BharatKosha
पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

by पण्डित विष्णु शर्मा

Source: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (origin)

DevanagariHindipublished536 pages

Page 84 of 536

Read in context
Page 84

भाषाटीकासमेतम् ! ( ६९ ) सा अब्रवीत्- "यदि एवं तर्हि कथय कथं दृढबन्धनबद्धा सती तत्र गच्छामि ?। सन्निहितश्चार्य पापात्मा मत्पतिः" । नापिंती आह- "सखि ! मद्विह्वलोऽयं सूर्य्यकरस्पृष्टः प्रबोधं यास्यति । तदहं त्वामुन्मोचयामि । मामात्मस्थाने बद्ध्वा द्रुततरं देवदत्तं सम्भाव्य आगच्छ" । सा अब्रवीत्- "एव- मस्तु" इति । तदनु सा नापिती तां स्वसखीं बन्धनाद्वि- मोच्य तस्याः स्थाने यथापूर्वमात्मानं बद्ध्वा तां देवदत्तसकाशे सङ्केतस्थानं प्रेषितवती । तथाऽनुष्ठिते कौलिकः कस्मिंश्चि- त्क्षणे समुत्थाय किञ्चिद्गतकोपो विमदस्तामाह,- "हे परु- षवादिनि ! यदि अद्यप्रभृति गृहान्निष्क्रमणं न करोषि न च परुषं वदसि ततः त्वामुन्मोचयामि" । नापिती अपि स्वरभेदभयात् यावन्न किञ्चित् ऊचे तावत् सोऽपि भूयोभूयस्तां तदेव आह । अथ सा यावत् प्रत्युत्तरं किमपि न ददौ तावत् स प्रकुपितस्तीक्ष्णशस्त्रमादाय नासिकामच्छिनत् आह च-"रे पुंश्चलि ! तिष्ठ इदानीं न त्वां भूयस्तोषयिष्यामि"इति जल्पन् पुनरपि निद्रावशमग- मत् । देवशर्मा अपि वित्तनाशात् क्षुत्क्षामकण्ठो नष्टनिद्र- स्तत्सर्वं स्त्रीचरित्रमपश्यत् । सापि कौलिकभार्य्या यथेच्छया देवदत्तेन सह सुरतसुखमनुभूय कस्मिंश्चित् क्षणे स्वगृहमा- गत्य तां नापितीमिदमाह- "अयि ! शिवं भवत्याः । नायं पापात्मा मम गताया उत्थितः?" । नापिती आह- "शिवं नासिकया विना शेषस्य शरीरस्य । तद् द्रुतं मां मोचय बन्धनात्, यावन्नायं मां पश्यति येन स्वगृहं गच्छामि" । तथा अनुष्ठिते भूयोऽपि कौलिक उत्थाय तामाह-"पुंश्चलि ! किमद्यापि न वदसि । किं भूयोऽप्यतो दुष्टतरं निग्रहं कर्ण- च्छेदेन करोमि" । अथ सा सकोपं साक्षेपमिदमाह- "धिक् धिक् महामूढ ! को मां महासतीं धर्षयितुं व्यंग- यितुं वा समर्थः । तत् शृण्वन्तु सर्वेऽपि लोकपालाः ।