BharatKosha
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

by महाकवि कालिदास

Source: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (origin)

DevanagariHindipublished735 pages

Page 292 of 735

Read in context
Page 292

सप्तमः सर्गः २३३

इत इति। हे वैदर्भि इन्दुमति ! इत इदानीमर्भंकहार्यशस्त्रान्बालकापहार्यायुधा- न्यपराञ्शत्रून्पश्य । मयानुमतासि द्रष्टुमिति शेषः । एभिर्नृपैरेवंविधेन निद्रारूपेणा- हवचेष्टितेन रणकर्मणा मम हस्तगता हस्तगतवद्दुर्ग्रहेत्यर्थः । त्वं प्रार्थ्यसे अपजि- हीष्यंस इत्यर्थः । एवंविधेनेत्यत्र स्वहस्तनिर्देशेन सोपहासमुवाचेति द्रष्टव्यम् ।

भाषार्थ—अयि विदर्भराजकुमारी ! मैं तुम्हें आज्ञा देता हूँ, देखो तो सही युद्धस्थल में राजा लोग इस प्रकार सोये हुए हैं कि बालक भी इनके अस्त्र छीन सकते हैं। देखो, इसी बल पर ये मेरे हाथों से तुमको छीनना चाहते थे ॥६७॥

तस्याः प्रतिद्वन्द्विभवाद्दिषादात्सद्यो विमुक्तं मुखमाबभासे ।
निःश्वासबाष्पापगमात्प्रपन्नः प्रसादमात्मीयमिवात्मदर्शः ॥ ६८ ॥

अन्वयः—प्रतिद्वन्द्विभवात् विषादात् सद्यः विमुक्तं तस्याः मुखं निःश्वासबा- ष्पापगमात् आत्मीयं प्रसादं प्रपन्नः नात्मदर्शः इव आबभासे ।

तस्या इति । प्रतिद्वन्द्विभवाद्विपूत्याद्विषादाद् दैन्यात्सद्यो विमुक्तं तस्या मुखं निःश्वासस्य यो बाष्प ऊष्मा । ‘वाष्पो नेत्रजलोष्मणोः’ इति विश्वः । तस्यापग- माद्धेतोरात्मीयं प्रसादं नैर्मल्यं प्रपन्नः प्राप्तः आत्मा स्वरूपं दृश्यतेऽनेनेत्यात्मदर्शं दर्पण इव आबभासे ।

भाषार्थ—जब इन्दुमती को यह निश्चय हो गया कि शत्रु मारे गये तब उसका मुँह उस दर्पण के समान सुशोभित हो गया जिस पर पड़ी हुई सांस की भांप पोछ दी गई हो ॥ ६८ ॥

हृष्टापि सा ह्रीविजिता न साक्षाद्वाग्भिः सखीनां प्रियमभ्यनन्दत् ।
स्थली नवाम्भःपृषताभिवृष्टा मयूरकेकाभिरिवाभ्रवृन्दम् ॥ ६९ ॥

अन्वयः—सा हृष्टा अपि ह्रीविजिता सती प्रियं साक्षात् स्वयं न अभ्यनन्दत् किन्तु नवाम्भःपृषताभिवृष्टा स्थली अभ्रवृन्दं मयूरकेकाभिः इव सखीनां वाग्भिः अभ्यनन्दत् ।

हृष्टेति । सेन्दुमती हृष्टापि पत्युः पौरुषेण प्रमुदितापि ह्रिया विजिता यतोऽत प्रियमजं साक्षात्स्वयं नाभ्यनन्दन्न प्रशंस । किन्तु नवैरम्भःपृषतैः पयोबिन्दुभिर- भिवृष्टाऽसिक्ता स्थल्यकृत्रिमा भूमिः । “जानपदकुण्डगोणस्थल०” इत्यादिना- ऽकृत्रिमार्थे ङीप् । अभ्रवृन्दं मेघसंघं मयूरकेकाभिरिव सखीनां वाग्भिरभ्यनन्दत् ।

भाषार्थ—जिस प्रकार नये बादलों की बूंदों से भीगी हुई बनस्थली मयूर के शब्दों से मेघों का अभिनन्दन करती है, उसी प्रकार अपने पति के पराक्रम से