BharatKosha
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

by सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री)

DevanagariHindipublished799 pages

Page 315 of 799

Read in context
Page 315

१८ एकादशस्तरङ्गः २७३ मल्लमारणविधिः पलद्वयं सुराक्षारमम्बरीषे न्यसेद्भिषक् । स्तूपाकारतया तत्र चूर्णितं हस्तिदन्तकम् ॥ १७१ ॥ निदध्यादथ चुल्ल्याञ्च वह्निमारोप्य दीपयेत् । यदैकीभूय निर्धूमं भवेद्भस्मानभं तथा ॥ १७२ ॥ तदावतार्य तद् भस्म कूप्यां सम्पेष्य स्थापयेत् । भस्मादस्मात्तु कर्षैकं मषायां सन्निधाय च ॥ १७३ ॥ तोलकप्रमितं शुद्धं मल्लखण्डं ततो न्यसेत् । ऊर्ध्वं दद्यात्पुनर्भस्म कर्षैकप्रमितं च तत् ॥ १७४ ॥ शरावेण निरुध्याथ लावकाख्ये पुटे पुटेत् । सुशुभ्रं भस्म मल्लस्य तस्मादपनयेद् बुधः ॥ १७५ ॥ एवं तु नियतं भस्म मल्लस्य परिजायते । गुणा मात्रानिश्चयश्च ज्ञेयः शोधितमल्लवत् ॥ १७६ ॥ मल्लभस्म यद्यपि प्राचीनैः रसतन्त्रेषु न व्यवहृतम् । तथाप्यद्यत्वे प्रयुज्यत इति कृत्वा मारणप्रकारः उच्यते पलद्वयमित्यादिना । प्रसङ्गान्मल्लभस्मप्रयोगः कथ्यते— मल्लभस्म गुञ्जैकभितं, अहिफेनः माषषट्कमितः, मृगाण्डजं माषकद्वयम्, वह्नि- जारः एकादश गुञ्जाः, कुङ्कुमं माषाष्टकम् । एकत्र घृष्ट्वाः क्षीरेण सुश्लक्ष्णं संमर्च्य वट्यः कार्याः । मात्रा—अर्द्धगुञ्जातो गुञ्जैकपर्यन्ता । पयसा प्रातः प्रयोज्या । मल्लस्य मल्लभस्मनो वा प्रयोगाः प्रायशः भक्तान्ते योज्याः । यदि कथञ्चित् निरन्न एव योज्याः स्युस्तदा प्रभूतसर्पिषा नवनीतेन वा सहैव दातव्याः । एवं योगः क्लैब्यं नाशयति । बलं पुष्टिं च ददाति । सामान्यतः सप्ताहमेकमु- पयुज्य मल्लं मल्लभस्म वा दिनैकं त्याज्यम् । अनयोः सततं प्रयोगः निषिध्यते । दुग्धघृतादीनि विशेषतः सेव्यानि ॥ १७१–१७६ ॥ भा.टी.—मिट्टी की एक चौड़े मुख की हाँड़ी या कूँड़े में दो पल प्रमाण सुराक्षार रखकर उसके ऊपर दो पल प्रमाण हाथीदाँत का चूर्ण इस तरह रखें कि वह नीचे को चौड़ा और ऊपर पतला नुकीला हो जाय, अब इस पात्र को चूल्हे पर रखकर अग्नि जलायें । जब कूँड़े का द्रव्य जलकर निर्धूम होकर एक में मिल जाय अर्थात् भस्म जैसा हो जाय तो पात्र को उतार कर इस भस्म को निकाल पीस कर एक शीशी में भर लें । अब इस भस्म में से दो तोला प्रमाण लेकर एक मूषा में रखें और भस्म के ऊपर एक तोले का शुद्ध मल्ल-