BharatKosha
प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)

प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)

Pratimanatakam of Mahakavi Bhasa with Commentary

by महाकवि भास

DevanagariHindipublished178 pages

Page 39 of 178

Read in context
Page 39

प्रतिमा नाटकम् प्रथम अंक (१) मूल (नान्द्यन्ते ततः प्रविशति सूत्रधारः ) सूत्रधारः—सीताभवः पातु सुमन्त्रतुष्टः सुग्रीवरामः सहलक्ष्मणश्च । यो रावणार्थप्रतिमश्च देव्या विभीषणात्मा भरतोऽनुसर्गम् ॥ (१) (नेपथ्याभिमुखम् अवलोक्य) आर्ये ! इतस्तावत् । (प्रविश्य) नटी—आर्य ! इयमस्मि । सूत्रधारः—आर्ये ! इममेवेदानीं शरत्कालमधिकृत्य गीयतां तावत् । नटी—आय ! तथा । (गायति) सूत्रधारः—अस्मिन् हि काले, चरति पुलिनेषु हंसी काशांशुकवासिनी सुसंहृष्टा । (नेपथ्ये) आर्य ! आर्य ! (आकर्ण्य) सूत्रधारः— भवतु, विज्ञातम् । मुदिता नरेन्द्रभवने त्वरिता प्रतिहाररक्षीव ॥ (२) (निष्क्रान्तौ) स्थापना । शब्दार्थ—नान्द्यन्ते=मंगलाचरण के अन्त मे । सीताभवः = सीता आनन्ददाता । पातु = रक्षा करें । सुमन्त्रतुष्टः = अच्छे मन्त्र के पक्षपाती