BharatKosha
पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

by पण्डित विष्णु शर्मा

Source: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (origin)

DevanagariHindipublished536 pages

Page 382 of 536

Read in context
Page 382

भाषाटीकासमेतम् । ( ३६७ ) अतोऽहमेनां सदृशाय प्रयच्छामि न अन्यस्मै । उक्तञ्च- सो मैं इसको समानके लिये दूंगा न और किसीको । कहा है- ययोरेव समं वित्तं ययोरेव समं कुलम् । तयोर्विवाहः सख्यं च न तु पुष्टविपुष्टयोः ॥ २१९ ॥ जिन दोनोंका समान धन और जिन दोनोंका समान कुलहो उन्हींका विवाह और मित्रभाव होना चाहिये धनी निर्धनीका नहीं ॥ २१९ ॥ तथाच- और देखो- कुलञ्च शीलञ्च सनाथता च विद्या च वित्तञ्च वपुर्वयश्च । एतान्गुणान्सप्त विचिन्त्य देया कन्या बुधैः शेषमचिन्तनीयम् ॥ २२० ॥ कुल, शील ( चरित्र ), सनाथता ( सहाय ), विद्या, धन, शरीर, अवस्था यह सात गुण विचार कर बुद्धिमान्को कन्या देनी चाहिये इसके उपरान्त भवि- तव्यका विचार न करे ॥ २२० ॥ तत् यदि अस्या रोचते तदा भगवन्तमादित्यमाहूय तस्मै प्रयच्छामि" । सा प्राह,-"इह को दोषः ? क्रियतामे- तत्" । अथ मुनिना रविराहूतः । वेदमन्त्रामन्त्रणप्रभावात् तत्क्षणादेवाभ्युपगम्यादित्यः प्रोवाच,-"भगवन् ! किमहमा- हूतः ?" सोऽब्रवीत्,-" एषा मदीया कन्यका तिष्ठति । यदि एषा त्वां वृणोति तर्हि उद्वहस्व" इति । एवमुक्ता स्वदुहितर- मुवाच,-"पुत्रि ! किं तव रोचते एष भगवान् त्रैलोक्यदीपको भानुः ?" पुत्रिका अब्रवीत्,-"तात ! अतिदहनात्माकोऽयं न अहमेनमभिलषामि । तस्मात् अन्यः प्रकृष्टतरः कश्चित आहूयताम्" । अथ तस्याः तद्वचनं श्रुत्वा मुनिः भास्कर- मुवाच,-"भगवन् ! त्वत्तोऽधिकोऽस्ति कश्चित् ?" भास्करः प्राह,-"अस्ति मत्तोऽपि अधिको मेघो येन आच्छादितोऽ-