BharatKosha
Back to the archive

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

by महर्षि जैमिनि / शाबर स्वामी

Source: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (origin)

DevanagariSanskritpublished804 pages
Page 623Permalink

२४/१ प्रथमाध्याये तृतीयपादः ५६९ ननु सूत्रकारादिभिः पदपदार्थानामनिराकरणात्कथमुच्यते, वाक्यमेवंविधं चेष्टमित्या- शङ्क्य, टीकाकृतैवमुक्तमिति दर्शयितुमाह — ब्राह्मणार्थ इति । यथा ब्राह्मणशब्दे ब्रह्मशब्दार्थो नञर्थश्च णकारार्थ एव वा ज्ञानाख्योऽनिरूपाख्यश्च नास्ति । कम्बलशब्दे च कंशब्दार्थो वलशब्दार्थो वा नास्ति, तथा देवदत्तादयः शब्दा वाक्येऽनर्थकाः स्युरिति टीकाकारश्लोकार्थः । एवमादिना ग्रन्थेन बहुप्रपञ्चमुक्त्वा पदानामर्थव्यभिचाराभिधानाद्व्यभिचारिणामपि केवलःप्रयोगित्वेनार्थपरत्वनिराकरणाद्वाक्यान्वाख्यानार्थत्वेन व्याकरणव्याचिख्यासा टीका- काराणामवसीयते । पश्चात्तु तदनाश्रयणात्पूर्वापरविरुद्धार्थाभिधानेनाप्रामाण्यं व्याकरणस्य सूचितं भवतीत्यर्थः । सूत्रकृतो जनिकर्त्तुरित्यादिनिषिद्धसमासकरणात्पूर्वापरविरुद्धामिधानं दृष्टान्तितम् । सन्ति यदृच्छाशब्दा न सन्तीत्यादिवात्तिककृतः । आकृतिर्नित्या द्रव्यमनित्यम् । द्रव्यं नित्यमाकृति रनित्येत्यादिभाष्यकृतः । सूत्रकारादिवदेव वाक्यान्वाख्यानानाश्रयणादिति वा योज्यम् । पूर्वपक्षमुपसंहरति — अत इति । आचार्याणां परस्परं विप्रतिपत्तेविगान- भूयिष्ठत्वम् । स्वयमेव पूर्वापरविरुद्धामिधानात् विरुद्धत्वम् । एकानेकमूलश्रुतिकल्पना- योगान्निर्मूलत्वम् । मुख्यामुख्यप्रयोजनासम्भवान्निष्फलत्वम् । सर्वैर्मर्षितव्यमिति भाष्योक्तमं- स्वाध्यायकालवेदिकशब्दप्रयोगेऽप्यव्यवस्थाशङ्का कस्यचित्स्यात्तन्निवृत्त्यर्थमाह — ततश्चेति । यस्तूपपादितमर्थं तार्किकत्वाभिमानी साधनप्रयोगमन्तरेण न बुध्यते, तं प्रति साधन- प्रयोगा वक्ष्यन्त इत्याह — अत्रेति । सर्वेषामर्थप्रत्यायनशक्त्वलक्षणे वाचकत्वे तावत्प्रयोग- माह — गावीति । गौणलाक्षणिकानामादिशब्दोपादानानाशङ्कानिवृत्त्यर्थं प्रकृतग्राही सर्वशब्दः गोणीशब्दस्यावपनवाचित्वात्सिद्धसाध्यतामाशङ्क्य — गोत्वस्येत्युक्तम् । उस्त्रादिशब्दैरनै- कान्तिकत्वं तत्र शब्देन निरस्तं गाव्यादिशब्देष्वृद्धशब्देन अर्थप्रत्यायनाङ्गत्वलक्षणे साधुत्वे प्रयोगमाह — एवमिति । अत्रापि गोणीशब्दे सिद्धसाध्यतापरिहारार्थं गोत्वे साधुत्वमिति विशेषणीयं साधनशब्दोक्तस्य प्रत्यायकत्वस्य गाव्यादिशब्दैरनैकान्तिकत्वमाशङ्कयार्थायैव साधनादिति मध्यमपदलोपिसमासाभ्युपगमेन मूलशब्दोपस्थापननिरपेक्षार्थप्रत्यायकत्वरूप- हेतुसूचनार्थोऽर्थशब्दः । अपभ्रंशरूपापशब्दत्ववायोगाच्छब्दत्वाभावरूपमपशब्दत्वं गाव्यादीनां वाच्यमित्यापाद्य, तन्निराकरणे प्रयोगमाह — श्रोत्रत्वादीति । अत्रापि प्रयोगद्वये दृष्टान्तः स एवेत्याह — पूर्वेति । अनादित्वे प्रयोगमाह — अनादित्वं चेति । अवध्यनवधारणस्य चिरन्तनकूपादिभिरनैकान्तिकत्वादवध्यभावावधारणादिति हेत्वर्थः । तत्सिद्धयर्थम् — वक्तुरित्युक्तम् । गवादिशब्दसम्बन्धे सर्वोऽन्यस्मात्प्रपद्यतं । महत्तद्व्यवहारित्वादिति सम्बन्धानादित्वन्यायेन सर्वेभ्यो वक्तृभ्यः पूर्वं विद्यमानत्वादि- त्यर्थः । साधुभाषणस्यादृष्टार्थत्वात्प्रयोगमाह — साधुभिरिति । अत्रैव साध्ये हेतुदृष्टान्तान्तर- माह — अशास्त्रेति । बुद्धोक्तैश्च शब्दैरर्थामिधानवदित्यर्थः । हेतुसिद्ध्यर्थं संस्कृतव्याकरण-

सूत्र में दिया गया है। प्रस्तुत प्रसङ्ग में यह विचारणीय है कि अनेक शब्द एक अर्थ

Page 624Permalink

५७० मीमांसादर्शनम् [ सू० स्याशास्त्रत्वे प्रयोगमाह—शास्त्रं नेति । संस्कृतव्याकरणत्वमित्यध्याहारः । साक्षाच्छास्त्र- त्वाभावेऽपि वेदमूलतया प्रमाणत्वात्तद्विहितस्य साधुभाषणस्याग्न्यादिवद्दृष्टार्थत्वं भविष्य- तीत्याशङ्क्य तदभावे प्रयोगमाह—वेदेति । वेदाङ्गत्वभावे प्रयोगमाह—शास्त्राङ्गमपीति । हेतुसिद्ध्यर्थमतादर्थ्ये प्रयोगमाह—अतादर्थ्यमिति । कथादिरेव दृष्टान्तः । वेदानङ्गत्वेऽपि शब्दप्रयोगाङ्गत्वात्प्रयोगोत्पत्तिशास्त्रत्वं भविष्यतीत्याशङ्क्य, तदभावे प्रयोगमाह— न चेति । एतदेव व्याचष्टे—यथा हीति । अशास्त्रत्वादिसाधनस्य पूर्वपक्षोपयोगमाह— तस्मादिति । यदाचारेणैषां प्रयोज्यत्वमवगतम्, न तच्छास्त्रस्थैर्वारितमित्यर्थः ॥२४॥ भा० प्र०—एक शब्द का अनेक अर्थ मानना उचित नहीं है। इसका विवरण पूर्व सूत्र में दिया गया है। प्रस्तुत प्रसङ्ग में यह विचारणीय है कि अनेक शब्द एक अर्थ के वाचक हो सकते हैं या नहीं ? इस प्रसङ्ग में व्याकरणशास्त्र की उपेक्षा नहीं की जा सकती है, अतः यह विचारणीय है कि व्याकरण स्मृति है या नहीं ? और यह व्याकरण प्रमाण है या नहीं—इसी का विचार इस सूत्र के द्वारा जैमिनि ने किया है। एक ही अर्थ को कहने वाला गो, गावी, गोणी, गोपोतालिका आदि शब्द हैं, इन शब्दों में सभी शब्द गल कम्बल आदि विशिष्ट प्राणिविशेष अर्थ के बोधन में प्रमाण है या इनमें एक अर्थात् गो शब्द ही कथित अर्थ में प्रमाण है ? इस विषय का निर्णय करने के लिए प्रथम यह स्थिर करना होगा कि गो, गावी आदि शब्दों में क्या गो शब्द ही अनादि रूप में पूर्वोक्त अर्थ का वाचक है और अतिरिक्त उस शब्द का अपभ्रंश है या सभी शब्द अनादि हैं। इस प्रकार सन्देह होने पर पूर्वपक्षियों ने कहा है कि देश भेद एवं शिक्षित और अशिक्षित व्यक्तियों के भेद से गो, गावी आदि सभी शब्दों से सास्नादि- विशिष्ट प्राणिविशेष रूप अर्थ का बोध होता है, सभी शब्द उस अर्थ के वाचक हैं। किस समय से शब्द अर्थ का बोध करा रहे हैं इसका निश्चय न होने से ये सभी शब्द अनादि हैं। क्योंकि, इस समय जिस प्रकार गावी और गोणी शब्द से अर्थ विशेष का बोध हो रहा है, उसी प्रकार अतीत काल में भी इन शब्दों से इस अर्थ का बोध होता था, इसको न मानने का कोई कारण नहीं है। अतः गो शब्द के समान ही गावी आदि शब्द भी हैं, साधु भी हैं, कोई शब्द भी किसी शब्द का अपभ्रंश नहीं है। साधु और असाधु का निरूपण किसी प्रमाण से नहीं हो सकता है, अतः साधु और असाधु का भेद भी समीचीन नहीं है। यदि यह कहा जाय कि व्याकरण के द्वारा साधु और असाधु अर्थात् शुद्ध और अप- भ्रंश का निर्णय होगा ? इस कथन के प्रसङ्ग में यह कहना है कि व्याकरण का प्रामाण्य श्रुति के द्वारा बोधित नहीं है तथा व्याकरण सम्प्रदाय में सूत्रकार, वार्तिककार और भाष्यकार के कथन में साम्य या ऐक्य भी नहीं है। क्योंकि सूत्रकार पाणिनि के मत में सुशब्द निष्पत्ति ही व्याकरण का प्रयोजन है, वार्तिककार कात्यायन के मत में व्याकरण

