BharatKosha
फलदीपिका (मन्त्रेश्वर दैवज्ञ - सम्पूर्ण २८ अध्याय, भाव-विचार, दशा-फल एवं गोचर सटीक)

फलदीपिका (मन्त्रेश्वर दैवज्ञ - सम्पूर्ण २८ अध्याय, भाव-विचार, दशा-फल एवं गोचर सटीक)

Phaladeepika of Mantreshwara Daivajna with Commentary

by मन्त्रेश्वर दैवज्ञ (टीकाकार: पं. सूर्यनारायण व्यास)

DevanagariHindipublished684 pages

Page 219 of 684

Read in context
Page 219

२१८ फलदीपिका द्वन्द्वर्क्षांशे मदपतिसितौ तस्य जायाद्वयं स्यात् ताभ्यां युक्तैर्गगननिलयैर्दारसंख्यां वदन्तु ॥५॥ स्त्रीसंख्यां मदगैर्ग्रहैमृतिमसत्खेटैश्च सद्भिः स्थितिं द्यूनेशे सबले शुभे सति वधूः साध्वी सुपुत्रान्विता । पापोऽपि स्वगृहं गतः शुभकरः पत्न्याश्च कामस्थिता हित्वा षड्व्ययरन्ध्रपान्मदनगाः सौम्यास्तु सौख्यावहाः ॥६॥ भार्यानाशस्त्वशुभसहितौ वीक्षितौ वार्थकामौ तत्र प्राहुस्त्वशुभफलदां क्रूरदृष्टिं विशेषात् । एवं पत्न्या अपि सति मदे चाष्टमे वास्ति दोषः

  • सौम्यैर्दृष्टे सति शुभयुते दंपती भाग्यवन्तौ ॥७॥ चन्द्रे समन्दे मदगे पुनर्भूः पतिर्भवेद्वाप्यसुतो विदारः । नीचारिभस्थैरशुभैर्मदे स्त्री- पुंसोर्मृतिः स्यान्निधने धने वा ॥८॥ लग्नात्कलत्रभवने समराशिसंज्ञे भावाधिपेऽपि च तथैव गतेऽसुरेज्ये । सूर्याभितप्तरहते सुतदारनाथे वीर्यान्विते तु जननं ससुतं कलत्रम् ॥६॥ कुटुम्बदारव्ययराशिनाथा जीवेक्षिताः कोणचतुष्टयस्थाः । दारेश्वराद्वित्तकलत्रलाभे सौम्याः कलत्रं ससुतं सुखाढ्यम् ॥१०॥
फलदीपिका (मन्त्रेश्वर दैवज्ञ - सम्पूर्ण २८ अध्याय, भाव-विचार, दशा-फल एवं गोचर सटीक) · Page 219 of 684 · BharatKosha