BharatKosha
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

by महर्षि जैमिनि / शाबर स्वामी

Source: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (origin)

DevanagariSanskritpublished804 pages

Page 85 of 804

Read in context
Page 85

४ ] प्रथमाध्याये द्वितीयपादः ३३ विद्वद्वचनेन दृढयति—अपि चाहुरिति। अर्के समीपे अयत्नलभ्ये फले यत्नाधानं गौरवादयुक्तमिति हेतुमाह—दृष्टस्येति ॥ ४ ॥ त० वा०] अनन्तरेणैव पूर्णाहुत्यादिफलवचनानि व्याख्यातानि विधित्वास्यु- पैत्यवादेन तु दोषान्तरमभिधीयते। पूर्णाहुतेरग्निसंस्कारत्वात्पशुबन्धस्य च ज्योति- ष्टोमोपकारकत्वादश्वमेधज्ञानस्य च संस्कारत्वान्न तावत् फलविधित्वावसरः। यदि पुनरिष्यते, ततोऽन्यानर्थक्यम् समानफलान्यपि कर्माणि यानि परस्परानपेक्षाणि क्रियन्ते, तेषां यथारुच्यनुष्ठानान्नान्यानर्थक्यकरत्वम्। पूर्णाहुतिपशुबन्धयोस्त्व- कृतयोरितरकर्मानधिकारात्। 'प्रथमं वा नियम्येतेत्यनेन न्यायेनावाप्ते फलेनो- त्तरकर्मानुष्ठानंप्रयोजनमस्तीति, तद्विध्यानर्थक्यम्। तथा च दृष्टान्तोऽपि तेनैव पथा मध्वर्थिन इति यत्रान्यः पन्थाः पर्वतस्य, तत्र गच्छेयुरपि न तु तेनैव गच्छन्ति। तस्माद् भूयसां क्लृप्तानां विधीनामनुग्रहाय वरं कल्प्यानामेवानर्थकत्वम्। न च फलविशेषार्थिनः पराणि कर्माण्यविशेषश्रवणात्। न हि समानायां श्रुतावप्रत्यक्षः सन् फलविशेषः कर्मविशेषेभ्यः शक्यः कल्पयितुम्। न च स्तुतिर सत्यत्वादिति स्थितमेव ॥ ४ ॥ न्या० सु०] अत्र भाष्यकारेण पूर्णाहुत्याद्युदाहरणेषु यदि भूतानुवादमात्रमनर्थकमित्य- नेनाद्यं सूत्रं योजयित्वाऽष्टाफलविधिरन्येषामानर्थक्यमित्यनेनान्यानर्थक्यसूत्रं योजितम्। तत्र फलाभावसूत्रमपि योजयितुं शक्यत्वात् किमिति न योजितमित्याशङ्क्यानन्तरेणैव निर्ज्ञात- पारार्थ्येषु फलविधित्वनिराकरणन्यायेनात्रापि फलाभावस्य सुज्ञानत्वादित्याह—अनन्तरेणै- वेति। कथमेषां तदधिकरणविषयत्वमित्याशङ्क्याह—पूर्णाहुतेरिति। यदीत्यादिभाष्यं व्याचष्टे—यदि पुनरिति। न ह्यकृत्वेत्यादिनान्यानर्थक्योपपादनार्थं पौर्वापर्य्यमुपन्यस्तम्। तत्र समानफलकर्माल्पत्वमात्रेणान्यानर्थक्योपपत्तेः पौर्वापर्योपन्यासो व्यर्थ इत्याशङ्कयाह— समानफलान्यपीति। अपिशब्देनाल्पत्वमहत्त्वमुपक्षिप्तमज्ञातस्यानुष्ठातुमशक्यत्वाद्युक्तमश्व- मेधज्ञानस्य तदनुष्ठानात्प्राग्भावित्वम्, पूर्णाहुतिपशुबन्धयोस्तु कथमित आह—पूर्णाहुतीति। अग्निहोत्राद्यङ्गभूताग्न्युत्पादकाधानाङ्गत्वात्पूर्णाहुतेः प्राग्भावः। स एष औपवसथ्येऽहनि द्विदेवत्यः पशुरालब्धव्य, इत्यनेन वचनेनाग्नीषोमीयस्येति भावः—प्रथमं वा नियम्येति। 'वसन्ताय कपिञ्जलानालभेत', इत्याद्युदाहृत्य किं त्र्यादयः परार्द्धपर्य्यन्ता विकल्पेनालब्धव्या उत त्रय एवैत्येकादशे चिन्तयिष्यते। तत्र बहुवचनेन द्वित्वातिरिक्तसङ्ख्यासामान्यरूप- बहुत्वमभिधायिनां तद्विशेषाकाङ्क्षायां परार्द्धातिरिक्तसङ्ख्याविशेषाभावात्तत्पर्य्यन्तत्र्यादि- संख्याविशेषाक्षेपात्समुच्चये संख्यान्तरोपजननेन सर्वविनाशापत्तेर्विकल्पेन विनियोग इति। बहुवचनेन सर्वप्राप्तौविकल्पः स्यादित्यनेन पूर्वपक्षयित्वा, प्रथमं वा नियम्येत कारणादतिक्रमः स्यादि(जै०सू०११।१।७)त्यनेन त्रिसंख्योपादानं विना चतुराद्युपादानानाशक्तेरवश्योपादेयत्रित्व- १. ब न चानिष्ट्वा० इत्यस्य प्राक्। ३

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित) · Page 85 of 804 · BharatKosha