनन्या योगक्षेमं वह । २. देव, आज्ञापितो ध्रुवसिद्धिर्विज्ञापयति । इहैवानी्यतां स गौतम इति । ३. तथा । ४. भवति, जीवेयं वा न वा । यन्मयात्रभवन्तं सेवमानेन तेऽपराद्धं तन्मृष्यस्व । ५. दीर्घायुर्भव । ष्टम् । दर्शितमशुभं विकारेण । अवलम्बध्वं ब्राह्मणम् ॥ भोः, भवतो बाल्यादपि प्रि- यवयस्योऽस्मि । तं विचार्यापुत्राया मे जनन्या योगक्षेमं वह ॥ देव, आज्ञापितो ध्रु- वसिद्धिर्विज्ञापयति । इहैवानी्यतां स गौतम इति ॥ तथा ॥ भवति, जीवेयं वा न वा। यन्मयात्रभवन्तं सेवमानेन तेऽपराद्धं तन्मृष्यस्व ॥ दीर्घायुर्भव ॥ जयतु भर्त्ता । ध्रुव-

Page 72Permalink

चतुर्थोऽङ्कः । ६९ (प्रविश्य ।) जयसेना—जेदुं भट्टा । धुवसिद्धी विष्णावेदि । उदकुम्भवि- हाणेण सप्पमुद्दिअं किंपि कप्पिदव्वं । तं अण्णेसीअदु त्ति । देवी—इदं सप्पमुद्दिअं अङ्गुलीअअं । पच्छा मम हत्थे देहि णं । (इत्यङ्गुलीयकं ददाति ।) (प्रतीहारी गृहीत्वा स्थिता ।) राजा—कर्मसिद्धावाशु प्रतिपत्तिमानय । प्रतीहारी—जं³ देवो आणवेदि । परिव्राजिका—यथा मे हृदयमाचष्टे तथा निर्विषो गौतमः । राजा—भूयादेवम् । (प्रविश्य ।) जयसेना—जेदुँ⁴ देवो । णिवुत्तविसवेगो गोदमो मुहुत्तेण पकिदित्थो संवृत्तो । देवी—⁵दिट्ठिआ । प्रतीहारी—⁶एसो उण अमच्चो वाहतओ विण्णावेदि । रा- अकज्जं बहु मन्तिदव्वं । दंसणेण अणुग्गहं इच्छामि त्ति । १. जयतु भर्ता । ध्रुवसिद्धिर्विज्ञापयति । उदकुम्भविधानेन सर्पमुद्रितं किमपि कल्पयितव्यम् । तदन्विष्यतामिति । २. इदं सर्पमुद्रितमङ्गुलीयकम् । पश्चान्मम हस्ते देह्येतत् । ३. यद्देव आज्ञापयति । ४. जयतु देवः । निवृत्तविषवेगो गौतमो मुहूर्तेन प्रकृतिस्थः संवृत्तः । ५. दिष्ट्या । ६. एष पुनरमात्यो वाहतको विज्ञापयति । राजकार्यं बहु मन्त्रयित- व्यम् । दर्शनेनानुग्रहमिच्छामीति । सिद्धिर्विज्ञापयति । उदकुम्भविधानेन सर्पमुद्रितं किमपि कल्पयितव्यम् । तदन्वि- ष्यतामिति ॥ इदं सर्पमुद्रितमङ्गुलीयकम् । पश्चान्मम हस्ते देह्येतद् ॥ यद्देव आज्ञाप- यति जयतु देव । गौतमो मुहूर्तेन प्रकृतिस्थ संवृत्त दिष्ट्या ॥