सूत्र, वार्तिक और भाष्य के सिद्धान्त में मतभेद है। अतः व्याकरण प्रमाण नहीं है।

Page 625Permalink

२५ ] प्रथमाध्याये तृतीयपादः ५७१ संस्कृत पद ज्ञानपूर्वक यज्ञादि कर्मों का अनुष्ठान (प्रयोग) करने से ही पारलौकिक स्वर्ग आदि फल उससे होता है। और भाष्यकार पतञ्जलि के मत में व्याकरण से संस्कृत पदों के भलीभांति=सम्यक् ज्ञान से ही चिन्मय भूमि की प्राप्ति होती है। इस प्रकार सूत्र, वार्तिक और भाष्य के सिद्धान्त में मतभेद है। अतः व्याकरण प्रमाण नहीं है। व्याकरण की मूलभूत कोई श्रुति भी नहीं है, यह किसी कर्म का विधायक भी नहीं है, अतः इसको स्मृति भी नहीं कहा जा सकता है, अतः स्मृति के रूप में भी व्याकरण प्रमाण नहीं है, अतः गो, गावी, गोणी आदि सभी शब्द यज्ञादि स्थल में प्रयुक्त हो ही सकते हैं, इसमें कोई आपत्ति नहीं है। प्रयोगोत्पत्त्यशास्त्रत्वात्=प्रयोग की उत्पत्ति की अर्थात् गो शब्द का ही प्रयोग करना चाहिए, गावी आदि शब्दों का प्रयोग नहीं करना चाहिए - इस प्रकार साधु शब्दों के प्रयोग के नियम के विषय में कोई वेदवचन न होने से, 'शब्देषु न व्यवस्था'=साधु शब्द एवं अपभ्रंश शब्दों के प्रयोग को कोई व्यवस्था अर्थात् नियम नहीं हो सकता है ॥२४॥ शब्दे प्रयत्ननिष्पत्तेरपराधस्य भागित्वम् ॥ २५ ॥ सि० शा० भा०—महता प्रयत्नेन शब्दमुच्चरन्ति—वायुर्नाभेरुत्थितः, उरसि विस्तीर्णः, कण्ठे विवर्तितः, मूर्द्धानमाहत्य परावृत्तः, वक्त्रे विचरन् विविधान् शब्दानभिव्यनक्ति। तत्रापारध्येताप्युच्चारयिता। यथा शुष्के पतिष्यामीति कर्दमे पतति, सकृदुपस्पृक्ष्यामीति द्विरुपस्पृशति। ततोऽपराधात्प्रवृद्धा गाव्यादयो भवेयुर्न नियोगतोऽविच्छिन्नपारम्पर्या एवेति ॥ २५ ॥ सिद्धान्तः ॥ भा० वि०—नियामकाभावात्सर्व एव साधवः सर्वे च प्रयोक्तव्या इति प्राप्ते प्रत्याह—शब्द इति । यदुक्तं सर्वेऽनादयइति नायं नियमः पुरुषापराधादन्यथापि शब्दाभिव्यक्तिसंभवादिति दर्शयितुं सूत्रं व्याचष्टे—महतेति । यदायं चेतनो विवक्षति, तदास्य महान् कार्यनिष्पादनक्षमः प्रयत्नो जायते । ततश्शब्दोच्चारणं मनःप्रेरणरूपं व्यापारं करोति । तेन च मनसाभिहतोऽग्निरोदर्यो मारुतं प्रेरयति, स चोत्थाय नाभेरूर्ध्वं गच्छन् उरसि बहुलावकाशे विस्तीर्णं कण्ठे चाल्पावकाशे विपरिवृत्तो भ्रमन् वेगवशान्मूर्धानमाहत्य परावृत्तो वक्त्रे ताल्वादिस्थानवति विचरन् विशेषेण शब्दाभिव्यञ्जकरूपेण वर्तमानो विविधान्छब्दानभिव्यन- क्तीत्यर्थः, तदनेन प्रयत्नाधीना शब्दाभिव्यक्तिरित्युक्तं भवति, ततः किमत आह- तत्रेति । यदि शब्दानां नित्याभिव्यक्तत्वम्, तदा न कस्यचिदपराधः, प्रयत्ना- धीनायां तु तस्यां स्यादेव प्रयतमानस्यापराधः, यथा लङ्घनादिषु प्रयत्नसाध्येषु तद्वत इत्यर्थः, तत्र च शब्दे प्रयत्नेन निष्पत्तेर्दर्शनात् प्रयतमानस्यापराधभागित्वम्, ततः किं ? अत आह—तत्रेति । अपराधादिति । अपराधकरणत्वादिरूपादित्यर्थः

Page 626Permalink

कथमपराधप्रवृत्तत्वसंभवः ? अर्थप्रत्ययान्यथानुपपत्त्यादिवाचकत्वनिश्चयादत आह—न नियोगत इति । यत्रार्थप्रतिपत्तेरन्यथानुपपत्तिः, तत्र वाचकत्वनिश्चयः, इह तु वक्ष्यमाणन्यायेनान्यथोपपत्तेः न अनादिवाचकत्वकल्पना युक्तेति भावः । एवमपराधप्रवृत्तत्वसंभवप्रतिपादेन सर्वेषां साधुत्वनियमो निराकृतः; इदानीमेक एव साधुरितरेऽपभ्रंशा इति स्वपक्षे युक्तिमाह ॥ २५ ॥ एवं प्राप्ते सिद्धान्तः त० वा०—अभिधीयते— अनैकान्तिकता तावदर्थापत्तेरिहोच्यते । अन्यथाऽप्युपपन्नत्वात्प्रयोगार्थविबोधयोः ॥ ८३३ वाचकत्वादृते यस्तु न कथंचित्प्रयुज्यते । प्रयोगप्रत्ययायत्ता तत्र वाचकता ध्रुवम् ॥ ८३४ संशयप्रतिबद्धे च पूर्वपक्षार्थनिर्णये । इष्टार्थनिश्चयः शक्यः सुखं सिद्धान्तहेतुना ॥ ८३५ दृढविपर्ययज्ञानानन्तरं सहसैव च सम्यग्ज्ञानोत्पादातिभाराद्द्वारेकदेशावता- रणार्थं संशयोत्थापनामात्रमेव तावद्युक्तम् । संसिद्धव्यवहारत्वादनादित्वं यदाश्रितम् । अपराधप्रसङ्गेन तत्रैषा संशयक्रिया ॥ ८३६ यदि ह्येकान्तेन यादृशः परमुखाच्छब्दः श्रूयते, तादृगेव सर्वेण सर्वदोच्चार्येत । ततो वृद्धव्यवहारपरम्परायां सत्यां गवादिभिरिव न गाव्यादिभिः कश्चिदपि कालः शून्य आसीदित्यध्यवसायादनादित्वमङ्गीक्रियेत । अपराधजस्य शब्दस्य संभवात्तु तदाशङ्कायां सत्यां नैकान्ततः सर्वेषामनादित्वम् । 'प्रयत्ननिष्पत्तेरिति' पूर्वोक्त- न्यायावधारितप्रयत्नाभिव्यक्तिरेव हेतुत्वेनोपदिश्यते । अपर आह—अप्रयत्ननिष्पत्तेरपराधस्य भागितेति । यो ह्यस्खलितप्रयत्नः शब्दमभिव्यनक्ति, तस्य परम्परागतशब्दोच्चारणमात्रात्सर्वे समानविधाना भवेयुः । यदा त्वप्रयत्ननिष्पत्तिरपि शब्दे संभाव्यते तदा तत्रापराधजरूपान्तरापत्तिप्रस- ङ्गान्न नियोगतः सर्वशब्दानां समानविधानत्वम्¹ । अथ वा शब्दविषयस्य प्रयत्न- स्यैव या निष्पत्तिः तस्यामपराधः सुनिपुणानामप्यविकलकरणानां दृश्यते, किमुतानिपुणविगुणकरणानाम्— यश्च प्रयत्ननिष्पत्तावपराधः कृतास्पदः । शब्दे स तदभिव्यङ्ग्ये प्रसजन्केन² वार्यते ॥ ८३७ १. क. (टिप्पण्यां) विषयत्वमिति पा० । २. क. प्रसजत्केन ।

Page 627Permalink

३५ ] प्रथमाध्याये तृतीयपादः ५७३ अतश्चानपराधेन व्यज्यमानेषु साधुता । सापराधेष्वसाधुत्वं व्यवस्थैवं च तत्कृता ॥ ८३८ लोकेऽपि च – अविनष्टे विनष्टे च दृश्येते साध्वसाधुते । तथा सति च तद्द्वारा सिद्धिः शब्दापशब्दयोः ॥ ८३९ सत्यत्वं साधुत्वम् असत्यत्वमसाधुत्वमिति पक्षः यद्वा सत्यत्वमेवेदं साधुत्वमभिधीयते । असत्यवमसाधुत्वं धर्माधर्मोपयोगवत् ॥ ८४० धर्माधर्मव्यवस्था हि सत्यानृतनिबन्धना । विहितप्रतिषिद्धत्वात्तयोश्चेष्टा सशास्त्रता ॥ ८४१ अर्थसत्यं यथा वाच्यं शब्दसत्यं तथैव हि । शब्दानृतं च हातव्यमर्थानृतवदेव नः ॥ ८४२ एवं सति व्यवस्थाने भक्ष्याभक्ष्यविभागवत् । प्रयोगोत्पत्त्यशास्त्रत्वादिति हेतोरसिद्धता ॥ ८४३ अथ वा यदुक्तम्— साधोर्नित्यप्रसक्तत्वादसाधोरप्रसङ्गतः । न धर्मनियमोऽस्तीति तत्रैदमभिधीयते ॥ ८४४ अपराधस्य भागित्वादुभयं सावकाशकम् । साधोरनियता प्राप्तिरसाधोश्च प्रयोज्यता ॥ ८४५ यदि हि साधुः प्रयुज्यमानो न कश्चित्कदाचिदपि विनश्येत् ततस्तस्य नित्य- प्राप्तत्वान्निवर्त्यापशब्दाप्राप्तेश्च नियमशास्त्रमनर्थकं भवेत् । यदा त्वपराधभागित्वे सति द्वयोरप्यनियता प्राप्तिः सदा साधुनियमकारिणः शास्त्रस्य न विषयव्याघातः । एक एवायं शब्दः पुरुषाशक्ति-प्रमादकारणादिभेदात्तां तां वर्णन्यूनातिरेकक्रमान्य- त्वाद्यवस्थामनुपतंस्तेन तेनापभ्रंशरूपेण गृह्यमाणस्तमेवार्थं प्रतिपादयतीति, न पर्यायकल्पनया वाचकशब्दान्तरत्वैकान्तसिद्धिः । किं च—देवदत्तादिनामानि निःसन्दिग्धानि यानि च । बालैस्तत्तादिरूपेण नाश्यन्ते तैश्च संशयः ॥ ८४६ तत्तादिशब्दादपि हि बालप्रयुक्तात्तदनुकारिकठोरबुद्धिप्रयुक्ताद्वा देवदत्ता- द्यर्थप्रत्ययमुपलभमानः कथमिव प्रयोगप्रत्ययदर्शकाभ्यामेव वाचकत्वमध्यवस्येत् ? अपभ्रंशाश्च ये केचिद्रूढा गाव्यादयो जने । तेऽपि गाव्यादिरूपेण नाश्यन्ते व्यभिचारिताः ॥ ८४७

