रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
by सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री)
Page 133 of 799
Read in contextपञ्चमस्तरङ्ग ६१ तृतीयः प्रकारः त्रयो भागा ग्राह्याः खलु रसवरस्येह विबुधैः रवेश्चैको भागो विधिविहितशुद्धिः कृतदलः । समं सर्वं मर्द्यं भृशमिह हि जम्बीररसजैः रसः पाक्यो युक्त्या खलु डमरुयन्त्रे बुधवरैः ॥७४॥ तृतीयः प्रकारः—पत्राकारस्य चूर्णीकृतस्य वा शुद्धस्य ताम्रस्यैको भागो रस- भागत्रयं जम्बीररसैस्त्रिदिनं मर्दनं विधाय पातनं कार्यम् ॥ ७४ ॥ भा.टी.—पारा तीन भाग, शुद्ध ताम्रचूर्ण एक भाग, दोनों को खरल में एकत्रकर जम्बीरीनीबू के रस से मर्दनकर इस कल्क को डमरुयन्त्र की निचली हाँडी में भर ऊपर उड़ा लें ॥ ७४ ॥ अधः पातनस्य प्रथमः प्रकारः बलिसम्मिलितं रसेश्वरं सुचिरं वैद्यवरः सुपेषयेत् । विधिना च विधाय कज्जलीमथ जम्बीररसैः सुमर्दयेत् ॥७५॥ शिखी च शिग्रुबीजकं तथासुरी च सैन्धवम् । तथा च मर्कटी बुधः समं समं विनिक्षिपेत् ॥७६॥ पिष्टमानेन तु प्राज्ञो लेपयेदूर्ध्वभाजनम् । अधःपातनयन्त्रे च गृह्णीयान्निर्मलं रसम् ॥७७॥ द्वितीयः प्रकारः हरीतकी विभीतकं तथासुरी च सैन्धवम् । शिखी च शिग्रुजः समैः समैः सुपेषयेद्रसम् ॥७८॥ यदा स नष्टपिष्टतामियात्तदा भिषग्वरः । निरुक्तयन्त्रवर्त्मना रसं निपातयेदधः ॥७९॥ अधःपातनप्रकारः प्रथमः—बलिसम्मिलितं गन्धकयुक्तम् , शिखी चित्रकः, मर्कटी आत्मगुप्ता, ऊर्ध्वभाजनं लेपयेत्, ततोऽधः पातयेत् ॥ ७५–७६ ॥ भा. टी.—समभाग गन्धकयुक्त पारद को अच्छी तरह मर्दन करके इसकी कजली बना लें, अब इसमें पारद के समभाग चित्रकचूर्ण, सहजन के बीज, राई, सैन्धा नमक तथा कौंच के बीज का चूर्ण मिला जम्बीरीनीबू के रस से खूब अच्छी तरह मर्दनकर पिष्टी-सी बना लें । इसी पिष्टी को अधःपातन यन्त्र के ऊपर के पात्र के भीतर लेप करके अधःपातन विधि से पातन कर लें ॥७५–७७॥