पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
by पण्डित विष्णु शर्मा
Source: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (origin)
Page 237 of 536
Read in context( २२२ ) पञ्चतन्त्रम् ।
किं बहुना- बहुत कहनेसे क्या है- प्रीतिं निरन्तरां कृत्वा दुर्भेद्यां नखमांसवत् । मूषको वायसश्चैव गतौ कृत्रिममित्रताम् ॥ ५६ ॥ दुर्भेद्य नख मांसकी समान निरन्तर प्रीति कर देखो मूषक और वायस कृत्रिम मित्रताको प्राप्त हुए ॥ ५६ ॥ एवं स मूषकस्तदुपकाररञ्जितः तथा विश्वस्तो यथा तस्य पक्षमध्ये प्रविष्टः तेन सह सर्वदैव गोष्ठीं करोति । अथ अन्य- स्मिन्नहनि वायसोऽश्रुपूर्णनयनः समभ्येत्य सगद्गदं तमुवाच,- “भद्र हिरण्यक ! विरक्तिः सञ्जाता मे सांप्रतं देशस्य अस्य उपरि, तदन्यत्र यास्यामि”। हिरण्यक आह,-“भद्र ! किं विरक्तेः कारणम् ?” स आह,-“भद्र ! श्रूयताम् । अत्र देशे महत्या अनावृष्ट्या दुर्भिक्षं सञ्जातम् । दुर्भिक्षत्वात् जनो बुभुक्षापीडितः कोऽपि बलिमात्रमपि न प्रयच्छति । अपरं गृहे गृहे बुभुक्षितजनैः विहङ्गानां बन्धनाथ पाशाः प्रगुणी- कृताः सन्ति । अहमपि आयुःशेषतया पाशेन बद्ध उद्धरितो- ऽस्मि । एतद्विरक्तेः कारणम्। तेनाहं विदेशं चलित इति बा- ष्पमोक्षं करोमि”। हिरण्यक आह-“अथ भवान् क प्रस्थितः?” स आह,-“अस्ति दक्षिणापथे वनगहनमध्ये महासरः तत्र त्वत्तोऽधिकः परमसुहृत् कूर्मो मन्थरो नाम । स च मे मत्स्यमांसखण्डानि दास्यति, तद्भक्षणात् तेन सह सुभा- षितगोष्ठीसुखमनुभवन् सुखेन कालं नेष्यामि । न अहमत्र विहङ्गानां पाशबन्धनेन क्षयं द्रष्टुमिच्छामि । उक्तञ्च- इसप्रकार वह मूषक उसके उपकारसे रंजित हुआ ऐसे विश्वासको प्राप्त हुआ कि, उसके सहित सदा गोष्ठी करता। फिर किसी एक दिन काक आंखोंमें आंसूभरे उसके निकट आय गद्गद स्वरसे उससे बोला,-“भद्र हिरण्यक ! इस देशपर अब मुझे वैराग्य हुआहै सो और स्थानमें जाऊंगा”, हिरण्यक बोला,-“भद्र ! वैराग्यका कारण क्याहै ?” वह बोला,-“भद्र ! सुनो इस देशमें बड़ी अना-