Page 628Permalink

५७४ मीमांसादर्शनम् [ सू० कतिषुचिदेव गव्यादिषु चिरापभ्रष्टत्वादृढयाशङ्कया साधुत्वभ्रान्तिर्भवेत् । ये तु सन्त्येव जडप्रायज्ञानकरणैरभिनवगव्यादिरूपेण विनाश्यशब्दाः प्रयुज्यमानाः प्रकृत्यनुसरणद्वारेण वार्थं प्रत्यापयन्त उपलभ्यन्ते, तेष्वपि प्रयोगप्रत्ययदर्शनम्- स्तीत्यनैकान्तिकता । ततश्च त्वत्प्रयुक्तोऽयं हेतुरप्यपराधभाक् । अनैकान्तिकतादोषान्न ह्यसौ साधनक्षमः ॥ ८४८ अन्यथोच्चार्यमाणश्च शब्दोऽपभ्रश्यते यथा । तथा हेतुरनैकान्ताद्धेत्वाभासत्वमृच्छति ॥ ८४९ तस्माद् दृष्टप्रयोगेऽपि पुनरस्ति विचारणा । वाचकोऽयं न वेत्येवं सति वाऽन्येन निर्णयः ॥ २५ ॥ ८५० न्य० सु०—अत्र भाष्यकृता महता प्रयत्नेनेत्यादिना सूत्रं व्याख्यायते—अपराधादि- त्यादिना । गव्यादिशब्देष्वपराधसम्भावनामात्रं सूत्रस्य तात्पर्यमुक्तम् । तत्सम्भावनामात्रेण सिद्धान्तासिद्धेरयुक्तमाशङ्क्य नेदं सिद्धान्तसूत्रम्, किं तु पूर्वपक्षदूषणार्थमित्याह— अनैकान्तिकता तावदिति । निर्णयवचनादेकान्तशब्दात्तस्मै प्रभवति सन्तापादिभ्य इति ठञ्प्रत्यये कृतेऽनैकान्तिकशब्दव्युत्पत्तेरनिर्णायकत्वम् अनैकान्तिकता । एवं न कस्य- चिच्छब्दस्य वाचकत्वं स्यादित्याशङ्क्याह—वाचकत्वादिति । परपक्षसन्देहापादनस्य स्वपक्षनिर्णयानुपयोगित्वादानर्थक्यमाशङ्क्याह—संशयेति । एतदेव व्याचष्टे—दृढेति । पूर्ववाचकत्वानिश्चयार्थत्वेनैतत्सूत्रं व्याख्यातम् । इदानीमन दित्वानिश्चयार्थत्वेन व्याचष्टे — अथ वेति । श्लोकं व्याचष्टे—यदि हीति । ननु विविधांश्शब्दानभिव्यनक्तीति भाष्येण कस्मै न सोत्रो निष्पत्तिशब्दोऽभिव्यक्त्यर्थत्वेन व्याख्यात इत्याशङ्क्य, शब्दाधिकरणे शब्दोत्पत्तेर्निषिद्धत्वादित्याह—प्रयत्नेति । यथाभाष्यं द्वेधा सूत्रं व्याख्याय स्वयमकार- प्रश्लेषेणाप्रयत्नेनापि निष्पत्तेरिति मध्यमपदलोपिसमासाङ्गीकरणेन तावदन्यथा व्याचष्टे— अपर इति । विधानशब्दः प्रकारवचनः निष्पत्तिशब्दस्य चोत्पत्त्यर्थत्वेन षष्ठ्यन्तत्वेन च प्रयत्नस्य निष्पत्तेरिति च षष्ठीसमासाश्रयणेनैतत्सूत्रं व्याख्येयमित्याह—अथ वेति । अपराधव्यतिरेकजनितेयं षष्ठीति प्रकटयितुं तस्यामिति सप्तमी । ननु प्रयत्ननिष्पत्तेरपराध- भागित्वे शब्दस्य किमायातमित्याशङ्क्य तद्गतस्यापराधस्य शब्दे सञ्चारप्रतिपादनार्थत्वेन शब्द इति सूत्रावयवं व्याचष्टे—यद्वेति । यद्वैकोपलक्षणाभावात्साध्वसाधूनां विधिनिषेध- विषयत्वासम्भवाभिप्रायेण साधुभिर्भाषितासधुभिर्नेति प्रयोगोत्पत्तेरुच्चारणनियमस्याशास्त्रीय- त्वादिति यो हेतुरुक्तः, तस्यासिद्धत्वप्रतिपादनार्थमेतत्सूत्रमित्यन्यथा व्याख्यातम् । साध्व- साधुत्वव्यवस्थां तावदाह – अतश्चेति । . 'ग्रस्तं निरस्तं निहतावलम्बिते अम्बूकृतं ष्मातमथो विकम्पितम् । संदृष्टमेणीकृतमर्द्धकं द्रुतं विकीर्णमेताः स्वरदोषभावनाः ॥'

Page 629Permalink

२५ ] प्रथमाध्याये तृतीयपादः १७५ इत्यादिसमृत्यवगतग्रस्तवत्वादिदोषवर्जितनियत ह्रस्वा दिकालाभिव्यङ्ग्ययथालक्षितक्रम- ग्राह्येषु वर्णेष्वनियुक्तो साधुशब्दप्रयोगात्तद्विपरीतेषु चासाधुशब्दप्रयोगादवश्यं तदालम्बनं किंचित् व्यवस्थितं वक्तव्यम् । तत्र च नित्यस्तु स्याद्दर्शनस्य परार्थत्वात् १-१-१८ इति सूत्रे साधुत्वेनाभिमतानां नित्यानां शब्दाना मर्थप्रत्ययना ङ्ग्लवस्योक्तत्वात् तस्य च । फलवद्व्यवहाराङ्गभूतार्थप्रत्ययनाङ्गता । निष्फलत्वेन शब्दस्य योग्यत्वादवसीयते ॥ इति वार्त्तिकेनो पादितत्वादर्थप्रत्ययना ङ्ग्लत्वं साधुत्वमवगम्यते । तच्च वाचकवृत्त्या लक्षणावृत्त्या गौणोवृत्त्या वेति त्रिविधम् । गाव्यादिशब्दानां मुख्यार्थान्तराभावाद् गौणलाक्ष- णिकत्वे तावदनाशङ्कनीये । वाचकशक्तिकल्पनं त्वन्यथाप्युपपत्तेर्निषिद्धम् । न च प्रकारान्त- रेण शब्दस्यार्थप्रत्यया ङ्ग्लत्वं सम्भवतीत्यव्याप्त्यतिव्याप्त्यभावादेतदेव साधुत्वलक्षणं युक्तम् । तच्चानपभ्रष्टेष्वेव शब्देषु, नापभ्रष्टेष्वित्यनपभ्रंशापभ्रंशकृता साध्वसाधुव्यवस्था सेत्स्यतीत्यर्थः । दृष्टं चानपभ्रष्टेष्वेव सुवर्णादिषु व्यवहारा ङ्ग्लत्वलक्षणं साधुत्वम्, नापभ्रष्टेषु कूटेष्वि- त्याह - लोकेऽपि चेति । इदमेव वाऽनपभ्रष्टत्वं साधुत्वम् अपभ्रष्टत्वं चासाधुत्वम्, तयोश्च सम्यक्त्वासम्यक्त्ववाचिभ्यां सत्यासत्यशब्दाभ्यां वक्तुं शक्यत्वात्सत्यं वदेदनृतं न वदेदिति विधिनिषेधविषयत्वोपपत्तेर्धर्माधर्मोपयोगोस्तीत्यन्यथा साध्वसाधुव्यवस्थाम्राह-यद्वेति । एतदेव विवृणोति-धर्मेति । नन्वर्थतथात्वा तथात्वविषयत्वाद नयोर्विधिनिषेधयोर्न शब्द- तथात्वातथात्वविषयता युक्तेत्याशङ्कयाह अर्थसत्यमिति । एतच्चार्थे सत्यासत्यत्वयोः सत्त्वासत्त्वरूपत्वाच्छब्दे चानपभ्रष्टापभ्रष्टरूपत्वात्कृच्छू तयोश्च सत्यानृतशब्दयोरुभयपरत्वा- योगात् 'एष ह वै सत्यं वदन् सत्ये जुहोति, योऽस्तमिते सायं जुहोत्युदिते प्रातः-प्रातः प्रातरनृतं ते वदन्ति पुरोदयात् जुह्वति येऽग्निहोत्रमित्यादिश्रुतिपर्यालोचनया वार्थपरत्वाव- सायाच्छब्दपरत्वानुपपत्तेर्गाव्यादिशब्दस्य च शिष्टैरगर्हितत्वात्प्रोढिमा त्रेणोक्तम् । उक्तेन च प्रकारेण साध्वसाधुत्वयोर्व्यवस्थायां सत्यां विधिनिषेधविषयत्वोपपत्तेः प्रयोगोत्पत्त्यशास्त्र- त्वादित्यसिद्धो हेतुरित्याह-एवमिति । अपराधभागित्वेन चासाधुत्वेनानियमेनाप्राप्तेरसाधूनां च प्रसक्तेर्नियमनिषेधविषयत्व- सम्भवात् प्रयोगोत्पत्त्यशास्त्रत्वादित्यस्य हेतोरसिद्धत्वमनेन सूत्रेणोच्यत इत्यन्यथा व्याचष्टे -- अथ वेति । धर्माय नियमो धर्माप्रसक्तये वा नियमो नास्तीत्यर्थः । एतदेव विवृणोति - यदि हीति । नियमशास्त्रशब्देन निषेधशास्त्रमप्युपलक्षितम्, साधुनियमकारिशब्देनाऽसाधु- निषेधकारिणोऽप्युपलक्षणम् । ननु गाव्यादिशब्दस्य सास्नादिमदर्थप्रतिपादकत्वे प्रसक्त्य- योगात्प्रसक्तिसिद्ध्यर्थमवश्यं सास्नादिपर्यायतुल्यं वाचकशब्दान्तरत्वमेष्टव्यमित्याशङ्कयाह- एक एवेति ।