Page 73Permalink

७० मालविकाग्निमित्रे देवी—^१गच्छदु अज्जउत्तो कज्जसिद्धीए । राजा—आतपाक्रान्तोऽयमुद्देशः । शीतक्रिया चास्या रुजः प्र- शस्ता । तदन्यत्र नीयतां शयनम् । देवी—^२बालिआओ, अज्जउत्तवअणं अणुचिट्ठह । परिजनः—^३तह । (निष्क्रान्ता देवी परिव्राजिका परिजनश्च ।) राजा—जयसेने, मां गूढेन पथा प्रमदवनं प्रापय । प्रतीहारी—^४इँदो इदो देवो । राजा—जयसेने, समाप्तकरणीयो ननु गौतमः । प्रतीहारी—^५अह इं । राजा— इष्टाधिगमनिमित्तं प्रयोगमेकान्तसाध्यमपि मत्वा । संदिग्धमेव सिद्धौ कातरमाशङ्कते हृदयम् ॥ ५ ॥ (प्रविश्य ।) विदूषकः—^६वँड्ढदु भवं । सिद्धांई दे मङ्गलकम्माईं । राजा—जयसेने, त्वमपि नियोगमशून्यं कुरु । प्रतीहारी—^७जं देवो आणवेदि । (इति निष्क्रान्ता ।) १. गच्छत्वार्यपुत्रः कार्यसिद्धये । २. बालिकाः, आर्यपुत्रवचनमनुतिष्ठत । ३. तथा । ४. इत इतो देवः । ५. अथ किम् । ६. वर्धतां भवान् । सिद्धानि ते मङ्गलकर्माणि । ७. यद्देव आज्ञापयति । हमिच्छामीति ॥ गच्छत्वार्यपुत्रः कार्यसिद्धये ॥ बालिका, आर्यपुत्रवचनमनुतिष्ठत ॥ तथा इत इतो देवः ॥ अथ किम् ॥ इष्टाधिगमेत्यादि । स्पष्टोऽर्थः ॥ वर्धतां भ- वान् । सिद्धानि ते यद्देव देव्या अङ्गुलीयकमुद्रा

Page 74Permalink

चतुर्थोऽङ्कः। ७१ राजा—वयस्य, क्षुद्रा माधविका। न किंचिद्विचारितमनया। विदूषकः—१देवीए अङ्गुलीअअमुद्दिअं देखिअ कहं वि- आरेदि। राजा—न खलु मुद्रामधिकृत्य ब्रवीमि। एतयोर्द्वयोः किंनिमित्तो मोक्षः। किं वा देव्याः परिजनमतिक्रम्य भवान्संदिष्ट इत्येवमनया प्रष्टव्यम्। विदूषकः—२णं पुच्छिदोम्हि। पुणो मन्दस्स मे तस्सिं पच्चु- प्पष्णा मदी! राजा—कथ्यताम्। विदूषकः—३भणिदा मए। देवचिन्तएहिं विण्णाविदो राआ। सोवसग्गं वो णक्खत्तं। सव्वबन्धणमोक्खो करीअदु त्ति। राजा—(सहर्षम्।) ततस्ततः। विदूषकः—४तं सुणिअ देवीए इरावदीचित्तं रक्खन्तीए राआ किल मोएदित्ति अहं संदिट्ठो त्ति। तदो जुज्जदि त्ति ताए एवं संपादिदो अत्थो। राजा—(विदूषकं परिष्वज्य।) सखे, प्रियोऽहं तव। १. देव्या अङ्गुलीयकमुद्रां दृष्ट्वा कथं विचारयति। २. ननु पृष्टोऽस्मि। पुनर्मन्दस्य मे तस्मिन्प्रत्युत्पन्ना मतिः। ३. भणिता मया। दैवचिन्तकैर्विज्ञापितो राजा। सोपसर्गं वो नक्षत्रम्। सर्वबन्धनमोक्षः क्रियतामिति। ४. तच्छ्रुत्वा देव्येरावतीचित्तं रक्षन्त्या राजा किल मोचयतीत्यहं सं- दिष्ट इति। ततो युज्यत इति तयैवं संपादितोऽर्थः। दृष्ट्वा कथं विचारयति ॥ ननु पृष्टोऽस्मि । पुनर्मन्दस्य मे तस्मिन्प्रत्युत्पन्ना मतिः ॥ भणिता मया । दैवचिन्तकैर्विज्ञापितो राजा । सोपसर्गं वो नक्षत्रम् । सर्वबन्धन- मोक्षः क्रियतामिति ॥ तच्छ्रुत्वा देव्येरावतीचित्तं रक्षन्त्या राजा किल मोचयती-

