Skip to content
BharatKosha
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

by महर्षि जैमिनि / शाबर स्वामी

Source: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (origin)

DevanagariSanskritpublished804 pages

Page 463 of 804

Read in context
Page 463

८ ] प्रथमाध्याये तृतीयपादः ४११ वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥ म० २/१२ इति लक्षणशब्दस्य च प्रमाणपरत्वावसायात्प्रौढिमात्रमित्यवगम्यते । भिन्नानामप्याचार- मूलभूतानां श्रुतीनां मिलितानामेकत्र पाठे तात्पर्यावधारणं सम्भाव्यते, तासां तु नानाप्रक- रणस्थानां विध्यन्तरशेषत्वेन पठितानां पुरुषधर्माचारविधिपरत्वस्याल्पप्रज्ञैरिदानीन्तनेर्निर्णें- तुमशक्यत्वाच्छिष्टाचारपारम्पर्यस्मृत्यैव कस्यचिद् बहुवेदविदः प्रज्ञातिशयसम्पन्नस्याचारमूल- श्रुतितात्पर्यावधारणमासीदिति कल्पयित्वेदानीन्तनशिष्टप्रवृत्तिर्भवति स्मृत्या व्यवायः श्रुतिक- ल्पनेत्येति विप्रकीर्णत्वमुपपादयति—नेति । विध्यन्तरशेषत्वेन स्तुतिमात्रत्वेनावभास- मानस्यापि सिद्धवत्सङ्कीर्तनान्यथानुपपत्तिप्रापकविध्याक्षेपकत्वकल्पनाक्लेशः कथंचिच्छब्दे- नोक्तः । आचारमूलश्रुतीनां तात्पर्यावधारणक्लेशप्रदर्शनार्थैवोदाहरणानि दर्शयन्पात्र धारणपूर्वकभोजनाचारमूलभूतां तावच्छ्रुतिमुदाहरति—तद्यथेति । क्रत्वर्थत्वशङ्कासूचनार्थः प्रकरणोपन्यासः । स्तुतिमात्रशङ्कासूचनार्थं विध्यन्तरशेषत्वोपन्यासः । एकेन परिगृह्येत्त- रेणात्तीति श्रुत्यर्थः । कथं तर्ह्याचारपरविधिपरत्वनिर्णय इत्याशङ्क्य—सत्यपीत्याद्युक्तम् । नन्वन्नस्कन्दनशङ्कापरिहारार्थत्वेन पात्रधारणास्यार्थप्राप्तस्य नुवादोपपत्तेर्नात्र विधिः कल्पनीयः अत आह—न चैतदिति । सम्यक्पात्रप्रतिष्ठापनेनाप्यन्नस्कन्दनशङ्कापरिहारोप- पत्तेर्नियमार्थो विधिः सम्भवतीत्याशयः । स्वभावात्प्रयोजनवशाद्धाऽऽर्थिकी नियता प्राप्तिः स्यात् त्वेतदुभयमप्यत्रास्तीति दर्शयितुं वैषम्यदृष्टान्तद्वयम् । दक्षिणहस्तभोजनाचारमूलभूतां श्रुतिमुदाहरति—एवमिति । स्त्रीणां पूर्वं सव्याक्ष्यं जनाचारमूलमुदाहरति -- तथेति । शेषभूतविध्यन्तरोपन्यासस्य प्रयोजनमुक्तम् । स्त्रीणां पत्यन्तरवर्जनाचारस्य मूलमुदाहरति तथेति । रजस्वलाचारमुदाहरति—तथेति । विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानामासीदिति तै० सं० २।५।१ । प्रकृत्य तस्य वज्रमादाय शीर्षाण्यच्छिनदितीन्द्रस्य त्वाष्ट्रवधनिमित्तब्रह्म- हत्याप्राप्तिमुक्त्वा, स पृथिवीमुपासीददस्यै ब्रह्महत्यायै तृतीयं प्रत्यगृह्णानेत्यादिपृथिव्यादीनां ब्रह्महत्याविभागमुपक्रम्य स स्त्रीसंसदमुपासीददस्यै ब्राह्महत्यायै तृतीयं प्रतिगृह्णातीन्द्र- प्रार्थितानां स्त्रीणां तृतीयं ब्रह्महत्यायै प्रत्यगृह्णन्निति ब्रह्महत्यायास्तृतीयस्य विभागस्य प्रति- ग्रहम्, तन्निमित्तं च मलवद्वासस्त्वमुक्त्वा न मलवद्वाससा सह संवदेन्नास्या अन्नमद्यादिति, तदुपगमनं निषिध्य, यां मलवद्वाससमभिसम्भवति यतस्ततो जायते सोऽभिशस्तो यामरण्ये तस्यै तस्यै स्तेनो यां पराचीम्, तस्यै हीतस्य मुख्यप्रगल्भा इत्युपगमननिषेध-

  • शेषभूतां निन्दामुक्त्वा तत्प्रस्तावेनागतानां रजस्वलाव्रतानां या स्नाति, तस्या अप्सुमारुका याभ्यङ्क्ते, तस्यै दुश्चर्मायाप्रलिखते, तस्यै खलति रपमारी याऽङ्क्ते तस्यै काणो पादतो धावते वस्यै श्यावदन्ता, या नखानि निकृन्तते, तस्यै कुनखी या कृणत्ति, तस्यै क्लीबो या, रज्जुं सृजति, तस्या उद्बन्धको, या खर्वेण पिबति, तस्यै खर्वस्तिस्रो रात्रीर्व्रतं चरेदिति- स्नानादिनिन्दाद्वारेणोक्तानामग्निषोमीयपुरोडाशयागविधिशेषत्वेन प्रतीयमानानां प्रकरणा-