सूत्रमित्यपेक्षायाम् ॥२५॥

Page 630Permalink

५७६ मीमांसादर्शनम् [ सू० पूर्वं प्रत्ययादिति पूर्वपक्षभाष्येणार्थापत्तिः सर्वेषां वाचकत्वे प्रमाणमुक्तेत्यभिप्रेत्य, अन्यथाप्युपपत्तिलक्षणदूषणाभिधानार्थत्वेनैतत्सूत्रं व्याख्यातम् । इदानीमनुमानोपन्यासार्थं तद्भाष्यमित्यभिप्रेत्यानैकान्तिकत्वलक्षणहेतुदूषणप्रतिपादनार्थत्वेनैतत्सूत्रं व्याचष्टे—किं चेति । अनेन च देवदत्तादिशब्दे बालैः प्रयुक्तेऽप्यपटुकारणत्वेन प्रयत्ननिष्पत्तेस्सत्तादिरूपेण नाशात् कठोरबुद्धिभिरपि बालप्रयुक्तशब्दानुकरणप्रयत्ननिष्पत्तेस्सत्तादिरूपेण नाशादपराध- भागित्वं दृष्टम् । ततश्च प्रत्ययादितिभाष्योक्तस्य शब्दश्रवणानन्तरभाष्यर्थप्रत्ययलक्षणस्य वाचकत्वहेतोः, तदुपलक्षितस्य चार्थविषयशब्दप्रयोगलक्षणस्यानैकान्तिकतेति सूत्रं योजितम् । श्लोकं व्याचष्टे—तत्तेति । गाव्यादिशब्दैरप्यनैकान्तिकाविमौ हेतू इत्याह— अपभ्रंशाश्चेति । ननु तेषामपि पक्षत्वान्न विपक्षतेत्याशङ्कयाह—कतिषुचिदेवेति । एवमपराधभागिन्यवाचकेऽपि शब्दे हेतोर्दर्शनादनैकान्तिकत्वभूतमपशब्दापराधप्रतिपाद- नार्थमेव तत्—सूत्रमित्युक्तम् । हेतोरेव चानेकान्तिकत्वलक्षणपराधभागित्वम् अनेन सूत्रेणो- च्यत इत्याह—ततश्चेति । एवमपि सूत्रयोजना सम्भवतीत्यपिशब्दार्थः । यद्वा यथा शब्दे अन्ययोच्चारणादपभ्रंशलक्षणापराधभागित्वम्, तथा हेतोरनैकान्ति- कत्वाद्धेत्वाभासत्वलक्षणापराधभागित्वमित्येवमनैकान्तिकत्वप्रतिपादनार्थंयैतत्सूत्रं योज्य- मित्याह—अन्यथेति । एवमपि सूत्रयोजना सम्भवतीति चशब्दार्थः । सन्देहापादनार्थत्वं सूत्रस्योक्तमुपसंहरति—तस्मादिति । नन्वत्र सर्वेषां वा शब्दानां वाचकत्वमेकस्यैव चेति एवं द्वावेव पक्षौ । तत्र सर्ववाचकत्वपक्षे सन्देहापादनेन निरस्ते, पारिशेष्यादेकस्यैव वाचकतेति निर्णयसिद्धेरन्येन निर्णयाभिधानमयुक्तमित्याशङ्कयाह--संशयेति । किन्तदुत्तर- सूत्रमित्यपेक्षायाम् ॥२५॥ भा० प्र०—पूर्वपक्षियों ने कहा कि गो शब्द के समान ही गावी, गोणी आदि शब्द भी अनादिवाचक है, ऐसा स्वीकार किये बिना व्यवहार की उपपत्ति नहीं हो सकती है । इसके समाधान में यह कहा गया है कि शब्दों का सर्वथा साधु रूप से उच्चारण करने के लिए विशेष प्रयत्न आवश्यक है, क्योंकि नाभि प्रदेश से उत्थित, वक्षः स्थल में विस्तार प्राप्त नाद (शब्द) का कण्ठ आदि स्थलों के संस्पर्श से विशेष- विशेष आकार में अभिव्यक्त करने के लिए अतिशय प्रयत्न आवश्यक है, उसमें कुछ भी त्रुटि होने पर शब्द दुष्ट हो जाता है अर्थात् जिस रूप में उच्चारण करने की इच्छा रहती है, उसन भिन्न प्रकार में उच्चारण होता है । एक ही शब्द अनादि काल से चला आ रहा है । विशेष वक्ता के उच्चारण के दोष से उसमें विकृति हो जाती है और भिन्न रूप में उसका उच्चारण होता है, उस शब्द को जिसने उसके द्वारा ज्ञान प्राप्त किया है, उसका एवं उस सम्प्रदाय के अन्य लोगों के द्वारा भी उस विकृत रूप में ही प्रयोग चलने लगता है । इस प्रकार की उपपत्ति दृष्टविरुद्ध न होने से अर्थापत्ति प्रमाण के आधार पर सभी शब्दों को साधु मानना यह सङ्गत नहीं है । क्योंकि, अन्यथा उपपत्ति होने पर अर्थापत्ति नहीं मानी जाती है । इसलिए गो, गावी, गोता आदि

Page 631Permalink

२५ ] प्रथमाध्याये तृतीयपादः ५७७ शब्दों में एक ही को अनादि मानकर साधु और अन्य शब्दों के अनादि न होने से उनको असाधु या अपभ्रंश माना जाता है। पतञ्जलि ने महाभाष्य में कहा है कि एक ही शब्द के अनेक अपभ्रंश हैं, जैसे— गावी, गोणी, गोता, गोपोतलिका इत्यादि । प्राचीन आचार्यों की यह उक्ति एवं शब्द और अर्थ का अनादि वाच्यवाचकताविषयक युक्ति के अनुसार यही निश्चित होता है कि एक शब्द साधु है अर वह अनादि है। किसी ने उसका संस्कार कर दिया है—इसलिए वह संस्कृत=साधु हो गया है, ऐसी बात नहीं है। अनादि वाचक एक साधु शब्द ही मनुष्य सुलभ अशक्ति के कारण अनेक आकार में परिवर्तित हो गया है और इन्हीं शब्दों ने प्राकृत आदि भाषाओं में स्थान लाभ किया है। अतः प्राकृत आदि भाषा भी साधु संस्कृत भाषा है, इसलिए इस भाषा की प्राचीनता में यह अकाट्य युक्ति है। आशय यह है कि धर्म में वेद ही प्रमाण है। शब्द के प्रामाण्य का आप्त से कथित होना ही है। वेद अपौरुषेय है, ऐसी स्थिति में आप्त प्रणीत न होने से अनाप्त वाक्य के समान वे भी अप्रमाण रहेंगे। किन्तु वेद की अपौरुषेयता भी सङ्गत नहीं है, क्योंकि पद और पदार्थ के सम्बन्ध से एवं वाक्य और वाक्यार्थ के सम्बन्ध से वेद की पौरुषेयता ही अनुमित होती है। क्योंकि शब्द और अर्थ का उसकी उत्पत्ति के बाद ही किसी पुरुष के द्वारा—यह शब्द इस अर्थ का वाचक है या यह वस्तु इस शब्द की वाच्य है—इस रूप में सङ्केत की कल्पना करने के बाद शब्द का प्रयोग हो सकता है। क्योंकि सङ्केत- हीन शब्द का प्रयोग नहीं हो सकता है। पद-पदार्थ के सम्बन्ध के समान ही वाक्य और वाक्यार्थ का सम्बन्ध भी स्वाभाविक नहीं है, वह भी पुरुष के द्वारा कल्पित है। क्योंकि पदार्थ ही वाक्यार्थ नहीं है। किसी विशेष अर्थ को व्यक्त करने के लिए ही कतिपय पदसमूहों को परस्पर सम्बद्ध कर प्रयोग किया जाता है। अतः इस अर्थ के पदसमष्टिरूप वाक्य का सम्बन्ध, वह भी पुरुष के द्वारा किया गया, कल्पित ही मानना पड़ेगा, अतः वेद का वाक्य और वाक्यार्थ भी पुरुष के द्वारा निर्मित ही सिद्ध करता है। वेद को आप्तों के द्वारा निर्मित होना मीमांसकों ने स्वीकार नहीं किया है, ऐसी स्थिति में इसे अनाप्त वाक्य ही मानना पड़ेगा। इसके समाधान में मीमांसकों ने कहा है कि शब्द और अर्थ का सम्बन्ध स्वाभाविक है। 'औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञानमुपदेशोऽव्यतिरेकश्चार्थेऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात्' (मी० सू० १।१।५) इस सूत्र में औत्पत्तिक शब्द का अर्थ स्वाभाविक होता है, उत्पत्ति शब्द का अर्थ लक्षण के द्वारा स्वभाव होता है। वाचक शब्द और वाच्य अर्थ दोनों ही नित्य हैं। अतः उसका स्वभाव भी नित्य है। इसलिए इन दोनों का सम्बन्ध भी स्वाभाविक अर्थात् नित्य या अकृत अर्थात् अपौरुषेय है। शब्द को नित्य नहीं मानने पर अर्थ की प्रतीति उपपन्न नहीं होगी। शब्द का उच्चारण ही अर्थप्रतीति का साधन है, उच्चारण स्वयं फल नहीं है। अतः, अर्थ की ३७