Page 75Permalink

७२ मालविकाग्निमित्रे नहि बुद्धिगुणेनैव सुहृदामर्थदर्शनम् । कार्यसिद्धिपथः सूक्ष्मः स्नेहो नाप्युपलभ्यते ॥ ६ ॥ विदूषकः—१तुवरदु भवं समुद्दघरए सहीसहिदं मालविअं ठाविअ भवन्तं पच्चुग्गदोम्हि । राजा—अहमेनां संभावयामि । गच्छाग्रतः । विदूषकः—२एदु भवं (परिक्रम्य ।) इंदं समुद्दघरं । राजा—(साशङ्कम् ।) वयस्य, एषा कुसुमावचयव्यग्रहस्ता स- ख्यास्ते परिचारिका चन्द्रिका संनिकृष्टमागच्छति । इतस्तावदावां भित्तिगूढौ भवावः । विदूषकः—३अहो कुम्भीलएहिं कामुएहिं च परिहरणीआ खु चन्दिआ । (उभे यथोक्तं कुरुतः ।) राजा—गौतम, कथं नु ते सखी मां प्रतिपालयति । एहि । एनां गवाक्षमाश्रित्य विलोकयामि । विदूषकः—४तह । (उभौ विलोकयन्तौ तिष्ठतः ।) (ततः प्रविशति मालविका बकुलावलिका च ।) बकुलावलिका—५सँहि, पणम भट्‍टारं । १. त्वरतां भवान् । समुद्रगृहे सखीसहितां मालविकां स्थापयित्वा भवन्तं प्रत्युद्गतोऽस्मि । २. एतु भवान् । इदं समुद्रगृहम् । ३. अहो कुम्भिलकैश्च परिहरणीया खलु चन्द्रिका । ४. तथा । ५. सखि, प्रणम भर्तारम् । त्यहं संदिष्ट इति । ततो युज्यत इति तयैवं संपादितोऽर्थः ॥ नहि बुद्धीत्यादि । स्पष्टोऽर्थः ॥ त्वरतां भवान् । समुद्रगृहे सखीसहितां मालविकां स्थापयित्वा भवन्तं प्रत्युद्गतोऽस्मि ॥ एतु भवान् । इदं समुद्रगृहम् ॥ अहो इत्यामन्त्रणे । कुम्भिलकैः कामु- कैश्च परिहरणीया खलु चन्द्रिका तथा ॥ सखि, प्रणम भर्तारम् नमस्ते सखि,

