रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
by सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री)
Page 284 of 799
Read in context२४२ रसतरङ्गिणी अभ्रकसत्त्वसेविनां वर्जनीयानि वस्तूनि करीरं कारवेल्लञ्च कर्कटीं कोलम्मलकम् । तैलं क्षारञ्च वृन्ताकं नाश्नीयादभ्रसेवकः ॥ ११६ ॥ करीरमित्यादिना वर्ज्यवस्तूनि गगनसेविनाम् । उक्तञ्च रसमाधवे-“क्षाराम्लं बिदलं कोलं कर्कटीं कारवेल्लकम् । वृन्ताकञ्च करीरञ्च तैलञ्चाभ्रे विवर्जयेत् ॥” इति ॥ ११६ ॥ भा.टी.—अभ्रक सेवनकाल में करीरी (टेंटी), करेला, ककड़ी, खट्टा बेर, तैल, क्षार, बैगन, इन चीजों का सेवन नहीं करना चाहिये ॥ ११६ ॥ अभ्रकस्य प्रथमः कल्पः मृताभ्रं व्योषसंयुक्तं विडङ्गामलकान्वितम् । केशराजरसेनेह सलिलेनैव वा भिषग् ॥ ११७ ॥ खल्वे सम्पेषयेत्प्राज्ञः गुटिकाः कारयेत्ततः । छायायां शोषयित्वा च काचकुम्भे निधापयेत् ॥ ११८ ॥ एकैकां गुटिकां प्राज्ञः समश्रीयान्निरन्तरम् । मासषट्कं त्रिमासं वा वैद्यवाचि कृतादरः ॥ ११९ ॥ दिव्यदृष्टिर्दीर्घकायो दिनेशद्युतिदीप्तिमान् । दृढदन्तो भवेद्रूपे द्वितीय इव दर्पकः ॥१२०॥ आन्त्रशोषं त्वस्थिशोषं शोषं यक्ष्माणमुल्बणम् । चिरोत्थितान् पञ्चकासान् सभेदं श्वासमुद्धतम् ॥१२१॥ अर्शांसि ग्रहणीं पाण्डुं कामलां कुम्भकामलाम् । कुष्ठान्यष्टादशात्यर्थं निहन्यादामवातकम् ॥ १२२ ॥ वातपित्तकफोद्भूतान् मृत्युकल्पानिहामयान् । सर्वानैव निहन्त्याशु वज्रकल्पोऽयमादिमः ॥१२३॥ शोषं मांसादीनाम्, उल्बणं यक्ष्माणं पूर्णलक्षणमिति यावत् । सभेदं तमका- दिभेदयुक्तम् । आदिमः प्रथमः वज्रकल्पः अभ्रकरसायनप्रयोगः ॥११७-१२३॥ भा.टी.—अभ्रकभस्म, त्रिकटुचूर्ण, विडंगचूर्ण आंवलाचूर्ण; प्रत्येक सम- भाग लेकर एकत्र खरल में भांगरास्वरस अथवा जल से मर्दन करके गोली बना कर छाया में सुखा लें और कांच की शीशी में रख लें। अब इनमें से एक गोली प्रतिदिन प्रातःकाल छः मासे अथवा तीन मासे तक निरन्तर सेवन करें। इसके सेवन से मनुष्य दिव्यदृष्टि, दीर्घकाय, सूर्य के समान प्रभावाला हो जाता है। उस मनुष्य के दांत बहुत दृढ़ हो जाते हैं। मनुष्य देखने में दूसरा कामदेव