सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
by भगवान् सङ्कर्षण / महर्षि नारद
Page 446 of 837
Read in contextतिलसर्षपपूर्णानि पात्राणि विततानि च ॥ २४४ ॥ सुसमं तद्बहिर्दद्याद् दिक्षु लोहशराष्टकम् । कण्ठदेशेषु बध्नीयाच्छराणां दृढतन्तुना ॥ २४५ ॥ बर्हिपक्षसमायुक्तां सर्पकञ्चुकभूषिताम् । महौषधीं भूतजटां शमीशाखासमन्विताम् ॥ २४६ ॥ पञ्चरागेण सूत्रेण उदगाशादितः क्रमात् । प्रादक्षिण्येन तु त्रेधा वेष्टयेत् तच्छराष्टकम् ॥ २४७ ॥ अष्टानां पूर्णकुम्भानामन्तरान्तरयोगतः । दद्यादुच्चासनस्थं तु दीपाष्टकमनुक्रमात् ॥ २४८ ॥ तैलेन राजिकाख्येन ताम्रपात्रस्थितास्तु वै । दीपानां वर्तयो देया महाराजतरञ्जिताः ॥ २४९ ॥ अथ बद्धशिखो मौनी प्राग्वद् दिग्बन्धमाचरेत् । अभिसन्धाय मनसा सर्वदोषपलायनम् ॥ २५० ॥ संयजेन्मन्त्रनाथं तु काम्यैर्बहुविधैः शुभैः । पुष्पैर्धूपैस्तु नैवेद्यैर्भक्ष्यैः सफलमूलकैः ॥ २५१ ॥ हुत्वाऽथ सर्वबीजानि सिद्धार्थकयुतानि च । राजिकाघृतयुक्तानि तिलानि सफलानि च ॥ २५२ ॥ ध्यात्वा पूर्णाहुतिं दद्यान्मध्याह्नसमये ततः । रक्ष्यं सुनिर्मलं कृत्वा पूर्वमभ्यञ्जनादिकैः ॥ २५३ ॥ हेमर(क्तौ? त्लौ)षधिस्नानैः प्रोक्षयित्वा प्रवेश्य च । ताडयित्वाऽस्त्रपुष्पेण आपादात् सन्निरीक्ष्य च ॥ २५४ ॥ नतजानुशिरः कृत्वा देवाय विनिवेदयेत् । उत्तराभिमुखं कृत्वा आसने परिधान्विते ॥ २५५ ॥ अस्त्रोपलक्षिते चैव तथार्घ्यादिसमन्विते । षडङ्गेनाथ मन्त्रेण तस्य न्यासं समाचरेत् ॥ २५६ ॥ मनसा करशाखासु स्वस्थानेष्वथ विग्रहे । सचक्रमथ तस्याग्रे षट्कोणं मण्डलं लिखेत् ॥ २५७ ॥ वृत्तं ज्वालागणेनैव ततस्तत्र निवेशयेत् । प्रागुक्तरचनाढ्यं तु सुपूर्णं गन्धवारिणा ॥ २५८ ॥ सप्तकं कलशानां तु मध्ये योज्यं तदक्षिषु । अश्रिभ्यामन्तरालस्थं दीपषट्कं यथा पुरा ॥ २५९ ॥