Page 76Permalink

चतुर्थोऽङ्कः । ७३ मालविका—१णमो दे । राजा—शङ्के मे प्रतिकृतिं निर्दिशति । मालविका—(सहर्षम् । द्वारमवलोक्य ।) २हँला, मं विप्पलम्भेसि । राजा—हर्षविषादाभ्यामत्रभवत्याः प्रीतोऽस्मि । सूर्योदये भवति या सूर्यास्तमये च पुण्डरीकस्य । वदनेन सुवदनायास्ते समवस्थे क्षणादूढे ॥ ७ ॥ बकुलावलिका—३णं एसो चित्तगदो भट्टा । उभे—(प्रणिपत्य ।) ४जेदुं भट्टा । मालविका—हँला, तदा संभमदिट्ठे भट्टिणो रूवे जहा ५ण वि- तिण्हम्हि, तहा अज्जवि मए भाविदो अवितिण्हदंसणो भट्टा । विदूषकः—६सुदं भवदा । तत्तहोदी चित्ते जहा दिट्ठो तहा दिट्ठो भवं ति मन्तेदि । मुद्धा दाणिं मञ्जूसा विअ रअणभण्डअं जो- वणगव्वं वहेसि । राजा—सखे, कुतूहलवानपि निसर्गशालीनः स्त्रीजनः । पश्य । कात्स्न्येन निर्वर्णयितुं च रूप- मिच्छन्ति तत्पूर्वसमागमानाम् । १. नमस्ते । २. सखि, मां विप्रलम्भयसि । ३. नन्वेष चित्रगतो भर्ता । ४. जयतु भर्ता । ५. सखि, तदा संभ्रमदृष्टे भर्तू रूपे यथा न वितृष्णास्मि, तथाद्यापि मया भावितोऽवितृष्णदर्शनो भर्ता । ६. श्रुतं भवता । तत्रभवती चित्रे यथा दृष्टस्तथा दृष्टो भवानिति मन्त्रयति । मुग्धेदानीं मञ्जूषेव रत्नभाण्डं यौवनगर्वं वहसे । या विप्रलम्भयसि॥ सूर्योदय इत्यादि। स्पष्टोऽर्थः॥नन्वेष चित्रगतो भर्ता॥जयतु भर्ता॥सखि,तदा संभ्रमदृष्टे भर्तू रूपे यथा न वितृष्णास्मि,तथाद्यापि मयाभावितोऽ- वितृष्णदर्शनो भर्ता॥श्रुतं भवता।तत्रभवती चित्रे यथा दृष्टस्तथा दृष्टोभवानिति मन्त्र- यति। मुग्धेदानीं मञ्जूषेव रत्नभाण्डं यौवनगर्वं वहसे॥कात्स्न्येनेत्यादि।स्पष्टोऽर्थः॥ माल० ७

Page 77Permalink

७४ मालविकाग्निमित्रे न च प्रियेष्वायतलोचनानां समग्रवृत्तीनि विलोचनानि ॥ ८ ॥ मालविका—१हला, का एसा पासपरिवत्तवअणेण भट्टिणा सिणिद्धाए दिट्ठीए णिज्झाईअदि । बकुलावलिका—२णं इअं पासगदा इरावती । मालविका—३सहि, अदक्खिणो विअ भट्टा मे पडिभादि । जो सव्वं देवीजणं उज्झिअ एक्काए मुहे बद्धलक्खो । बकुलावलिका—(आत्मगतम् ।) चित्तगदं भट्ठारं परमत्थदो सं- कप्पिअ असूअदि । होदु । कीडिस्सं दाव एदाए । (प्रकाशम् ।) हला, भट्टिणो वल्लहा एसा । मालविका—५तदो किं दाणिं अत्ताणं आआसइस्सं । (इति सा- सूयं परावर्तते ।) राजा—सखे, पश्य । भ्रूभङ्गभिन्नतिलकं स्फुरिताधरोष्ठं सासूयमाननमितः परिवर्तयन्त्या । कान्तापराधकुपितेष्वनया विनेतुः संदर्शितेव ललिताभिनयस्य शिक्षा ॥ ९ ॥ १. सखि, कैषा पार्श्वपरिवृत्तवदनेन भर्त्रा मे स्निग्धया दृष्ट्या निध्यायते । २. नन्वियं पार्श्वगतेरावती । ३. सखि, अदक्षिण इव भर्ता मे प्रतिभाति । यः सर्वं देवीजनमुज्झित्वै- कस्या मुखे बद्धलक्ष्यः । ४. चित्रगतं भर्तारं परमार्थतः संकल्प्यासूयति । भवतु । क्रीडिष्यामि तावदेतया । सखि, भर्तुर्वल्लभैषा । ५. ततः किमिदानीमात्मानमायासिष्यामि । सखि, कैषा पार्श्वपरिवृत्तवदनेन भर्त्रा स्निग्धया दृष्ट्या निध्यायते ॥ नन्वियं पार्श्वगतेरावती ॥ सखि, अदक्षिण इव भर्ता मे प्रतिभाति । यः सर्वं देवीजन- मुज्झित्वैकस्या मुखे बद्धलक्ष्यः ॥ चित्रगतं भर्तारं परमार्थतः संकल्प्यासूयति । भवतु क्रीडिष्यामि तावदेतया । सखि, भर्तुर्वल्लभैषा ॥ ततः किमिदानीमात्मान- भ्रूभङ्गेत्यादि स्पष्टोऽर्थ इदानीं मया ॥