Page 632Permalink

५७८ मीमांसादर्शनम् [ सू०

प्रतीति ही शब्द के उच्चारण का प्रधान उद्देश्य है। यह अर्थप्रतीति यदि शब्दोच्चारण के द्वारा सम्पन्न न हो तो शब्द का उच्चारण निरर्थक हो जायगा । अतः प्रधानीभूत अर्थ की प्रतीति में जिससे बाधा न हो इस प्रकार के धर्म की कल्पना ही युक्ति सङ्गत है। नित्यता और अनित्यता शब्द का धर्म है। शब्द यदि अनित्य रहेगा तो अर्थ की प्रतीति सम्भव नहीं है। क्योंकि, सम्बन्ध के ज्ञान के बिना केवल शब्द के श्रवणमात्र से अर्थ का बोध नहीं हो सकता है। क्षणिक वस्तु के सम्बन्ध से ही बोध नहीं हो सकता है। क्योंकि अन्वय और व्यतिरेक से ही सम्बन्ध की प्रतीति होती है। दो-तीन बार ज्ञान के बिना अन्वय व्यतिरेक सम्भव नहीं है। क्षणिक वस्तु का एक बार से अधिक ग्रहण सम्भव ही नहीं है। विभिन्न शब्दों के ग्रहण से अर्थप्रतीति से सम्बन्ध की प्रतीति हो ही नहीं सकती है। क्योंकि प्रत्येक शब्द भिन्न है, अतः एक के ज्ञान से अन्य का सम्बन्ध ज्ञान कैसे हो सकता है-? क्योंकि ऐसा मानने पर गो शब्द से अश्व का बोध भी होने लगेगा। सादृश्यनिबन्धन सम्बन्ध के बोध की सम्भावना नहीं है, अनेक अवयवों की एक रूपता को ही सादृश्य कहा जाता है। वर्ण निरवयव हैं, अतः उनका सादृश्य सम्भव नहीं है। यदि किसी एक शब्द का सम्बन्ध गृहीत होता तो सादृश्यनिबन्धन अर्थबोध हो सकता था, किन्तु सभी शब्द क्षणिक हैं अर्थात् एक क्षण से अधिक काल तक स्थायी नहीं हैं, ऐसी स्थिति में कोई भी अर्थ किसी को कभी भी ज्ञानगोचर नहीं हो सकता है। जिसका अर्थ किसी भी समय ज्ञान का विषय नहीं होता है उस शब्द को अर्थयुक्त भी नहीं कहा जा सकता है। अतः शब्द को क्षणिक मानने पर सभी शब्द अर्थहीन रहेंगे, ऐसी स्थिति में किसी से भी सादृश्य निबन्धन अर्थप्रतीति होती है-यह मानने पर एक ही शब्द का अर्थवत्त्व और निरर्थकत्व, मुख्यत्व, गौणत्व इस प्रकार विरुद्ध भाव की स्थिति माननी पड़ेगी। शब्द को क्षणिक मानकर सादृश्यनिबन्धन अर्थप्रतीति मानने पर शब्दज्ञान अर्थात् शब्द से अर्थ की प्रतीति होती है-इसको भ्रम ही मानना होगा ! क्योंकि शाला शब्द का श्रवण कर उसका अर्थ गृह न समझकर सादृश्य निबन्धन यदि माला समझा जाय तो वाष्प को धूम समझने के समान यह भी भ्रम ही होगा ! यदि यह कहा जाय कि शाला और माला शब्द में भेद होने से पूर्वोक्त अर्थबोध को भ्रम ही मानना पड़ेगा, ऐसी स्थिति में यह कहा जा सकता है कि अभेद में सादृश्य नहीं होता है। सादृश्य स्थल में किसी प्रकार का भेद अवश्य ही रहता है। यदि ऐसा न हो तो पूर्व शब्द और पूर्व उच्चारित शब्द के अभिन्न होने पर शब्द नित्य ही रहेगा, यदि यह कहा जाय कि गावी आदि अपभ्रंश शब्द से सादृश्यवश जो अर्थ की प्रतीति होती है, उसको भ्रम नहीं कहा जाता है, अतः अन्य स्थल में भी यही होगा। उस स्थल में गो शब्द के उच्चारण की ही इच्छा रहती है, किन्तु प्रथम वक्ता की अशक्ति के कारण विकृति होने से ऐसा उच्चारण होता है, अतः उन स्थलों में भी गो शब्द ही अर्थ का बोधक है। वस्तुतः ऐसे स्थलों में

Page 633Permalink

२५ ] प्रथमाध्याये तृतीयपादः ५७९ बाधक ज्ञान के रहने पर भी शब्द की यथार्थवाचकता भ्रान्त रहती है। किन्तु ऐसा होने से सभी शब्दों की भ्रान्तवाचकता नहीं मानी जा सकती है। जहाँ बाधक ज्ञान रहता है, वहीं वाच्य ज्ञान को भ्रम माना जाता है। यथायथ उच्चारित शब्द की वाचकता में बाधक किसी के न रहने एवं सभी व्यक्तियों के सम्मुख एक रूप होने से उसको भ्रम नहीं कहा जा सकता है, एक ही समय शब्द का उच्चारण, ज्ञान एवं अर्थबोध नहीं हो सकता है, क्योंकि यह परम्परा कथन, युक्ति और अनुभव से सिद्ध है— इसलिए भी शब्द क्षणिक नहीं है। यदि यह कहा जाय कि शब्द कुछ समय रहकर विनष्ट हो जाता है, अतः सम्बन्धज्ञानपूर्वक अर्थबोध हो सकता है, किन्तु ऐसी स्थिति में शब्द यदि कुछ देर तक रहता है, तब सदा क्यों नहीं रहेगा ? जिसके विनाश का कारण रहता है, उसकी उत्पत्ति होती है या नहीं—इसका परिज्ञान भले ही न हो किन्तु विनाश तो मानना ही पड़ेगा। जैसे—प्रागभाव उत्पत्तिरहित होने पर भी नाशक कारण होने से उसका ध्वंस प्राप्त होता है। किन्तु शब्द का नाशक कोई कारण नहीं है, अतः शब्द का नाश नहीं माना जाता है, या जिन पदार्थों की उत्पत्ति कारण सापेक्ष होती है, अर्थात् समवायी, असमवायी कारणों के रहने के कारण होती है वहाँ समवायी या असमवायी कारण के विनाश से उसका विनाश भी होता है। जैसे—तन्तु वस्त्र का समवायी कारण है, अतः तन्तु का नाश एवं तन्तुसंयोग के नाश से अर्थात् समवायी कारण वस्त्र का ध्वंस होता है, किन्तु शब्द का समवायी या असमवायी कारण नहीं है— इसीलिए शब्द निरवयव है। अस्तु, शब्द की अनित्यत्वरूप धर्म की कल्पना करने पर प्रधानीभूत अर्थप्रतीतिरूप फल की बाधा होने से वैसे धर्म की कल्पना अनुचित है, कारण वैसा धर्म ही कल्पनीय है; जो प्रधान में बाधा उत्पन्न नहीं करता है। शब्द के नित्यत्व और विनाशित्व इन दो धर्मों में उसी धर्म को मानना उचित है, जिससे प्रधानभुत अर्थप्रतीतिरूप फल में बाधा न हो। अङ्ग के अङ्गत्व की रक्षा के लिए प्रधानीभूत फल में बाधा करना उचित नहीं है। शब्द अर्थबोध का अङ्ग या साधन है, नित्यता और अनित्यता शब्द का अङ्ग है। शब्द को विनाशी अर्थात् अनित्य कहा जाय तो प्रधान फल का बाध ही होगा। अतः शब्द के नित्य न होने पर प्रधान फल अर्थप्रतीति की अन्यथा उपपत्ति नहीं हो सकती है, अतः शब्द को नित्य ही मानना होगा। अर्थापत्ति प्रमाण के द्वारा शब्द भी नित्यता सिद्ध होती है। श्लोकवार्तिक में शब्द की नित्यता का विस्तृत विश्लेषण उपलब्ध है, जिसका विवरण भूमिका के द्वारा प्राप्त करें। यह आशङ्का की गई है कि गो शब्द के समान गावी, गोणी, आदि शब्द भी अनादि वाचक है, यह मानना पड़ेगा, अन्यथा व्यवहार की उपपत्ति नहीं हो सकती है। इस प्रसङ्ग में यह कहा जा सकता है कि व्यवहार की उपपत्ति अन्यथा भी हो सकती है। शब्द का उचित रूप में सुष्ठु उच्चारण के लिए विशेष प्रयत्न आवश्यक

Page 634Permalink

५८० मीमांसादर्शनम् [ सू० है, क्योंकि नाभि से उत्थित वक्षःस्थल में विस्तार प्राप्त नाद का कण्ठ आदि स्थलों से संस्पर्श कर विशेष आकार में अभिव्यक्त करने के लिए प्रयत्न आवश्यक है और जिस रूप में उच्चारण करना चाहता है, उससे भिन्न रूप में ही उच्चारण हो जाता है। इसलिए एक ही शब्द अनादिकाल से आ रहा है। किन्तु वक्ता विशेष के उच्चारण के दोष से उसमें विकार आ जाता है और उसका भिन्न रूप में उच्चारण होने लगता है। उस व्यक्ति विशेष के सम्पर्क से उस सम्प्रदाय के अन्य व्यक्ति भी उस विकृत उच्चारण के अनुसार ही प्रयोग करते हैं, और इस प्रकार की उपपत्ति दृष्ट उच्चारण के अनुरूप ही है। अतः दृष्ट विरुद्ध न होने से अर्थापत्ति प्रमाण के आधार पर जो सभी शब्दों को साधु मानने की युक्ति समीचीन नहीं है। अन्यथा उपपन्न होने पर अर्थापत्ति प्रमाण के आधार पर किसी की साधुता का स्वीकार नहीं किया जा सकता है। अतः गो, गावी आदि शब्दों में एक ही अनादि है, और वही साधु है, अतिरिक्त शब्द अनादि न होने से अपभ्रंश या असाधु हैं। अनादि वाचक शब्द ही अशक्ति के कारण अनेक आकारों में परिवर्तित हो गये हैं, और ये ही प्राकृत आदि में प्रयुक्त होते हैं। अतः प्राकृत भाषा के प्रयुक्त शब्द ही साधु एवं संस्कृत की अपेक्षा प्राचीन है—यह कथन युक्तियुक्त नहीं है। ‘शब्दे अपराधस्य भागित्वम्’ शब्द में अपराधभागिता अर्थात् दुष्टता होती है। ‘प्रयत्ननिष्पत्तेः’ क्योंकि प्रयत्न के सहयोग से उसका उच्चारण होता है। शब्द का उच्चारण प्रयत्न सापेक्ष है, अतः शब्द में अपराधभागिता अर्थात् दुष्टता सिद्धान्त सिद्ध है। आशय यह है कि आलस्य, प्रमाद आदि के द्वारा शब्द जिस प्रकार यत्नपूर्वक उच्चारण करना चाहिए, वैसा उच्चारण करने में असमर्थ होने पर गावी आदि उच्चारण होता है, और इस उच्चारण से अपभ्रंश की परम्परा के क्रम में एक शब्द के अनेक अपभ्रंश हो जाते हैं ॥ २५ ॥ अन्यायश्चानेकशब्दत्वम् ॥ २६ ॥ शा० भा०—न चैष न्यायो यत्सदृशाः शब्दा एकमर्थमभिनिविशमानाः सर्वे- विच्छिन्नपारम्पर्या एवेति प्रत्ययमात्रदर्शनादभ्युपगम्यते, सादृश्यात्साधु- शब्देऽप्यवगते, प्रत्ययोऽवकल्प्यते¹। तस्मादमीषामेकोऽनादिः। अन्येऽपभ्रंशाः। हस्तः करः पाणिरित्येवमादिषु त्वभियुक्तोपदेशादनादिरमीषामर्थेन सम्बन्ध इति ॥ २६ ॥ सिद्धान्ते युक्तिः ॥ भा० वि०—सूत्रं व्याचष्टे—न चैष न्याय इति। घटः कलशः कुम्भः इत्यादि व्यवच्छेत्तुं सदृशा इत्युक्तं शालामालेत्यादिव्यवच्छेदाय—एकमर्थमिति। कथ- १ ब. वकल्पते।

सूत्रम्—अन्याय्यश्चानेकशब्दत्वमिति । कथं पुनरिदमन्याय्यम् ?

