तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
by आचार्य अभिनवगुप्त / राजानक जयरथ
Source: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (origin)
Page 185 of 368
Read in contextश्लोक १३५ ] प्रथमाह्निकम् । १७५ जडाजडस्याप्येतस्य द्वैरूप्यस्यास्ति चित्रता ॥ १३५ ॥ आवृत्य इति स्वस्वरूपगोपनात्मिकया मायाशक्त्या संकोचवत्तामाभास्य इत्यर्थः । जडपदम् इति परप्रकाश्यभावराशिस্বরূপताम् इत्यर्थः । विश्वनि- र्माणेच्छुर्हि परमेश्वरः प्रथमं स्वाव्यतिरिक्तमेव विश्वं प्रकाशयेत्, अयमेव च आदिसर्गः तत्र तत्रागमेषु उच्यते, अनन्तरं च यदास्य मायया सर्गचिकीर्षा भवति तदा स्वस्वातान्त्र्यात् स्वात्मदर्पणे अनन्त- ग्राह्यग्राहकद्वयाभाससन्ततीराभासयति, स्वाङ्गरूप- भावराशिमध्यादेव हि देहप्राणबुद्धिशून्यानि स्वग- ताहन्तात्मककर्तृतार्पणेन ग्राहकीभावयति, तदपरं शब्दादि च इदन्ताविषयतया चिद्रूपतातिक्रमेण ग्राह्यतामापादयति, अत एव च देहादिः कर्तृतां ज्ञातृतां च स्वात्मनि धत्ते, तदितरच्च कार्यतां ज्ञेयतां च । अत एव चैषां जडाजडव्यपदेशः, तदाह 'आवृतानावृतात्मा' इति । एवमपि चास्य प्रकारवैचि- पं० १० क० ख० पु० संततीरुल्लासयतीति, ख० पु० स्वाङ्गभूतेति पाठः । पं० १६ ख० पु० जडाजडशब्दव्यपदेश इति पाठः ।