Page 78Permalink

चतुर्थोऽङ्कः । ७५ विदूषकः—अणुणअसज्जो दाणिं होहि । मालविका—अज्जगोदमो एत्थ ण संसेवदि । (पुनः स्थानान्तराभि- खी भवितुमिच्छति ।) बकुलावलिका—(मालविकां रुद्ध्वा ।) णँ खलु कुविदा दाणिं तुमं । मालविका—जैँह चिरं कुविदं एव्व मं मण्णेसि, एसो पच्चा- णेअदि कोवो । राजा—(उपेत्य ।) कुप्यसि कुवलयनयने चित्रार्पितचेष्टया किमेतन्मे । ननु तव साक्षादयमहमनन्यसाधारणो दासः ॥ १० ॥ बकुलावलिका—जेदुँ भट्टा । मालविका—(आत्मगतम् ।) कँहं चित्तगदो भट्टा मए असूइदो । (इति सप्रणयवदनमञ्जलिं करोति ।) (राजा मदनकातर्यं रूपयति ।) विदूषकः—किं भवं उदासीनो विअ । राजा—अविश्वसनीयत्वात्सख्यास्तव । विदूषकः—अत्तहोदीए अअं तुह अविस्सासो । राजा—श्रूयताम् । १. अनुनयसज्ज इदानीं भव । २. आर्यगौतमोऽत्र न संसेवते । ३. न खलु कुपितेदानीं त्वम् । ४. यदि चिरं कुपितामेव मां मन्यसे, एष प्रत्यानीयते कोपः । ५. जयतु भर्ता । ६. कथं चित्रगतो भर्ता मयासूयितः । ७. किं भवानुदासीन इव । ८ तवाविश्वास

Page 79Permalink

७६ मालविकाग्निमित्रे पथि नयनयोः स्थित्वा स्थित्वा तिरोभवति क्षणा- त्सरति सहसा बाह्वोर्मध्यं गतापि सखी तव । मनसिजरुजा क्लिष्टस्यैवं समागममायया कथमिव सखे विस्रब्धं स्यादिमां प्रति मे मनः ॥ ११ ॥ बकुलावलिका—सहि, बहुसो किल भट्टा विप्पलद्धो । दाव तुए अत्ता विस्सासणिज्जो करीअदु । मालविका—सहि, मह उण मन्दभग्गाए सिविणसमाअमो वि भट्टिणो दुल्हहो आसि । बकुलावलिका—भट्टा कहेदु से उत्तरं । राजा— उत्तरेण किमात्मैव पञ्चबाणाग्निसाक्षिकम् । तव सख्यै मया दत्तो न सेव्यः सेविता रहः ॥ १२ ॥ बकुलावलिका—अँणुगहीदम्ह । विदूषकः—(परिक्रम्य ।) बँहुलावलिए, एसो बालासोअरुक्खस्स पल्लवाइं लङ्घेदि हरिणो । णिवारेम णं । १. सखि, बहुशः किल भर्ता विप्रलब्धः । तावत्त्वयात्मा विश्वसनीयः क्रियताम् । २. सखि, मम पुनर्मन्दभाग्यायाः स्वप्नसमागमोऽपि भर्तुर्दुर्लभ आसीत् । ३. भर्ता कथयत्वस्या उत्तरम् । ४. अनुगृहीताः स्मः । ५. बकुलावलिके, एष बालाशोकवृक्षस्य पल्लवानि लङ्घयति हरिणः । निवारयाम एनम् । भवत्यामयं तवाविश्वासः । अस्मिन्वाक्ये काकुरनुसंधेया ॥ पथि नयनयोरि- त्यादि । स्पष्टोऽर्थः ॥ सखि, बहुशः किल भर्ता विप्रलब्धः । तावत्त्वयात्मा विश्वसनीयः क्रियताम् ॥ सखि, मम पुनर्मन्दभाग्यायाः स्वप्नसमागमोऽपि भर्तु- र्दुर्लभ आसीत् ॥ भर्ता कथयत्वस्या उत्तरम् ॥ उत्तरेणेत्यादि । स्पष्टोऽर्थः ॥ अनुगृहीता स्म । बकुलावलिके, एष पल्लवानि लङ्घयति