Page 635Permalink

२६ ] प्रथमाध्याये तृतीयपादः ५८१ मिदमन्याय्यमत आह—प्रत्ययमात्रेति । अभ्युपगम्येतेति । सर्वेऽविच्छिन्नपारम्पर्या इति इत्यनुषङ्गः, ततः किमत आह-तत्सादृश्यादिति । यस्य गाव्यादेरविच्छिन्न- पारम्पर्यताभ्युपगम्यते, तत्सादृश्यात् गवादिशब्दे स्मृतेऽपि तत एवार्थप्रत्ययो घटते, तेन यतोऽर्थप्रत्ययस्यैको एवानादिरितरेऽपभ्रंशा इति न सर्वेऽविच्छिन्न- पारम्पर्या इत्यर्थः । नन्वेवं सति हस्तः करः पाणिरित्यादीनामेकमर्थमभिनिविशमानानां सर्वेषा- मनादिता कथमित्याशङ्क्य शिष्टप्रयोगादित्याह—हस्त इति । अभियुक्तोपदेशा- दित्युपलक्षणम्, सादृश्याभावेन गत्यन्तराभावाच्चेति द्रष्टव्यम् ॥ २६ ॥ त० वा०—संशयापादनात्परपक्षे जितेऽपि स्वपक्षसिद्धिर्दुर्लभैवेत्येवमर्थमुत्तर- सूत्रम्—अन्याय्यश्चानेकशब्दत्वमिति । कथं पुनरिदमन्याय्यम् ? तदुच्यते—वाच्यवाचकसामर्थ्यनियमो योऽभिधागतः । सम्बन्धस्तदनेकत्वे स्वरूपात्सोऽपि हीयते ॥ ८५१ एकात्मकयोरेव हि वाच्यवाचकयोरन्योन्याक्षेपात्परस्परनियमः संभवति अन्यतरस्यापि त्वनेकत्वे सति व्यभिचारान्नियमहानिः । किं च—सामर्थ्यं सर्वभावानामर्थापत्त्याऽवगम्यते । एकसामर्थ्यसिद्धेऽर्थे नानेकं तच्च लभ्यते ॥ ८५२ अत्यन्तादृष्टा हि वाच्यप्रत्ययान्यथानुपपत्तिमात्रप्रमाणिका वाचकशक्तिरेकत्रैव कल्पिता तदनुसार्यपभ्रंशेष्वपि चेदनुगम्यते, को नाम तन्निरपेक्षवाचकशक्त्यन्तर- कल्पनां लभेत१। नाम च व्यवहारार्थमर्थस्याभ्युपगम्यते । तेनैकेनैव सिद्धेऽर्थे द्वितीयादि च निष्फलम् ॥ ८५३ किं च—विकल्पस्याष्टदोषत्वं पुरस्तादेव वर्णितम् । स चेहानेकशब्दत्वे निश्चयेन प्रसज्यते ॥ ८५४ नामान्तरे श्रुते चार्थस्तद्भिन्नोऽन्यः प्रतीयते संज्ञा चोत्पत्तिसंयोगात् २-२-८ इत्यत्रैतद्वदिष्यते ॥ ८५५ दृष्टान्तदार्ष्टान्तिकयोः वैषम्यप्रतिपादनम् या तु हस्तः करः पाणिरित्यत्राऽनेकशब्दता । अनन्यगतिकत्वेन सा दृढस्मरणेन च ॥ ८५६ १ क. व कल्प्यते । २ क. (टिप्पण्यां) भजेतेति पा० ।

Page 636Permalink

५८२ मीमांसादर्शनम् [ सू० एकशक्त्यनुसारेण यावत्त्वस्ति गतिः क्वचित् । उपमानानुमानाभ्यां तावत्सैवानुगम्यते ॥ ८५७ तस्मात्स्वरूपसम्बन्धशब्दार्थत्वनिरूपणे । एकैकनियमादेव गतिः स्यान्नान्यगोचरा ॥ ८५८ यथा च प्रकृतिसारूप्यद्वारेणापभ्रंशाः प्राकृतीमेव शक्तिमाविर्भावयन्तोऽर्थ- प्रतिपत्तावुपयोगं गच्छन्ति । तथा तदशक्तिश्चानुरूपत्वात्' इत्यत्र वर्णयिष्यते । तेनानेकप्रयोगेऽपि कश्चिदेवार्थसंगतः । तदुपस्थापनेनान्ये बोधकास्तदशक्तिजाः ॥ २६ ॥ ८५९ न्या० सु०—अत्र भाष्यकृता न चैष इत्यादिनेकस्यार्थस्यानेकशब्दत्वमयुक्तमित्येवं सूत्रं व्याख्याय, हेत्वपेक्षायां प्रत्ययमात्रेत्याद्युक्तं तदन्यथाप्युपपत्तिमात्रप्रतिपादकत्वेन, पूर्ववत्सन्देहमात्रापादनादनिर्णायकं तत्प्रकारनिरूपणं च 'तदशक्तिश्चे' त्यत्र वक्ष्यमाणत्वात् पुनरुक्तमित्युपेक्ष्य, स्वयं प्रश्नपूर्वं पक्षहेतूनाह—कथं पुनरिति । कारकयोः साक्षाद- सम्बन्धात् क्रियासम्बन्धे सत्येकक्रियावशीकारात्परस्परनियमसम्बन्धोऽभिधीयते । यथोक्तम्— 'प्रतिपत्तावुपादानात्साहित्ये च विवक्षिते । नियम्येत यदेकस्यां सम्बन्धः सोऽर्थशब्दयोः ॥' इति । स च वाच्यवाचकानेकत्वे स्वरूपात्नियमलक्षणाद्धीयत इत्यर्थः । वाच्यवाच- कत्वयोः कर्मकरणरूपकात्मकत्वाच्छक्तेरेव कारकत्वमभिप्रेत्य सामर्थ्यशब्दः । क्रिया- व्यापृतत्वरूपस्य तु कारकत्वमभिप्रेत्य तद्व्यवस्थासिद्ध्यर्थादृष्टातिशयरूपशक्त्य- भ्युपगमे वा वाच्यावच्छिन्नवाचकाश्रितैकशक्तिमात्रेणोभयव्यवस्थोपपत्तेरनवच्छिन्नत्वे वा शक्तित्रयकल्पनेऽपि व्यवस्थानुपपत्तेर्वाच्यावच्छिन्नस्य वाचकाश्रितस्य सामर्थ्यस्याभिधायां नियमो यः सम्बन्धशब्दाभिधेय इति योज्यम् । श्लोकं व्याचष्टे—एकेति । योग्यार्थापत्त्य- नुदयादप्यनेकवाचकशक्तिकल्पनमन्याय्यमित्याह—किं चेति । श्लोकं व्याचष्टे—अत्यन्तेति । आनर्थक्यादप्यनेकशब्दत्वमन्याय्यमित्याह—नाम चेति । विकल्पापत्तेरप्यन्याय्यमित्याह— किं चेति । अर्थभेदापत्तेरप्यन्याय्यमित्याह—नामान्तर इति । ननु हस्तकरादिष्वनेकशब्दत्वदर्शनात्कथमन्याय्यतेत्याशङ्क्य, हस्त इत्यादिभाष्येणाभि- युक्तोपदेशाभावे सत्यन्याय्येतेति परिहृतम्, तद् गाव्यादिष्वपशब्देष्वप्यभियुक्तोपदेशस्य पूर्वपक्षिणेष्टत्वादयुक्तमाशङ्क्य, गत्यन्तराभावसूचनाथंत्वेन व्याचष्टे—यत्त्विति । दृढस्मरणे- नेत्यभियुक्तोपदेशोऽनन्यगतिकत्वोपपादनार्थत्वेन व्याख्यातः । तदुपलक्षितमसादृश्यं चकारेण सूचितं सम्प्रत्युपेक्षितं भाष्यं गाव्यादिशब्देषु गत्यन्तरसम्भवसूचनाथंत्वेन व्याचष्टे— १. जै० सू० (१-३-८) ।

Page 637Permalink

२६ ] प्रथमाध्याये तृतीयपादः ५८३ एकेति । गोशब्दोच्चिचारयिषायामशक्त्या केनचिद्गावीत्युच्चारिते, श्रुतगावीशब्दसादृश्यं गोशब्दस्योपमानेनावगम्य, गावीशब्दोच्चारणस्य गोशब्दोच्चिचारयिषामूलत्वानुमानाद् गोशब्दशक्त्यनुसारेण गावीशब्दादप्यर्थप्रत्ययोपपत्तेर्न गावीशब्दस्य शक्त्यन्तरकल्पन- मित्यर्थः । अनेकशब्दत्वस्यान्याय्यत्वं पञ्चधोपपादितमुपसंहरति - तस्मादिति । स्वरूपं नियमरूपतासम्बन्धः सामर्थ्यलक्षणः शब्दो नामार्थो नामान्तरेऽप्यभिन्न इत्येषां चतुष्टयोपसंहारः । निरूपणशब्दव्यवस्थार्थत्वेनावश्यं विकल्पप्रसङ्गलक्षणोपपत्त्युपसंहारः । सर्वशब्दमध्ये एकैकस्यैव गवाश्वादिशब्दस्य वाचकत्वनियमादिति वीप्सार्थः । यद्वैकस्यैव शब्दस्य वाचकत्वनियमादेकस्यैव चार्थस्य वाच्यत्वनियमादिति यववराहाधिकरणोक्तो वाच्यैकत्वनियमो दृष्टान्तत्वेन वीप्सयोक्तः । कथं पुनरुपमानानुमानाभ्यामेकशक्त्यनुसारेण गतिसम्भव इत्याशङ्क्याह - यथा चेति । सिद्धान्तमुपसंहरति - तेनेति ॥ २६ ॥ भा० प्र०—इस प्रसङ्ग में यह शङ्का हो सकती है कि एक शब्द को साधु और अन्य शब्द को असाधु मानने का क्या कारण है ? सभी अपरपर्याय शब्दों में एक ही अर्थ के सभी शब्द वाचक होते हैं । अनेक शब्द को एक अर्थ का वाचक मानना उचित नहीं है । एक ही अर्थ की अनेक शब्दों से प्रतीति माननी होगी, किन्तु ऐसा मानने पर शब्द का अप्रामाण्य मानना होगा । अव्युत्पन्न व्यक्ति जब शब्द और अर्थ के सम्बन्ध का ज्ञान करता है, तब यह निर्णय करता है कि यह गो शब्द का वाच्य है; यह अश्व शब्द का वाच्य नहीं है इत्यादि नियम पूर्वक ही व्युत्पत्ति होती है । किन्तु इसके बाद जो यह समझता है कि गोणी गोता आदि सभी शब्दों का वाच्य गौ ही है । तब पूर्व नियम का वाध होता है । पूर्वोक्त नियम का बाध होने पर अव्युत्पन्न व्यक्ति को शब्द से अर्थ का बोध नहीं होगा । 'गामानय' गौ को लाओ इस प्रकार गो शब्द के सुनने के बाद कोई व्यक्ति जब गलकम्बल आदि से विशिष्ट प्राणिविशेष विशेषरूप को लेकर व्यवहार करता है । ऐसी स्थिति में अन्य अव्युत्पन्न व्यक्ति अर्थापत्ति प्रमाण के द्वारा यह अवगत करता है कि गो शब्द में गलकम्बलादि विशिष्ट प्राणिविशेषरूप अर्थ को बोध कराने की शक्ति है । इस प्रकार एक शब्द के सामर्थ्य से एक अर्थ सिद्ध होता है, उसी प्रकार अनेक शक्ति की कल्पना नहीं की जाती है, क्योंकि इसमें अर्थापत्ति बाधित होता है । अनेक शब्दों को एक अर्थ का वाचक मानने पर विकल्प की प्रसक्ति होगी । विकल्प मानने पर सभी के प्रामाण्य को पक्ष में बाधित मानना होगा । अतः सम्भव पक्ष में अन्यथा उपपत्ति होने पर विकल्प मानना उचित नहीं है । कर, हस्त आदि प्रयोगों में एक अर्थ में अनेक शब्द की वाच्यता माननी ही होगी ; क्योंकि दूसरा उपाय नहीं है । इसलिए गो, गावी आदि शब्दों में एक शब्द साधु है और अन्य शब्द असाधु हैं, अपभ्रंश है, वक्ता के उच्चारण के असामर्थ्य के कारण ही ये शब्द प्रयुक्त हुए हैं । हस्त, कर, पाणि आदि शब्दों का एक अर्थ में प्रयोग शिष्टाचार के कारण अनादि सम्बन्ध है । वस्तुतः एकार्थक मानने पर भी व्युत्पत्ति के आधार पर इन शब्दों के द्वारा

