स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
by महाकवि भास / पं. विश्वनाथ शास्त्री
Page 96 of 204
Read in contextउपोद्घातः ३९ किञ्च, चारुदत्तनाटकादृष्टा अपि मनोहराः केऽपि ग्रन्थसन्दर्भा मृच्छकटिके सन्ति । तेन लघुग्रन्थरूपतया स्थितं चारुदत्तनाटकम् आस्वाद्यतातिशयाय कैश्चित् संस्कारैरुपेतं कृत्वा विस्तार्य च मृच्छकटिकसंज्ञया शूद्रेकेन ख्यापितमिति युक्तमूहिनुम् । एवञ्च मृच्छकटिकस्य चारुदत्तनाटकप्रायतत्वात् तत्र सचेतसां चारुदत्तवदतिपुरातनत्वावभास उपपद्यते, तत्सङ्कलनमात्रकर्त्तरि च शूद्रेके तन्मू- ल्लकवित्वभ्रमादतिप्राचीनत्वभ्रमः । काममयं कालिदासतः प्राचीन इत्यत्र प्रमा- णाभावः, आलंङ्कारिकवामनात् तु प्राचीन एवासौ । तदीयायां काव्यालङ्कार- सूत्रवृत्तौ “शूद्रकादिरचितेषु प्रबन्धेष्वस्य (श्लेषाख्यगुणस्य) भूयान् प्रपञ्चो दृश्यते” इति कथनात् । तदेवं भासस्य कवित्ववैभवं कालिदासशूद्रकाद्युपजीव्यमासी- दिति फलितम् ॥ अत्र नाटकचक्रे ततइतः सन्ति केचित् परिमिताः पाणिनीयादृष्टा आ- प्रयोगविशेषाः । लङ्कारिकाहृद्याश्च प्रयोगाः— १. “अपरिचयात्तु न श्लिष्यते मे मनसि ।” (स्वप्न. अङ्क. १) २. “आपृच्छामि भवन्तौ ।” (स्वप्न. अङ्क. १) ३. “साधुजनहस्तंगतैषा नोत्कण्ठिष्यति ।” (स्वप्न. अङ्क. १) ४. “हस्त्यश्वरथपदातीनि विजयाङ्गानि ।” (प्रतिज्ञा. अङ्क. ४) ५. “दैवप्रामाण्याद् भ्रश्यते वर्धते वा ।” (प्रतिज्ञा. अङ्क. १) ६. “यावदहमुच्छ्वसामि ।” (प्रतिज्ञा. अङ्क. १) ७. “कथमगणितपूर्वं द्रक्ष्यते........श्रोष्यते ।” (प्रतिज्ञा. अङ्क. १) ८. “प्रथममभिकाङ्क्षे हि मनसा ।” (प्रतिज्ञा. अङ्क. २) ९. “जित इति पुनरेनं रुष्यते वासुभद्रः ।” (पञ्च. अङ्क. २) १०. “स्त्रीगतां पृच्छसे कथाम् ।” (पञ्च. अङ्क. २)