Page 80Permalink

चतुर्थोऽङ्कः । ७७ बकुलावलिका—१तह । (इति प्रस्थिता ।) राजा—वयस्य, एवमेवास्मिन्क्षणक्षणेऽवहितेन त्वया भवि- तव्यम् । विदूषकः—२एंवं वि गोदमो संदिसेअदि । बकुलावलिका—(परिक्रम्य ।) ३अज्ज गोदम, अहं अप्पआसे चिट्ठामि । तुमं दुवाररक्खओ होहि । विदूषकः—४जुज्जइ । (निष्क्रान्ता बकुलावलिका ।) विदूषकः—५ईमं दाव फलिहक्खम्भं अस्सिदो होमि । (इति तथा- कृत्वा ।) अहो सुहप्फरिसदा सिलाविसेसस्स । (इति निद्रायते ।) (मालविका ससाध्वसा तिष्ठति ।) राजा— विसृज सुन्दरि संगमसाध्वसं तव चिरात्प्रभृति प्रणयोन्मुखे । परिगृहाण गते सहकारतां त्वमतिमुक्तलताचरितं मयि ॥ १३ ॥ मालविका—६देवीएं भएण अत्तणोवि पिअं कादुं ण पारेमि । १. तथा । २. एवमपि गौतमः संदिश्यते । ३. आर्य गौतम, अहमप्रकाशे तिष्ठामि । त्वं द्वाररक्षको भव । ४. युज्यते । ५. इमं तावत्स्फटिकस्तम्भमाश्रितो भवामि । अहो सुखस्पर्शता शि- लाविशेषस्य । ६. देव्या भयेनात्मनोऽपि प्रियं कर्तुं न पारयामि । हरिणः । निवारयाम एनम् ॥ तथा ॥ एवमपि गौतमः संदिश्यते ॥ आर्य गौतम, अहमप्रकाशे तिष्ठामि । त्वं द्वाररक्षको भव ॥ युज्यते ॥ इमं तावत्स्फटिकस्त- म्भमाश्रितो भवामि । अहो सुखस्पर्शता शिलाविशेषस्य ॥ विसृजेत्यादि ।