Page 638Permalink

५८४ मीमांसादर्शनम् [ सू० प्रतीत अर्थ में भेद ही दृष्टिगोचर होता है। क्योंकि हस्त शब्द का अनेक उपयोग होता है। निरुक्त के अनुसार 'हस्तो हन्तेः' (नि० १।६) इस व्युत्पत्ति से प्राप्ति या हिंसा के उपयोग में ही हस्त शब्द का प्रयोग साधु है, कर शब्द कृधातु से करोति इति कर व्युत्पत्ति के अनुसार सामान्य क्रिया अर्थ में साधु है । इसी प्रकार पूजा आदि शुभ कर्म सम्पादन में ही पाणि शब्द का प्रयोग साधु है, क्योंकि पूजार्थक पण् धातु से यह प्रयोग निष्पन्न होता है । 'पाणिः पणायतेः पूजा कर्मणः, प्रगृह्य पाणी देवान् पूजयन्ति' (नि० २।२६) के अनुसार इसी अर्थ की प्रतीति इस शब्द से होती है। अतः कोई भी शब्द अपर पर्याय नहीं है। क्रिया भेद से भिन्न-भिन्न अर्थ के अनुसार शब्द का प्रयोग होता है। 'अन्यायः' = अन्याय या अनुचित है। 'च' = क्योंकि, 'अनेक शब्दत्वम्' = अनेक शब्द वाच्यता । एक ही अर्थ की अनेक शब्द वाच्यता अनुचित अर्थात् एक अर्थ का अनेक शब्द को वाचक मानना उचित नहीं है ॥ २६ ॥ तत्र तत्त्वमभियोगविशेषात्स्यात् ॥ २७ ॥ शा० भा०-कथं पुनस्तत्र१ तत्त्वं शक्यं विज्ञातुम् ? शक्यमित्याह२ । अर्थिनो ह्यभियुक्ता भवन्ति । दृश्यते चाभियुक्तानां गुण्यतामविस्मरणमुपपन्नम् । प्रत्यक्षं चैतद् गुण्यमानं न भ्रश्यत इति । तस्माद् यमभियुक्ता उपदिशन्त्येष एव साधुरिति, साधुरित्यवगन्तव्यः३ ॥२७॥ आशङ्कानिरासः ॥ भा० वि०-सूत्रव्यावर्त्यां शङ्कामाह-किं पुनरिति । माभूवन् सर्वेऽनादयः तथाप्ययमेवैकस्साधुरितरेऽसाधव इति, तेषु तत्त्वं न शक्यते ज्ञातुम्, नियामका- भावादित्यर्थः, उत्तरत्वेन सूत्रमवतारयति-शक्यमित्याहेति । तद्व्याचष्टे- अर्थिन इति । अर्थिनो=दृष्टार्थिनः । तदनेनादृष्टार्थसाधुप्रयोगनियमप्रतिपादकवेद- दर्शित्वमुक्तम्, अभियोगो=लक्षणात्मकव्याकरणशास्त्राभ्यासः, तद्वन्तोऽभियुक्ताः, तेन च व्याकरणाभ्यासानुगृहीतमयमेव साधुरितरेऽपभ्रंशा इति यत् प्रत्यक्षं तद्वत्त्वमुक्तम् । ननु यद्यर्थिनोऽभियुक्ता भवन्ति, तथाप्यभियोगस्य प्रमुषितत्वसंभवात् न तत्सहकृतं प्रत्यक्षं साधुत्त्वादिग्रहणाय पर्याप्तम् । अत्राह-दृश्यते चेति । गुणो गुणनमावर्तनं तद्वतामविच्छिन्नाभ्यासानामियुक्तं भवति, अनेन सौत्रं विशेषपदं व्याख्यातम्, अविच्छिन्नाभ्यासप्रमोषाभावरूपं अविस्मरणमेवोपपन्नं पश्याम इत्यर्थः, प्रत्यक्षं चातिशयेनावर्त्यमानस्य स्वाध्यायादेरविस्मरणमित्याह-प्रत्यक्षं १ ब. पुनरत्र । २ ब. इतःपरं 'तस्माद् य' इत्यन्तं नास्ति । ३ ब. साधुरवगन्तव्यः ।

Page 639Permalink

२८ ] प्रथमाध्याये तृतीयपादः। ५८५ चेति । तेन पूर्वपूर्वस्मृत्यनुगृहीतप्रत्यक्षमूलत्वाद्वेद मूलत्वाच्चोत्तरोत्तराभियुक्तस्मृतेः प्रामाण्यात् तद्बलादेव नियमद्वयसिद्धिरित्याशयः । भवतु प्रयोगनियमविषयायाः श्रुतेः श्रुतिमूलत्वेन प्रामाण्यम्, साधुस्वरूपनियमविषयायास्त्वसन्मूलाया विप्र- लम्भादिमूलत्वसंभवात् कथं प्रामाण्यमत आह—दृश्यते चेति । अभियुक्तत्वम्, यथार्थदर्शित्वम्, गुणवत्त्वं यथादृष्टार्थवादित्वमुपपन्नं प्रमाणमिति यावत् । ननु प्रमुषितव्याकरणस्य स्मरणमप्रमाणमपि भविष्यति तत्राह—प्रत्यक्षं चैतदिति । गुण्यमानमावर्तमानमित्यर्थः, समूलत्वेनोपसंहरति-तस्मादिति ॥२७॥ तदशक्तिश्चानुरूपत्वात् ॥ २८ ॥ शा० भा०—अथ यदुक्तम्-अर्थोऽवगम्यते गाव्यादिभ्यः, अत एषामप्यनादि- रर्थेन सम्बन्ध इति । तदशक्तिरेषां गम्यते । गोशब्दमुच्चारयितुकामेन केनचिद- शक्त्या गावीत्युच्चारितम् । अपरेण ज्ञातं सास्नादिमानस्य विवक्षितः तदर्थं गौरित्युच्चारयितुकामो गावीत्युच्चारयति । ततः शिक्षित्वाऽपरेऽपि सास्नादि- मति विवक्षिते गावीत्युच्चारयन्ति । तेन गावादिभ्यः सास्नादिमानवगम्यते । अनुरूपो हि गाव्यादिर्गोशब्दस्य ॥ २८ ॥ उत्तरम् । भा० वि०—शङ्कोत्तरत्वेन सूत्रं व्याख्यातुं शङ्कामनुवदति—अथेति । गाव्या- दिभ्य एवेत्यर्थः । भवतु गृहीतगोशब्दवाचकत्वस्य श्रुतगावीशब्दसादृश्यावगत- गोशब्दादेवार्थप्रत्ययः, यस्तु गाव्यादिभ्य एवार्थं प्रत्येति, तं प्रति तेषामेव वाचकत्वमाश्रयणीयमिति भावः । तत्प्रतिपत्तिप्रकारं दर्शयितुं सूत्रावयवं व्याचष्टे- तदशक्तिरिति । प्रयोज्यवृद्धस्तावत् उत्तमवृद्धप्रयुक्तगावीशब्दसादृश्यात् गोशब्द- मवगम्य तद्विवक्षां चास्यानुमाय देवदत्तपदविवक्षायां तत्तत्पदप्रयोगाद् देवदत्तपद- प्रयोगशक्तित्वात् गावीपदप्रयोगात् गोपदप्रयोगशक्तिमुत्तमवृद्धस्यावगच्छतीत्यर्थः । एतद्विवृणोति—गोशब्दमिति । केनचिदुत्तमवृद्धेनोच्चारयतीत्यस्यानन्तरमितिशब्द- मध्याहृत्यापरेण मध्यमवृद्धेन ज्ञातमिति सम्बन्धनीयम् । तेन तस्य तावद्विवक्षा- विषयत्वेनानुमितात् गोशब्दादेवार्थप्रत्ययः, इति पूर्वोक्तानुवादः, अस्तु गृहीत- गोशब्दवाचकत्वस्य मध्यमवृद्धस्यैवम्, इतरेषां तु कथम् ? अत आह—तत इति । मध्यमवृद्धाच्छिक्षित्वा व्युत्पद्यते अपरोऽपि बालोऽपीत्यर्थः, यद्यपि मूलशब्दानु- सारेणैव सास्नादिमति प्रयोज्यवृद्धप्रत्ययः, तथापि तत्प्रत्ययस्य व्यवहारानुमितस्य गाव्यादिविकारशब्दान्वयव्यतिरेकित्वाद्विकारशब्दाशकिजत्वाज्ञानाच्च, तज्जन्य- त्वमाकलयन्तो बालास्तत्रैव गाव्यादिशब्दसामर्थ्यं कल्पयन्ति, तत॒ स्वयमपि प्रयोगसमये सास्नादिमति विवक्षिते गावीत्येवोच्चारयन्ति, एवमन्येऽपी- त्यपभ्रष्टैरेव गाव्यादिभिस्सास्नादिमानर्थोऽवगम्यते, न तु वाचकैरेवेत्यर्थः ।

