BharatKosha
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

by श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य)

DevanagariHindipublished1,267 pages

Page 48 of 1267

Read in context
Page 48

॥ श्रीगुरुभ्यो नमः ॥ ॥ ॐ ॥ ॥ ब्रह्मसूत्रभाष्यम् ॥ श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं ⸻ ꕤ ⸻ ( १ ) नारायणं गुणैस्सर्वै- रुदीर्णं दोषवर्जितम् । ॥ भाष्यदीपिका ॥ श्री जगन्नाथयतिविरचिता . ⸻ ꕤ ⸻ जिज्ञास्यं जन्मरक्षाक्षयनियतिमतिप्रत्यगज्ञानबन्ध- श्रेयोदं शास्त्रगम्यं श्रुतिगतवचनैर्मुख्यवृत्त्याऽभिधेयम् । भैष्मीसत्यासमेतं बहुगुणवपुषं भीतिपूर्वार्द्दूरं भक्तिश्रुत्यादिचिन्त्यं भजनपरगतिं भावये वेणुकृष्णम् ॥ १ ॥ अश्मस्तम्भात्समागत्य ताम्रतुण्डाभिहत्य यः । तं नौमि जगन्नाथं कण्ठोऽपात्तं नृकेसरी ॥ २ ॥ अनधीत्य महाभाष्यं यस्य व्याकृप्यनुग्रहात् । तमुपासे नृसिंहार्कं प्रत्यूहतिमिरापहम् ॥ ३ ॥ पूर्णबोधगुरून्वन्दे जयार्यान् व्यासदेशिकान् । रामचन्द्रगुरून्वार्यान् लक्ष्मीकान्तगुरूनपि ॥ ४ ॥ येनायं निरणायि मध्वगुरुसद्भाष्यप्रकाशाशयः प्राखण्डि प्रतिवादिदर्शनगणः प्राबन्धि गुर्वर्णवः । शिष्येभ्यस्समदायि वित्तमुभयं प्रालम्भि विद्यासनं सोयं श्रीरघुनाथतीर्थगुरुराट् शुद्धिं विदध्यान्मतेः ॥ ५ ॥ जयार्यरचितां टीकामनुसृत्य यथामति ।