चतुर्थ अङ्क: बन्दीगृह से मालविका मुक्ति व कौमुदी प्रसंग

Page 81Permalink

७८ मालविकाग्निमित्रे राजा—अयि, न भेतव्यम् । मालविका—(सोपालम्भम् ।) १जो ण भाअदि, सो मए भट्टिणी दंसणे दिट्ठसामत्थो भट्ठा । राजा— दाक्षिण्यं नाम बिम्बोष्ठि वैम्बिकानां कुलव्रतम् । तन्मे दीर्घाक्षि ये प्राणास्ते त्वदाशानिबन्धनाः ॥ १४ ॥ तदनुगृह्यतां चिरानुरक्तोऽयं जनः । (इति संश्लेषमुपजनयति ।) (मालविका परिहरति ।) राजा—(आत्मगतम् ।) रमणीयः खलु नवाङ्गनानां मदनवि- यावतारः । तथा हि । हस्तं कम्पयते रुणद्धि रशनाव्यापारलोलाङ्गुलीः स्वौ हस्तौ नयति स्तनावरणतामालिङ्ग्यमाना बलात् । पातुं पक्ष्मलनेत्रमुन्नमयतः साचीकरोत्याननं व्याजेनाप्यभिलाषपूरणसुखं निर्वर्तयत्येव मे ॥ १५ (ततः प्रविशतीरावती निपुणिका च ।) इरावती—२हञ्जे णिउणिए, सच्चं तुमं परिगदत्था चन्दिआए समुद्दघरअलिन्दसइदौ एआई अज्जगोदमो दिट्ठो त्ति । निपुणिका—३अण्णहा कहं भट्टिणीए विण्णावेमि । १. यो न बिभेति, स मया भट्टिनीदर्शने दृष्टसामर्थ्यो भर्ता । २. हञ्जे निपुणिके, सत्यं त्वं परिगतार्था चन्द्रिकया । समुद्रगृहालिन्द- शयित एकाकी आर्यगौतमो दृष्ट इति । ३. अन्यथा कथं भट्टिन्यै विज्ञापयामि । स्पष्टोऽर्थः ॥ देव्या भयेनाहम्नोऽपि प्रियं कर्तुं न पारयामि ॥ यो न बिभे[ति] स मया भट्टिनीदर्शने दृष्टसामर्थ्यो भर्ता ॥ दाक्षिण्यमिति । स्पष्टोऽर्थः वैम्बिकाखद्वंशा राजानः ॥ हस्तमित्यादि । स्पष्टोऽर्थः ॥ हञ्जे निपुणिके सत्यं त्वं परिगतार्था चन्द्रिकया । समुद्रगृहालिन्दशयित एकाकी आर्यगौतम[ो] दृष्ट इति ॥ कथं भट्टिन्यै विज्ञापयामि ॥ तेन हि तत्रैव गच्छाम स[ः]

Page 82Permalink

चतुर्थोऽङ्कः । ७९ इरावती—तेणं हि तहिं एव्व गच्छामो । संसआदो मुत्तं पिअ- वअस्सं पुच्छिदुं च । निपुणिका—सावसेसं विअ भट्टिणीए वअणं । इरावती—अण्णं च चित्तगदं अज्जउत्तं पसादेदुं । निपुणिका—अह कहं दाणिं एव्व ण प्पसादीअदि । इरावती—मुद्धे, जारिसो चित्तगदो णं तारिसो एव्व अण्णसं- कन्तहिअओ अज्जउत्तो । केवलं उवआरादिक्कमं पमज्जिदुं अअं आरम्भो । निपुणिका—ईदो इदो भट्टिणी । (उभे परिक्रामतः ।) (प्रविश्य ।) चेटी—जेदुं भट्टिणी । देवी भणादि । ण मे मच्छस्स एसो कालो । तेण खु बहुमाणं वड्ढेदुं वअस्साए सह णिअलबन्धणे किदा १. तेन हि तत्रैव गच्छामः संशयान्मुक्तं प्रियवयस्यं प्रष्टुं च । २. सावशेषमिव भट्टिन्या वचनम् । ३. अन्यच्च चित्रगतमार्यपुत्रं प्रसादयितुम् । ४. अथ कथमिदानीमेव न प्रसाद्यते । ५. मुग्धे, यादृशश्चित्रगतो ननु तादृश एवान्यसंक्रान्तहृदय आर्यपुत्रः । केवलमुपचारातिक्रमं प्रमार्जितुमयमारम्भः । ६. इत इतो भट्टिनी । ७. जयतु भट्टिनी । देवी भणति । न मे मत्सरस्यैष कालः । तेन खलु बहुमानं वर्धयितुं वयस्यया सह निगलबन्धनं कृता मालविका । यद्यनुमन्यस आर्यपुत्रस्य प्रियं कर्तुं तथा करोमि । यत्तवेष्टं तन्मे भणेति । यान्मुक्तं प्रियवयस्य प्रष्टुं च ॥ सावशेषमिव भट्टिन्या वचनम् ॥ अन्यच्च चित्र- गतमार्यपुत्रं प्रसादयितुम् ॥ अथ कथमिदानीमेव न प्रसाद्यते ॥ मुग्धे, यादृश- श्चित्रगतो ननु तादृश एवान्यसंक्रान्तहृदय आर्यपुत्रः । केवलमुपचारातिक्रमं प्रमा- र्जितुमयमारम्भः ॥ इत इतो भट्टिनी ॥ जयतु भट्टिनी । देवी भणति । न मे मत्सरस्यैष कालः । तेन खलु बहुमानं वर्धयितुं वयस्यया सह निगलबन्धने

