तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
by आचार्य अभिनवगुप्त / राजानक जयरथ
Source: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (origin)
Page 169 of 368
Read in contextश्लोकः १२२ ] प्रथमाह्निकम् । १५९ ये च स्वभावतो वर्णा रसनिःष्यन्दिनो यथा ॥११९॥ दन्त्यौष्ठ्यदन्त्यप्रायास्ते कैश्चिद्वर्णैः कृताः सह । तं बीजभावमागत्य संविदं स्फुटयन्ति ताम् ॥१२०॥ पुष्टिं कुरु रसेनेन- माप्यायय तरामिति । संजल्पोऽपि विकल्पात्मा किं तामेव न पूरयेत् ॥१२१॥ अमृतेयमिदं क्षीर- मिदं सर्पिर्बलावहम् । तेनास्य बीजं पुष्णीया- मित्येनां पूरयेत्क्रियाम् ॥१२२॥ ध्यानाद्येव क्रमेण निरूपयति - पुष्टिरित्यादिना । ततः इति समनन्तरोक्ताद्धेतोः । अतः इति पुष्टेः पं० ७ क० पु० पुष्टिं कुरु रसोऽनेन ध्याययन्तु ततस्तरामिति पाठः । पं० ९ ख० पु० संकल्पोऽपि इति पाठः । पं० १३ ग० पु० पुष्णीयादिति पाठः ।