BharatKosha
प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)

प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)

Pratimanatakam of Mahakavi Bhasa with Commentary

by महाकवि भास

DevanagariHindipublished178 pages

Page 109 of 178

Read in context
Page 109

( १०६ ) सुमन्त्र—कुमार, और क्या ? मैं सुमन्त्र ही हूं । दीर्घकाल-जीविता ने मुझ मे अनेक बुराइयाँ ला दी। कृतघ्नता ने मेरा उपहास किया, और अब मै राजा दशरथ के मर जाने पर उनके सूने रथ का सारथि होकर जी रहा हूं । (१५) (६) मूल भरतः—हा तात ! (उत्थाय) तात ! अभिवादनक्रममुपदेष्टुमिच्छामि मातृणाम् । सुमन्त्रः—बाढम् । इयं तत्रभवतो रामस्य जननी देवी कौसल्या । भरतः—अम्ब ! अनपराधोऽहमभिवादये । कौसल्या—जात ! निःसन्तापो भव । भरतः—(आत्मगतम्) आकृष्ट इवास्म्यनेन । (प्रकाशम्) अनु- गृहीतोऽस्मि । ततस्तत । सुमन्त्रः—इयं तत्रभवतो लक्ष्मणस्य जननी देवी सुमित्रा । भरतः—अम्ब ! लक्ष्मणेनातिसन्धितोऽहमभिवादये । सुमित्रा—जात ! यशोभागी भव । भरतः—अम्ब ! इद प्रयतिष्ये । अनुगृहीतोऽस्मि । ततस्ततः । सुमन्त्रः—इयं ते जननी । भरतः—(सरोषमुत्थाय) आः पापे ! मम मातुश्च मातुश्च मध्यस्था त्वं न शोभसे । गङ्गायमुनयोर्मध्ये कुनदीव प्रवेशिता ॥ (१६) कैकेयी—जात ! किं मया कृतम् ? भरतः—किं कृतमिति वदसि ? वयमयशसा चीरेणार्यो नृपो गृहमृत्युना , प्रततरुदितैः कृत्स्नायोध्या मृगैः सह लक्ष्मणः । दयिततनयाः शोकेनाम्बाः स्नुषाध्वपरिश्रमे धिगिति वचसा चोग्रेणात्मा त्वया ननु योजिताः ॥ (१७) कौसल्या—जात ! सर्वसमुदाचारमध्यस्थः किं न वन्दसे मातरम् ? भरतः—मातरमिति । अम्ब ! त्वमेव मे माता । अम्ब ! अभिवादये ।