Page 83Permalink

८० मालविकाग्निमित्रे मालविआ । जइ अणुमण्णसि अज्जउत्तस्स पिअं कादुं तहा करेमि । जं तुह इच्छिअं तं मे भणाहि त्ति । इरावती—णाअरिए, विण्णावेहि देविं । का वअं भट्टिणिं णिओजेदुं । परिअणणिअलणे दंसिदो मइ अणुग्गहो । कस्स वा पसादेण अअं जणो वड्ढिदि । चेटी—तह । (इति निष्क्रान्ता ।) निपुणिका—(परिक्रम्यावलोक्य च ।) भट्टिणि, एसो दुवारुद्देसे समुद्दघरस्स विपणिगदो विअ वलीवद्दो अज्जगोदमो आसीणो एव णिद्दाअदि । इरावती—अँच्चाहिदं । ण खु सावसेसो विसविआरो हवे । निपुणिका—पसण्णमुहवण्णो दीसइ । अवि अ धुवसिद्धिणा चिइच्छिदो । ता से असङ्कणिज्जं पावं । १. नागरिके, विज्ञापय देवीम् । का वयं भट्टिनीं नियोजयितुम् । परि- जननिगलने दर्शितो मय्यनुग्रहः । कस्य वा प्रसादेनायं जनो वर्धत इति । २. तथा । ३. भट्टिनि, एष द्वारोद्देशे समुद्रगृहस्य विपणिगत इव बलीवर्द आर्यगौ- तम आसीन एव निद्रायते । ४. अत्याहितम् । न खलु सावशेषो विषविकारो भवेत् । ५. प्रसन्नमुखवर्णो दृश्यते । अपि च ध्रुवसिद्धिना चिकित्सितः । तदस्याशङ्कनीयं पापम् । कृता मालविका । यद्यनुमन्यसे आर्यपुत्रस्य प्रियं कर्तुं तथा करोमि । यत्तवेष्टं तन्मे भणेति ॥ नागरिके, विज्ञापय देवीम् । का वयं भट्टिणीं नियोजयितुम् । परिजननिगलनेन दर्शितो मय्यनुग्रहः । कस्य वा प्रसादेनायं जनो वर्धत इति ॥ तथा ॥ भट्टिनि, एष द्वारोद्देशे समुद्रगृहस्य विपणिगत इव बलीवर्द आर्यगौतम आसीन एव निद्रायते ॥ अत्याहितम् । अत्याहितं नाम जीवनपेक्षि कर्म 'अत्याहितं महाभीतिः कर्म जीवनपेक्षि च' इत्यमरसिंहः । न खलु सावशेषो विषविकारो भवेत् ॥ प्रसन्नमुखवर्णो दृश्यते । अपिच ध्रुवसिद्धिना चिकित्सितः । तस्मा- पापम् भवति मालविके । श्रुत मयिा कस्यैष