Page 640Permalink

५८६ मीमांसादर्शनम् [ सू० नन्वेवमश्वमानयेत्युत्तमवृद्धप्रयुक्तादश्वशब्दादपि गोशब्दमवगम्य सास्नादिमति प्रवृत्तावश्वशब्दस्यापि तत्र व्युत्पत्तिप्रसङ्ग इत्याशङ्क्यानुरूपत्वादिति सूत्रावयवं व्याचष्टे—अनुरूपो हीति । न शब्दमात्राद् गोशब्दावगतिः किन्तु सदृशादेव गाव्यादेरित्यर्थः इति भावः ॥ २८ ॥ एकदेशत्वाच्च विभक्तिव्यत्यये स्यात् ॥ २९ ॥ शा० भा०—अत एव हि विभक्तिव्यत्ययेऽपि प्रत्ययो भवति । अश्मकैरा- गच्छामीत्यश्मकशब्दैकदेश उपलब्धे, अश्मकेभ्य इत्येष शब्दः स्मर्यते । ततोऽस्म- केभ्य इत्येषोऽर्थ॑. उपलभ्यत इति । एवं गाव्यादिदर्शनाद् गोशब्दस्मरणम्², ततः सास्नादिमानवगम्यते ॥ २९ ॥ उत्तरे युक्तिः । ॥ इत्यष्टमं व्याकरणाधिकरणम् ॥ भा० वि०—गाव्यादिशब्दस्य साधुशब्दस्मारेणनार्थप्रत्यायकत्वं दृष्टान्तेन दर्शयितुं विभक्तिव्यत्यये प्रत्ययः स्यादिति सूत्रावयवं व्याचष्टे—अत एवेति । यतस्सदृशशब्ददर्शनात्सदृशान्तरे बुद्धिरुपपन्ना । अत एवेत्यर्थः, क्वैवं भवतीत्य- त्राह—अश्मकैरिति । कथमश्मकैरित्यस्मादश्मकेभ्य इत्यस्य विरूपस्य स्मरण- मित्याशङ्क्यैकदेशादिति सूत्रावयवो व्याख्यातः । अश्मकशब्दैकदेश उपलब्ध इति, इदानीं स्मृताच्छब्दात् तदर्थावगतिमाह–तत इति । दृष्टान्तनिविष्टमर्थं दार्ष्टान्तिके योजयति—एवमिति । तेन गाव्यादिशब्दस्मृतानां गवादिशब्दानामेव वाचकत्वा- तेषामेव सास्नादिमति साधुत्वम्, न गाव्यादीनामिति युक्ता शब्देषु व्यवस्थे- त्याशयः ॥ २९ ॥ त० वा०—तुल्यप्रयोगप्रतिपत्तीनामन्यतरावधारणमशक्यमिति चेत् ? अत आह—तत्र तत्त्वमभियोगविशेषात्स्यादिति । कः पुनरभियोगः ? को वा तद्विशेषः ? कथं वा तेन वाचकत्वनिरूपणमिति ? तदुच्यते—लक्षणश्रवणाभ्यासादभियोगः प्रवर्तते । तेन लक्ष्यान्तरज्ञानं तद्विशेषोऽभिधीयते ॥ ८६० प्रतिपदपाठो ह्यानन्त्यादत्यन्ताशक्यः तदभावे च लक्षणानुसरणमेवैकमशेष- लक्ष्यनिरूपणक्षमत्वेनावधार्यते । तस्मान्न लोकवेदाभ्यां कश्चिद् व्याकरणादृते । वाचकाननपभ्रष्टान्न्यथावज्ज्ञातुमर्हति ॥ ८६१ १ ब. इत्यर्थोऽवम्यते । २ ब. गाव्यादि शब्ददर्शनाद्रो ।

Page 641Permalink

२९ ] प्रथमाध्याये तृतीयपादः ५८७ तत्सामस्त्यापरिज्ञाने पारिशेष्यानिरूपणात् । अर्थापत्त्याऽपशब्दानां निश्चयो नोपपद्यते ॥ ८६२ लक्षणानुगमाद्यांस्तु बहिरेव प्रयुञ्जते । नियतप्रतिपक्षत्वात्तेष्वर्थापत्तिसंभवः ॥ ८६३ तेनोभयज्ञानस्यापि व्याकरणमेवोपाय इति, तद्गताभियोगविशेषाश्रयणम् । यत्तु प्रयोगोत्पत्तिशास्त्रत्वादिति लक्षणे तन्मूलासंभवादितरेतराश्रयत्वमुक्तम्, तत् लोकव्यवहारप्रसिद्धप्रतिपादकत्वमात्रेणाऽनिर्णीतपारमार्थिकवाचकत्वैरपि व्याकरणावयवभूतैः पदैः केषांचित्साधुत्वमन्वाख्याय, पुनस्तैरप्यन्वाख्यापकशब्द- साधुत्वनिर्णयात्परिहरिष्यते । यदि वाचकतेवाऽऽदौ न स्याद्व्याकरणादृते । न विज्ञायेत वा तत्र भवेदन्योन्यसंश्रयम् ॥ ८६४ विज्ञाते वाचकत्वेऽपि तदपभ्रंशसंकरात् । विवेकप्रतिपत्त्यर्थमिष्टा च व्याक्रिया स्मृतिः ॥ ८६५ तेन संकीर्णासंकीर्णवाचकज्ञानोपायत्वाल्लोकव्याकरणयोर्भिन्नविषयत्वेनाऽ- पुनरुक्तता, वेदे साधुशब्दमात्रदर्शनादनर्थकं व्याकरणमित चेत् ? न । अकृत्स्न- विषयत्वात् । केचिद्व्यवस्थिता एव साधवो लोकवेदयोः । सर्वशाखागतान्विद्यात्को वा साधारणानपि ॥ ८६६ यथैव लौकिकप्रतिपदपाठस्याशक्यत्वम् एवं वेदेऽपि सर्वशाखागतानसकृदपि श्रोतुमशक्तिः, किमुताध्येतुम् । प्रकृतिप्रत्ययानन्त्याद्यावन्तः पदराशयः । लक्षणेनानुगम्यन्ते कस्तानध्येतुमर्हति ॥ ८६७ एतेन पुरुषार्थक्रत्वर्थादृष्टसाधुशब्दप्रयोगज्ञानसाध्यसाधनभावविधिवाक्यगत- पदव्याक्रिया, तस्याश्च पूर्वप्रसिद्धतन्मूलत्वकल्पनागतेतरेतराश्रयत्वप्रसङ्ग प्रत्युक्तः । यदि ह्येकान्तेन 'तस्मान्न ब्राह्मणेन म्लेच्छितवै' 'एकः शब्दः सम्यग्ज्ञातः सुप्रयुक्तः शास्त्रान्वितः स्वर्गे लोके कामधुग्भवति' 'तस्मादेषा व्याकृता वागुद्यते' इति चैवमादिक्रतुपुरुषगतनियमविधिदर्शनोत्तरकालमेव व्याकरणेन प्रवर्तितव्यमिति पौर्वापर्यव्यवस्था भवेत्, तत एवं पर्यनुयोगः प्रसज्येतापि व्याकृतत्वाश्रयो वेदविधिः, वेदविध्याश्रयं च व्याकरणं कथमवकल्पिष्यत इति ? यदा तु किंचिद- ग्रन्थोपनिबद्धप्रकृतिप्रत्ययादिविभागद्वारप्रक्रियात्मकव्याकरणस्मृतिवर्जितकाला - भावादन्वाख्यानानन्वाख्येयान्वाख्यातविधिप्रयोगानन्वाख्यातप्रतिषेधवर्जनषट्कस्या-

Page 642Permalink

५८८ मीमांसादर्शनम् [ सू० ॰प्यवगम्यमानवेदविधिमूलत्वादनादित्वे सति, सर्वेषां वेदवेदि १यूपा हवनीयाध्वर्युगो- दोहनादिस्वरूप-तत्कार्य-तत्साधनविधीनामिव सर्वदाऽनवगतपूर्वापरविभागसम्बन्धेऽ- त्यन्तादृष्टार्थत्वमेव केवलं शास्त्रप्रत्ययाधीनम्, तदा सर्वकालव्याक्रियमाणविद्यमान- शब्दनियमविधेर्न किंचिदनुपपन्नम् । यत्तु वाचकत्वावाचकत्वव्यतिरिक्तसाध्वसाधुताभावाद्वाचकावाचकत्वयोश्च लौकिकप्रयोगप्रतिपत्तितद्विपर्ययमात्रशरणत्वाद् गाव्यादिशब्दानामवाचकत्वप्रतिज्ञाने लोकविरोधान्न भेर्यादिशब्दमातृकाक्षरपाठप्रसिद्धन्यूनातिरिक्तविपर्यस्तवर्णपदव्यति- रिक्तप्रसिद्धमध्ये कश्चिदपशब्दो नामास्तीति । तत्राभिधीयते— संमुग्धवाचके लोके लक्षणाद्वाचकः स्फुटः । गम्यते स्मरणं चोक्तमाचाराद्बलवत्तरम् ॥ ८६८ लोकव्याकरणाभ्यां हि मिश्राभ्यामविप्लुतवाचकसिद्धिरिति, तावदेव लोक- व्यवहाराद्वाचकत्वज्ञानं जायते, यावद्व्याकरणानुगतत्वं नाभ्युपगम्यते । यदा तु तयोर्मार्गभेदेन प्रतिपत्तिः तदा 'तेष्वदर्शनाद्विरोधस्य समा विप्रतिपत्तिः स्यात् १-३-८' इत्युपन्यस्य 'शास्त्रस्था वा तन्निमित्तत्वात् १-३-९' इत्यने- नैवोत्तरेण व्याकरणाख्यशास्त्रगतप्रतिपत्तिबलीयस्त्वम्, तदभियुक्तपुरुषबलीयस्त्वं वापूर्वमेव स्थापितम् । तर्केणावाचकत्वं च वदल्लोकेन बाध्यते । स्मर्यमाणविरोधस्तु ब्राह्मणाब्राह्मणादिवत् ॥ ८६९ यथैव तुल्यशिरः पाण्याद्याकारेष्वपि संकीर्णलोकदृष्टिग्राह्येषु ब्राह्मणादिषु मातापितृसम्बन्धस्मरणादेव वर्णविवेकावधारणं भवति, तथा साधुशब्दावधारण- मपीतिलोकविरोधाभावः । यथा च तुल्यपाण्यादिरूपत्वाद्वर्णसंकरम् । वदतः स्मृतिबाधः स्यात्तथा वाचकसंकरम् ॥ ८७० आदितश्च स्मृतेः सिद्धः प्रत्यक्षेणापि गम्यते । साध्वसाधुविभागोऽयं कुशलैर्वर्णभेदवत् ॥ ८७१ यो नाम स्मृतिप्रतिपादितोऽर्थः कर्मफलसम्बन्धवदनियतकालत्वान्न ज्ञायते, कदा भविष्यतीति, सोऽत्यन्तं प्रत्यक्षाद्यविषयत्वात्केवलशास्त्रमूलत्वेन स्थाप्यते। यस्य त्वादौ स्मरणजनितविवेके कृते तदनन्तरमेव प्रत्यक्षमपि विचाराभ्यास- १ क. वेदी ।