BharatKosha
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

by महर्षि तित्तिरि / सायणभाष्य

Source: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (origin)

DevanagariSanskritpublished345 pages

Page 240 of 345

Read in context
Page 240

तैत्तिरीयब्राह्मणम् (१.४.९) २११ चातुर्मासस्यानि दृष्टवन्तः। यस्मात्संवत्सरे तैर्निरुक्तैरसुराणां संवत्सरपर्याप्तं भोज्यं विनाशितवन्तस्ततो देवा विजयं प्राप्ता असुराश्च पराभूताः। इत्थमाख्यायिकया चातुर्मास्यानामत्यन्तप्रशस्तत्वं दर्शयितुं दर्शपूर्णमासादिप्रशंसापूर्वकं तत्तत्प्रशंसामुपपन्यस्य दर्शादिविध्य- नुवादपुरःसरं तद्विधत्ते- यद्यज॑ते यामे॒व दे॒वा ऊर्ज॑म॒वारु॑न्धत । तां तेना॑वरुन्धते यत्पि॒तृभ्य॑: करो॒ति॑ । यामे॒व पि॒तर॑ ऊर्ज॑म॒वारु॑न्धत । तां तेना॑वरुन्धे । यदा॑व॒सथेऽन्न॑ ँहर॑न्ति । यामे॒व म॑नु॒ष्या॑ ऊर्ज॑म॒वारु॑न्धत । तां तेना॑वरुन्धे । यद्दक्षि॑णां ददा॑ति (४) । यामे॒व प॒शव॑ ऊर्जमवा॑रुन्धत । तां तेना॑वरुन्धे । यच्चातुर्मा॒स्यैर्यज॑ते ।। यामेवासु॑रा॒ ऊर्ज॑म॒वारु॑न्धत । तां तेना॑वरुन्धे । भव॑त्या॒त्मना॑ । परा॑ऽस्य॒ भ्रातृ॑व्यो भवति॒, इति । यजते दर्शपूर्णमासावनुतिष्ठति । पितृभ्यः करोति । पिण्डपितृयज्ञमनुतिष्ठति । आवसथेऽन्नं हरन्ति । वैश्वदेवान्तेऽतिथीनन्नेन पूजयन्ति । अन्वाहार्यगवादिरूपां दक्षिणां ददाति । तथा च यथा तेन तेन तत्तत्फलप्राप्तये दर्शपूर्णमासादयः कर्त्तव्या एवमत्रापि फलप्राप्तये चातुर्मास्यानि यजते । तत आत्मना भवति । स्वयमेव जययुक्तो भवति । भ्रातृव्यस्तु पराभवति । अत्र चातुर्मास्यविधौ तात्पर्यं दर्शयितुं पुनः प्रशंसति- वि॒रा॒जो वा ए॒षा वि॒क्रां॑न्तिः । यच्चातु॑र्मा॒स्यानि॑ । वै॒श्व॒दे॒वेना॒स्मिँल्लो॒के प्र॒त्य॑तिष्ठत् । व॒रु॒ण॒प्र॒घा॒सैर॒न्तरि॑क्षे सा॒क॒मे॒धैरु॒मुष्मिँ॑ल्लो॒के । ए॒ष हु॒त्वा वै तत्सर्वं॑ भवति । य ए॒वं वि॒द्वाँश्चातु॑र्मा॒स्यैर्यज॑ते (५) इति । म॒नु॒ष्या॑ अपश्यं॒ चम॒सं घृ॒तस्य॑ पू॒र्ण ँस्व॒धामसु॑रा अपश्यं॒ चम॒सं घृ॒तस्य पू॒र्ण ँस्व॒धामसु॑रा॒ ददा॑त्यतिष्ठञ्च॒त्वारि॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके चतुर्थाध्याये नवमोऽनुवाकः ॥ ९ ॥