तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
by महर्षि तित्तिरि / सायणभाष्य
Source: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (origin)
Page 194 of 345
Read in contextतैत्तिरीयब्राह्मणम् (१.३.१०) १६५ यदुक्तं सूत्रकारेण-“वाससो दशां छित्त्वा निदधाति ” इति। तदेत द्विधत्ते- धीरं॑ वा॒ वै पि॒तरः॒ प्रय॑न्तो॒ हर॑न्ति। वी॒रं वा॑ ददति। दशां॑ छि॒नत्ति॑। ह॒रण॑भागा॒ हि पि॒तरः॑। पि॒तॄने॒व निर॑वदयते, इति। पिण्डरूपमन्नं भुक्त्वा यदा पितरः स्वस्थाने प्रयान्ति तदानीमस्य वीरं पुत्रं विद्यमानमपहरन्ति वाऽविद्यमानं ददति वा। पक्षद्वयमपि संभाव्यते। वैकल्ये पुत्रं मारयन्ति। साकल्ये पुत्रं प्रयच्छन्ति अत्र वैकल्यस्य दुष्परिहरत्वात्पुत्र प्रत्याम्नायत्वेन वस्त्राग्रमीषत्सूत्रं छित्वा पिण्डेषु निदध्यात् । यस्मादपहरणमेव पितरो भजन्ते तस्मात्पितृन्निःशेषभागदानेन विसर्जयेति। तत्रैवं कंचिद्विशेषं विधत्ते- उत्त॑र॒ आयु॑षि॒ लोम॑ छिन्दीत। पि॒तॄणा ँह्येतर्हि॒ नेदी॑यः (७), इति। पञ्चाशत्संवत्सरपरिमितं पूर्वमायुरावशिष्टं तूत्तरम्। तस्मिन्वयसि वस्त्रदशा न च्छत्तव्याः किंतु स्वकीयं लोम च्छित्त्वा तव निदध्यात्। यस्मादयमासन्नमरणत्वात्पितॄणामांम समीपवर्ती तस्मात्तस्मिन्वयस्येत- दुचितम्। विधत्ते- नम॑स्करोति। नम॒स्कारो॒ हि पि॑तॄणा॒म्, इति। अत्यन्तं प्रिय इति शेषः। तत्र मन्त्रं विनियुङ्क्ते- नमो॑ वः पितरो॒ रसा॑य। नमो॑ वः पितरः॒ शुष्मा॑य। नमो॑ वः पितरो जी॒वाय॑। नमो॑ वः पितरः स्व॒धायै॑। नमो वः पितरो म॒न्यवे॑। नमो॑ वः पितरो घो॒राय॑। पि॒तरो॒नमो॑ वः। य ए॒तस्मि॑ ँल्लो॒के स्थ (८)। युष्मा ँस्तेऽनु॑। यैऽस्मि ँ ल्लो॒के। मां तेऽनु॑। य ए॒तस्मि॑ ँ ल्लो॒के स्थ। यूयं तेषां॒