पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
by श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य)
Page 354 of 1267
Read in context[ अधि - ८. सू - ३०. ] दीपिकासहितम्. ३०७ ऋषीणां नामधेयानि याश्च वेदेषु दृष्टयः ॥ वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः ॥ देवो मयोक्तः, अतः परमेनं वक्ष्यामीति विमृश्य वृत्तिः सम्भवतीत्य तः प्राप्तः स्मृतेरित्यंश इत्याशयेन तां दर्शयति—अनादीति ॥ नित्य त्वोक्तेरुपचरितत्ववारणाय—अनादिनिधनेत्युक्तम् । अतो न पौनरु क्त्यम् । अत एव तत्त्वप्रदीपे अनादिनिधनत्वेन नित्या, न त्वनिधन त्वमात्रेणेत्युक्तम् । बहुकालीनत्वेन वेत्यपि द्रष्टव्यम् । वेदेष्वित्यनन्तर मुक्ता इति शेषः । निर्ममे इत्यस्यावृत्तिः । तथेति शेषः । तेनाप्येवशब्द स्यान्वयः । तथा च ‘आदौ’ सृष्टिकाले ‘स्वयम्भुवा’ स्वतन्त्रेण म हेश्वरेण विष्णुना ‘अनादिनिधना नित्या’ आद्यन्तशून्यतयैव नित्या, न तूपचारेण बहुकालीनतामात्रेणानिधनत्वमात्रेण नित्या । या ‘वा क्’ वेदरूपा ‘उत्सृष्टा’ उच्चारिता । ‘तद्वेदशब्देभ्यः’ वेदगतेभ्यः ते भ्यः शब्देभ्य एव, नान्येभ्यः, ‘सः’ महेश्वरो विष्णुः ‘ऋषीणां’ ब्र ह्मादिविबुधानां ‘नामधेयानि निर्ममे’ तानेव शब्दान् तेषु सङ्केतितवा न् प्रतिकल्पमयं शब्दोऽत्र शक्त इति ज्ञापितवान् । ‘याश्च’ ऋषीणां देवानां वेदोक्ताः दृश्यन्ते इति दृष्टयो रूपाणि, ताश्च तानि च तथैव पूर्वकल्पीयरूपसादृश्येनैव निर्ममे इति स्मृत्यर्थः । चः समुच्चये । दर्श नस्मृतेरित्यनयोः समानरूपत्वादित्यनेनान्वयः । आगमोपलक्षकं चैतत् । तथा च नासिद्धिरिति भावः । अनेन—प्राचीनानां देवानां मुक्त्या पुनः स्वपदेष्ववृत्तावपि तदन्येषां तत्र वृत्तावपि न तद्वाचके एकविधेऽपि शब्देऽप्रामाण्याख्यो विरोधः । कुतः ? प्राचीनानां तदन्ये ष्यां चान्योन्यं ‘समाननामरूपत्वात्’ तद्योग्यकर्मधर्मवत्त्वाच्च । न च हे त्वसिद्धिः । ‘दर्शनात्’ ‘यथा पूर्वम्’ इति श्रुतेः ‘अनादिनिधना’ इति स्मृतेश्चेति सूत्रार्थ उक्तो भवति । अत्र तत्त्वप्रदीपे प्रलये कस्या पि देवस्याभावेन तदा वेदस्य वाच्यहीनत्वरूपाप्रामाण्यमाशङ्क्य भ गवन्मात्रविषयत्वेन तदुपपत्तिरिति समाधानमभिप्रेत्य ‘शब्दे’ इत्या दिसूत्राणि भगवत्परतया व्याख्यातानि । तथा हि—न शब्दे कदाऽपि वाच्यहीनत्वकृतो विरोधः अप्रामाण्यम् । कुतः ? मुख्यवाच्यस्य वि ष्णोः सर्वदा विद्यमानत्वात् । कुत एतत् ? ‘अत एव’ शब्दात्तेषां देवानां प्रभवनियमादिकर्तुरपीशस्य सदा सत्त्वावगमात् । प्रत्यक्षश्चासौ महता म् । कुतः ? ‘अत एव’ ‘पुरुषमीहते’ ‘कवयो वयन्ति’ (महाना. १-३०) इत्या