मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
by महर्षि जैमिनि / शाबर स्वामी
Source: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (origin)
Page 260 of 804
Read in context२०८ मीमांसादर्शनम् [ सू० विना कर्मकालोच्चारणकर्त्तव्यतायां प्रमाणाभावाद्याज्ञिकाचारदर्शनेनोच्चारणविधिकल्पने क्लेशः स्यादित्यन्तरन्यासेनाह-एवं चेति । उपसंहरति-अत इति । नैवमित्याशङ्का- भाष्यं व्याचष्टे नैवमित्यभिधानार्थत्वेऽप्यसमवेतार्थप्रकाशनस्यादृष्टार्थत्वापरिहारात् पर्यन्त- त्वकल्पनं न युक्तमित्याशयः । तदुच्यत इति परिहारभाष्यं व्याचष्टे-तत्रेति । ततश्च वचनान्नैषामितरार्थं प्रयुज्येतेत्यसमवेतस्यापि समवेतविशेषणत्वेनाभिधानस्यानवमे वक्ष्य- माणत्वाद्विशिष्टरूपप्रकाशनस्यादृष्टार्थत्वापरिहारात्, तात्पर्यपूर्वकमनुष्ठितमभ्युदयकारि भवतीति नियमाद्दृष्टकल्पनेन चाभिधानार्थवत्त्वोपपत्तेः काममित्युक्तम् । तस्मादस्तोत्युप- संहारभाष्यं व्याचष्टे-तस्मादिति । नन्वस्तु श्रुत्यविनियुक्तानामुक्तेन न्यायेनार्थप्राधान्ये; श्रुतिविनियुक्तानां त्वर्थप्राधान्ये अभ्यादानादिमन्त्राणां लिङ्गादेव विनियोगसिद्धेस्तदर्थशास्रानर्थक्यं स्यादत आह-तां चतुर्भिरिति । इतिकरणोऽत्र मन्त्रविनियोजकश्रुतिमात्रपरिग्रहार्थः । चतुर्भिरितितृतीया मन्त्राणां करणत्वेऽभिहिते, स्वव्यापारं विना तदयोगात् उच्चारणस्यात्तद्व्यापारत्वात्कर्मो- त्पत्त्यनुपयोगित्वाच्च स्वव्यापारकर्मोत्पत्त्युपयोग्यभिधानव्यापारेण करणत्वाध्यवसायाच्च- तुर्भिरभ्यादानयमभिदध्यादिति वाक्यार्थावगमे इति करणविनियुक्तानामर्थक्रियारूपत्वेन कथमभावाग्राह्यत्वात् द्रव्यदेवतावत्क्रियोत्पत्त्युपयोगित्वावगतेः कारकत्वावसायात्करणव्यति- रिक्तकारकत्वानुपपत्तेः, करणत्वनिश्चये सति पूर्ववदभिधानार्थत्वसिद्धेः स्तोत्रशस्त्रमन्त्राणां च स्तौतिशंसतिभ्यामेवाभिधानार्थत्वावसायात्तां चतुर्भिरादत्त इत्यादिश्रुतिविनियोज्येष्व- भ्यादानादिमन्त्रेषु तदर्थशास्रानर्थक्यप्रसङ्गायोगेनाप्यर्थप्राधान्यमविहतमित्यर्थः । अनेन च नन्वित्याशङ्काभाष्यस्य काममित्युत्तरभाष्यं व्याख्यातमथेत्याशङ्कानिराकरणार्थ- त्वेन ॥ ३२ ॥ मा० प्र०—लौकिक और वैदिक वाक्यों के भेद का कारण न रहने पर दोनों एक ही प्रकार के हैं । लौकिक वाक्यों से जिस प्रकार अर्थ की अभिव्यक्ति होती है वैदिक- वाक्यों से भी उसी तरह वाक्यार्थ का प्रकाशन होता है । पूर्वपक्ष के द्वारा यह स्थिर हुआ है कि मन्त्रों का अर्थ विवक्षित नहीं है, क्योकि मन्त्रों के स्वार्थ की विवक्षा मानने पर प्रदर्शित दोषों की सम्भावना है, अतः मन्त्रों को अदृष्टार्थक मानना ही युक्ति- सङ्गत है । जिस स्थल में दृष्ट प्रयोजन परिलक्षित नहीं होता है; वहाँ अदृष्ट की कल्पना करनी पड़ती है । किन्तु, साधारण रूप में मन्त्रों से अनुष्ठेय कर्मों का स्मरण होने से वही मन्त्रो- च्चारण का प्रयोजन है । यस्य दृष्टं न लभ्येत स्यात्तस्यादृष्टकल्पना । अनुष्ठेयस्मृतेश्चेह मन्त्रोच्चारणमर्थवत् ॥